________________
९४
बालबोधिनीविवृतिविभूषितं ओदनं भोक्ष्येथे भोक्ष्यध्वे, भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे इत्यादिः, मन्यसे मन्येथे इत्यादिरर्थः, "प्रहासे च मन्योपपदे मन्यतेरुत्तम घ्यादौ मध्यमपुरुषद्विवचने रूपम् , 'आगच्छतम्' इति तदर्थः। एत आङ्पूर्वकस्य इधातोर्विध्यादौ मध्यमपुरुषबहुवचने रूपम् , 'आगच्छत' इति तदर्थः । वाशब्दः समुच्चयार्थः, तेनोदाहरणत्रयमावेदितं भवति, तथाहि-एहि ! मन्ये-ओदनं भोक्ष्यसे १, एतम् ! मन्ये-ओदनं भोक्ष्येथे २, एत! मन्ये ओदनं भोक्ष्यध्वे ३ । एकस्य सम्बोधने प्रथममुदाहरणम्, द्वयोः सम्बोधने द्वितीयम् , बहूनां सम्बोधने तृतीयम् , मन् धातोर्विधानबलात् सर्वत्र उत्तमपुरुषैकवचनेन निर्देशः, भुजूधातोर्विधानबलाद् उत्तमपुरुषस्थाने मध्यमपुरुषनिर्देशः, शेषं तु सर्वत्र यथास्थितमेव । अत्र प्रथममुदाहरणम्-'एहि ! मन्यसे-ओदनं भोक्ष्ये इति स्थाने, द्वितीयम्-'एतम् ! मन्येथे-ओदनं भोक्ष्यावहे' इति स्थाने, तृतीयम्-- 'एत! मन्यध्वे ओदनं भोक्ष्यामहे' इति स्थाने विज्ञेयम् -भोक्ष्ये भोक्ष्यावहे भोक्ष्यामहे इत्यादिरिति-उदाहरणदत्ताः ‘भोक्ष्यसे, भोयेथे, भोक्ष्यध्वे' इति त्रयः प्रयोगाः क्रमेणैतत्रितयस्थाने संजाता इत्यर्थः, तेषां पुरुषभेदान्मिथो मिन्नार्थत्वमिति व्यज्यत इति भावः । त्रिष्वप्युदाहरणेषु ‘मन्ये' इत्यस्यैकाकारत्वादर्थभेदः कश्चिदस्ति न वेत्याकाङ्क्षायामाह-मन्यसे मन्येथे इत्यादिरर्थ इति-प्रथमोदाहरणे 'मन्ये' इत्यस्य 'मन्यसे' इत्यर्थः, द्वितीये 'मन्येथे' इत्यर्थः, तृतीये 'मन्यध्वे' इत्यर्थो बोध्यः । ननु तत्र किं नियामकमिति चेद् , उच्यतेसन्निहितपदवचनं नियामकम् , तथाहि-'एहि' इत्येकवचनान्तस्थले 'मन्यसे' इति 'एतम्' इति द्विवचनान्तस्थले 'मन्येथे' इति, 'एत' इति बहुवचनान्तस्थले 'मन्यध्वे' इति । ननु पुरुषान्तरवाच्ये पुरुषा