________________
६३
सप्तभङ्गी-नयप्रदीपप्रकरणम् । मिच्छति, एतच्च किलानेकताद्यभ्युपगमकलङ्केनाऽकलङ्कितत्वाच्छुद्धम् , ततः शुद्धद्रव्याभ्युपगमपरत्वादयमेव शुद्धः" इति ॥
अथ नैगमनयं प्ररूपयन्ति
नैके गमा बोधमार्गा यस्यासौ नैगमो नाम नयः स्यात्, पृषोदरादित्वात् ककारलोपः । स त्रेधा-धर्मद्वयगोचरः,
ग्रहणस्य कथं शुद्धत्वमित्यपेक्षायामाह-एतच्चेति-अनन्तरोपदर्शितद्रव्यस्वरूपग्रहणं चेत्यर्थः । सङ्ग्रहस्यैव शुद्धत्वमुपसंहरति-तत इति ।।
अथ नैगमनयनिरूपणम्सामान्यतो नैगमस्वरूपं प्ररूपितमपि शिष्याणां विशेषतस्तत्वरूपप्रतिपत्तये पुनस्तन्निरूपणमधिकरोति-अथेति । 'नके गमाः' इत्यादिनिरुत्याश्रयणेन नैकगम इति स्यान्न तु नैगम इत्यत आह-पृषोदरादित्वादिति-पृषतो मत्स्यस्योदरमिवोदरं यस्येति विग्रहेऽपि पृषोदर इत्येव भवति न तु पृषदुदर इति, तत्र तकारलोपाद् यथा पृषोदर इति तथा तद्गुण पाठादत्र ककारलोपे 'नैगमः' इति भवति साधुरित्यर्थः। नैगमनयस्य त्रैविध्यं दर्शयति–स त्रेधेति । स नैगमः । अत्र नैगमप्रकारे । अत्र 'सच्चैतन्यमात्मनि' इति धर्मद्वयगोचरनैगमे । 'आत्मनि' इति सप्तम्यन्तेन आत्मन आधेयतया सत्ताविशिष्टचैतन्ये प्रकारत्वाद् गौणत्वम्, सत्त्वरूपधर्मस्यापि सामानाधिकरण्यसम्बन्धेन चैतन्यरूपधर्मे विशेषणत्वान् गौणत्वम् , चैतन्यस्य च विशेष्यत्वान्मुख्यत्वम् , चेतनश्चेतन इति शब्दप्रवृत्तिनिमित्तत्वाच्चैतन्याख्यधर्मस्य व्यञ्जनपर्यायत्वम्, सत्त्वाख्यधर्मस्थापि सत् सदिति शब्दप्रवृत्तिनिमित्तत्वाद् व्यञ्जनपर्यायत्वमिति, यद्यपि सत्वस विशेषणत्वं तथाऽप्यात्मापेक्षया विशेष्यत्वमिति वैशिष्ट्यसद्भावाद