________________
बालबोधिनीविवृतिविभूषितं कालावाचकत्वात् । अवक्तव्यं जीवा-ऽजीवादि वस्तु युगपद्विधिप्रतिषेधविकल्पनया सक्रान्तमेव प्रत्यवतिष्ठते, अस्तित्व-नास्तित्वधर्मविशिष्टोऽपि समकालमस्तित्व-नास्तित्वाभ्यां वक्तुमनिर्वच. नीयो घट इति फलितार्थश्चतुर्थो भङ्गः ॥
अथार्थतः पञ्चमभङ्गं प्रादुष्कुर्वन्ति-"स्यादस्त्येव स्यादवक्तव्यम्" इति सदंशपूर्वको युगपत्सदंशा-ऽसदंशाऽनिर्वचनीयकल्पनाप्रधानोऽयं भङ्गः । स्वस्वद्रव्यादिचतुष्टयैर्विद्यमानत्वेऽपि
दिन अवता जीवाजीवाधान्येन युगमय जीव
णैव धवखदिरयोरवभासो भवतीति क्रमेणैव धवखदिरप्रत्ययत्वं तज्ज्ञान इत्यर्थः । धवखदिरयोर्युगपदेवामिलापकं नास्ति तत्र किमपि वचनम् , धवशब्दो यदा धवमभिधत्ते तदा नास्ति खदिरशब्दो यस्तदानीमेव खदिरमभिदध्यात् , खदिरशब्दश्च यदा खदिरमभिधत्ते तदा नास्ति धवशब्दो यस्तदानीं धवमभिदध्यादिति समकालं धवखदिरयोरवाचकत्वादित्याह-समकालावाचकत्वादिति । चतुर्थभङ्गाभिप्रेतमर्थमुपदर्शयति-अवक्तव्यमिति-युगपद्विधि-निषेधकल्पनया सङ्क्रान्तमेव-विषयीकृतमेव यदा जीवाजीवादि वस्तु भवति तदा तज्जीवाजीवादि वस्तु अवक्तव्यं प्रत्यवतिष्ठते, प्राधान्येन युगपद् विधिनिषेधविवक्षायां जीवाजीवादि वस्तु कीदृशमिति प्रश्ने 'अवक्तव्यं जीवादि वस्तु' इत्येवमुत्तरवचनाक्रान्तं भवतीत्यर्थः । वक्तुमनिर्वचनीयः वक्तुमयोग्यः । पञ्चमभङ्गमधिकरोति-अथेति-प्रथमभङ्गप्रतिपाद्येन कथञ्चिदस्तित्वेन सह तुरीयभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य संयोजनया 'स्यादस्त्येव स्यादवक्तव्यमेव सर्वं वस्तु' इति पञ्चमभङ्गः सदंशपूर्वको युगपत्सदसदंशानिर्वचनीयकल्पनाप्रधान इत्यर्थः। पञ्चमभङ्गाभिप्रेतमर्थमुपदर्शयति-वखेति।