________________
सप्तभङ्गीनयप्रदीपप्रकरणम् ।
१११ खविषये प्रवर्तमानं विधि-प्रतिषेधाभ्यां सप्तभङ्गीमनुव्रजति ५३ ॥ प्रमाणवदस्य फलं व्यवस्थापनीयम् ५४"
-[प्रमा० परि० ७ सूत्रम्-४६-५४ ] यथा प्रमाणस्य खल्वानन्तर्येण सम्पूर्णवस्त्वज्ञाननिवृत्तिः फलं तथा नयस्यापि वस्त्वेकदेशाज्ञाननिवृत्तिः फलम् । पारम्पयेण च यथा प्रमाणस्योपादानहानोपेक्षाबुद्धयः सम्पूर्णवस्तुविषयाः फलत्वेनाऽभिहितास्तथा नयस्यापि वस्त्वंशविषयास्ताः फलत्वेनाऽवधारणीयाः ॥] इति बोध्यम् ।
इति श्रीनयप्रदीपविभागः ॥
प्रमाणनिरूपणवन्नयनिरूपणमपि सप्रयोजनत्वात् कर्तव्यमित्याशयेनाहप्रमाणवदिति । अस्य नयस्य । तव्यवस्थामेवोपदर्शयति-यथेतिअनन्तरित-परम्परितभेदात् प्रमाणस्य फलं यथा द्विविधं तथा नयफलमप्युक्तप्रकारेण द्विविधम्, तत्र प्रमाणं सम्पूर्णार्थविषयकज्ञानरूपमिति तदनन्तरितफलं सम्पूर्णवस्त्वज्ञाननिवृत्तिः, नयस्तु वस्त्वेकदेशमाहिज्ञानरूप इति तदनन्तरितफलं वस्त्वेकदेशाज्ञाननिवृत्तिः, सम्पूर्णवस्तुविषयकस्य प्रमाणस्य पारम्पर्येण फलं सम्पूर्णवस्तुविषया उपादान-हानोपेक्षाबुद्धयः, एवं नयस्यापि वस्त्वंशविषयकस्य पारम्पर्येण फलं वस्त्वंशगोचरा उपादान-हानोपेक्षाबुद्धय इति प्रमाणसमशीलत्वात् प्रमाणनिरूपणमिव नयनिरूपणमपि प्रेक्षावद्भिरादरणीयमित्ययं नयनिरूपणयलोऽस्माकं सफलत्वान्न काकदन्तपरीक्षावदुपेक्षणीय इत्याशयः । सप्तभङ्गीनयप्रदीपप्रकरणरूपस्यास्य ग्रन्थस्य प्रथमसर्गः सप्तमङ्गीसमर्थनात्मा पूर्व वृत्तः, इदानी नयप्रदीपविभागात्मा द्वितीयसर्गोऽपि वृत्त इत्याह-- इति श्रीनयप्रदीपविभाग इति ।