________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽसिन् भङ्गे सर्व वस्तु जीवादि स्वद्रव्यचतुष्टयापेक्षया समस्त्यपि विधि-प्रतिषेधरूपाभ्यां वक्तुमनिर्वचनीयम् । अस्त्यत्र प्रदेशे घटः, सद्रूपा-ऽसद्रूपाभ्यां योगपधेन स्वरूपं निर्देष्टुमसमर्थत्वात् विधित्वेऽपि अवक्तव्य इति फलितार्थः पश्चमो भङ्गः॥ ___ अथार्थतः षष्ठं भङ्गं प्रकटयन्ति-"स्यान्नास्त्येव स्यादवक्तव्यम्" इति-निषेधपूर्वको युगपद्विधि-निषेधानिर्वचनीयप्रधानोऽयं भङ्गः। परद्रव्यादिचतुष्टयैरविद्यमानत्वेऽपि सदंशोऽसदंश इति प्ररूपणां कर्तुमसमर्थेऽस्मिन् भङ्गे सर्व वस्तु जीवाजीवादि परद्रव्यचतुष्टयापेक्षया नास्त्यपि विधि-प्रतिषेधरूपाभ्यां वक्तुमनिर्वचनीयम् । नास्त्यत्र प्रदेशे घटः, सद्रूपा-ऽसद्रूपाभ्यां यौगपद्येन खरूपं निर्देष्टुमसमर्थत्वान्नास्तित्वेऽपि अवक्तव्य इति फलितार्थः षष्ठो भङ्गः॥
'स्यादस्त्येव' इत्यनेन खद्रव्यादिचतुष्टयैरस्तित्वविशिष्टः प्रतिपादितो भवति, 'स्यादवक्तव्यम्' इत्यनेन युगपत्प्रधानभावविवक्षानिबन्धनसदंशासदंशानिर्वचनीयस्वरूपविशिष्टः प्रतिपादितो भवति, एकः सदंशोऽपरोऽवक्तव्यांशश्च पञ्चमभङ्गप्रतिपाद्यः, तथाप्रतिपादके च पञ्चमभङ्गे सर्व वस्तु वद्रव्यादिचतुष्टयापेक्षया समस्त्यपि विधि-निषेधरूपाभ्यामनिर्वचनीयमित्यर्थः । पञ्चमभङ्गफलितमर्थमावेदयति-अस्त्यत्रेति । षष्ठं भङ्गमधिकरोति-अथेति। द्वितीयभङ्गप्रतिपाद्येन नास्तित्वेन सह तुरीयभङ्गप्रतिपाद्यस्यावक्तव्यत्वस्य योजनया षष्ठो भङ्गः 'स्यान्नास्त्येव स्यादवक्तव्यमेव सर्वम्' इत्याकारको निषेधपूर्वको युगपद्विधिनिषेधानिर्वचनीयप्रधानक इत्यर्थः । षष्ठभङ्गाभिप्रेतार्थमुपदर्शयति-खद्रव्यादिचतुष्टयैरिति । फलितार्थमाह-नास्त्यत्रेति । सप्तमभङ्गमधिकरोति