________________
बालबोधिनीविवृतिविभूषितं कुम्भम्, क्रियते कुम्भ इति । लिङ्गभेदे-तटस्तटी तटमिति । सङ्ख्याभेदे-दाराः, कलत्रम् , गृहाः। पुरुषभेदे-एहि ! मन्ये-रथेन
------
लिङ्गभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-लिङ्गभेद इतितट इति पुल्लिँङ्गप्रतिपाद्यस्तटरूपोऽर्थोऽन्यः, अन्यस्तटीति स्त्रीलिङ्गप्रतिपाद्यः, ताभ्यामन्यश्च तटमिति नपुंसकलिङ्गप्रतिपाद्य इत्येवं शब्दनयोऽभिमन्यते । __ सङ्ख्याभेदेनार्थभेदप्रतिपादकं शब्दनयमुदाहरति-सङ्ख्याभेद इतिबहुवचनान्तदारपदप्रतिपाद्यो दाररूपार्थोऽन्यः, ततोऽन्यः कलत्रमित्येकवचनान्तकलत्रपदप्रतिपाद्यः, तस्मादन्यश्च बहुवचनान्तगृहपदप्रतिपाद्यः, "न गृहं गृहमित्याहुहिणी गृहमुच्यते" इति वचनाद् गृहकार्यनिपुणायां स्त्रियामपि गृहशब्दो वर्तत इति स्त्रीबोधकोऽयं गृहशब्द इति, अन्यथैकवचनान्तपदप्रतिपाद्याद् गृहरूपार्थाद् बहुवचनान्तगृहपदप्रतिपाद्योऽन्य एवेति सङ्ख्याभेद नार्थभेद इति शब्दनयोऽभ्युपगच्छतीत्यर्थः। ___ उत्तम-मध्यमाऽन्यपुरुषभेदेनाऽर्थभेदप्रतिपादकं शब्दनयमुदाहर्तुमाह-पुरुषभेद इति-अस्मच्छब्दवाच्योऽर्थ उत्तमपुरुषः, युष्मच्छब्दवाच्योऽर्थों मध्यमपुरुषः, ताभ्यामन्योऽर्थोऽन्यपुरुषः, तबोधकप्रत्ययभेदे योऽर्थभेदस्तत्प्रतिपादकमनन्तरमुच्यमानमुदाहरणमित्यर्थः । किं स्वरूपं तदित्याकाङ्क्षायामाह-एहीत्यादि । एहि आपूर्वकस्य इधातोर्विध्यादौ मध्यमपुरुषैकवचने रूपम् , 'आगच्छ' इति तदर्थः। मन्ये मन्धातोर्वर्तमानायामुत्तमपुरुषैकवचने रूपम् , वक्ष्यमाणसूत्रबलाद 'मन्यसे, मन्येथे, मन्यध्वे इति' मध्यमपुरुषस्थाने उत्तमपुरुषस्य एकवचनान्तत्वेन निर्देशः, अर्थस्तु मध्यमपुरुषमाश्रित्य वाच्यः, तत्र यद्यपि