________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । यास्यसि, नहि यास्यति[सि], यातस्ते पिता । अथवा-एहि ! मन्येओदनं भोक्ष्यसे, भुक्तः सोऽतिथिभिः, एतम् एतं वा । मन्ये
द्विवचन बहुवचने अपि सम्भवतस्तथापि 'एहि' इत्येकवचनान्तसान्निध्याद 'मन्यसे' इत्येकवचनान्तस्थाने 'मन्ये' इत्यवगन्तव्यम् , 'विचारयसि', इति तदर्थः । कीदृशी विचारणा ? इत्याह-रथेन यास्यसीति । रथेन वाहनविशेषेण । यास्यसि याधातोभविष्यन्त्यां मध्यमपुरुषैकवचने रूपम् , वक्ष्यमाणसूत्रबलाद् ‘यास्यामि' इत्युत्तमपुरुषस्थाने मध्यमपुरुषतया निर्देश 'गमिष्यामि' इति तदर्थः । निरुक्तपुरुषव्यवस्था-वचनव्यवस्थाप्रयोजकप्रहासावगतये प्राह नहि यास्यसि, यातस्ते पितेति । अत्र 'एहि ! त्वं मन्यसे-अहं रथेन यास्यामि' इति वक्तव्ये सूत्रविशेषविधानसामर्थ्यात् 'एहि ! मन्ये-रथेन यास्यसि' इति प्रयुज्यते । अत्र यद्यपि 'एहि' इत्यनेन सम्बोध्यो यो मैत्रादिः स एव 'मन्ये' इत्यस्य 'यास्यसि' इत्यस्य च कर्ता तथापि पुरुषभेदादर्थभेद इति शब्दनयोऽभिमन्यत इति 'एहि' इति ‘यास्यसि' इति च मध्यमपुरुषाख्यातवाच्यादर्थाद् 'मन्ये' इत्युत्तमपुरुषाख्यातवाच्योऽर्थोऽन्यः । प्रकारान्तरेणोक्तमेवार्थमाह---अथवेति-'एहि ! मन्यसे ओदनं भोक्ष्ये' इति वक्तव्ये वक्ष्यमाणसूत्रबलाद् ‘एहि ! मन्ये--ओदनं भोक्ष्यसे, इति प्रयुज्यते, 'भुक्तः सोऽतिथिभिः' इत्यनेन प्रहासस्य गम्यमानत्वं लभ्यते, तथा सत्येव निरुक्तपुरुषव्यवस्था-वचनव्यवस्थे भवतः । सम्बोध्यकव्यक्तिमाश्रित्य 'एहि ! मन्ये-ओदनं भोक्ष्यसे' इत्युदाहृतम् । अथ सम्बोव्यं व्यक्तिद्वयं व्यक्तित्रयं चाश्रित्योदाहर्तुमाह-एतम् ! एनम् ! वेत्यादि-अत्र 'एतम् ! एत! वा' इत्यादिपाठः समुचितः । एतम् । आपूर्वकस्य इधातोर्वि