________________
११०
बालबोधिनीविवृतिविभूषितं
काद् व्यवहारतः सङ्ग्रहः समस्ततत्समूहोपदर्शकत्वाद् बहुविषयः ४८ । वर्तमानविषया दृजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्त्वादनल्पार्थः ४९ । कालादिभेदेन भिन्नार्थोपदर्शिनः शब्दादृजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः ५० । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढाच्छन्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः ५१ । प्रतिक्रियं विभिन्नमर्थ प्रतिजानानादेवम्भूतात् समभिरूढस्तदन्यथाऽर्थस्थापकत्वान्महागोचरः ५२ । नयवाक्यमपि
दर्शयति — वर्तमानविषयादिति - वर्तमानमात्रविषयादित्यर्थः । अनल्पार्थः प्रभूतार्थः । उत्तरस्मात् साम्प्रताख्यशब्दनयात् पूर्वस्य ऋजुसूत्रस्य महार्थत्वम्, ततोऽल्पार्थत्वं शब्दस्य दर्शयति — कालादीति । आदिपदाद् लिङ्ग सङ्घबादेर्भहणम् । तद्विपरीतावेदकत्वात् कालादिभेदेऽप्यभिन्नार्थावेदकत्वात् । समभिरूढात् साम्प्रतस्य प्रभूतविषयत्वमावेदयति-— प्रतिपर्यायशब्दमिति । तद्विपर्यानुयायित्वात् पर्यायशब्दभेदेऽप्यर्थाभेदाभ्युपगन्तृत्वात् । एवम्भूतनयात् समभिरूढनयस्य प्रभूतविषयत्वं स्पष्टयति-- प्रतिक्रियमिति - व्युत्पत्तिनिमित्तक्रियासद्भावकाल एव ततच्छब्दवाच्यत्वमित्यभ्युपगच्छत एवम्भूतनयात् व्युत्पत्तिनिमित्तक्रिया तदा वर्त्ततां मा वा उभयथापि तदुपलक्षितार्थस्य शब्दवाच्यत्वमित्येवमर्थस्थापकत्वात् समभिरूढस्य महागोचरत्वमित्यर्थः । यथा प्रमाणवाक्यं खविषये प्रवर्तमानं विधि-निषेधाभ्यां सप्तभङ्गीमनुसरति तथा नयवाक्यं स्वविषये प्रवर्तमानं विधि-निषेधाभ्यां सप्तभङ्गीमनुसरतीत्याह - नयवाक्यमपीति तथा च प्रमाणसप्तभङ्गी - नयसप्तभङ्गभेदात् सप्तभन्या द्वैविध्यमित्यर्थः । प्रमाणवन्नयस्यापि सफलत्वमिति