________________
सप्तभङ्गी - नयप्रदीपत्रकरणम् ।
१७
र्थ्यात्, न तु युगपदितिः क्त क्तवतुसङ्केतितनिष्ठाशब्दवत्, अथवा पुष्पदन्तशब्देन सङ्केतितवत्, निष्ठाशब्देन पुष्पदन्तशब्देन वा क्रमेणैव क्तक्तवत्वोः सूर्य-चन्द्रमसोश्चार्थप्रत्ययः; तेन द्वन्द्वादिपदानामपि युगपदर्थप्रत्यायकत्वमपास्तम्, 'धव - खदिरौ स्तः ' इत्यत्र क्रमेणैव ज्ञानं न युगपदिति, तथैव प्रत्ययत्वात् सम
निष्ठाशब्दो यथाक्रमेणैव क्तक्तवत्वोः प्रतिपादको न तु युगपत्, तथा यः कश्चिदेकः शब्दः सदसतोः सङ्केतितः स्यात् सोऽपि क्रमेणैव तयोः प्रतिपादकः स्यान्न तु युगपदित्याह -- क्त क्तवतुसङ्केतितनिष्ठाशब्दबदिति । एवम् 'एकयोक्त्या पुष्पदन्तौ दिवाकर - निशाकरौ' इति कोशात् पुष्पदन्तशब्दो दिवाकर-निशाकरयोः सङ्केतितोऽपि क्रमेणैव तयोः प्रतिपादको न तु युगपत्, तथा सदसतोः सङ्केतितादप्येकस्माद् यस्मात् कस्मादपि शब्दात् क्रमेणैव तयोः प्रतिपादनं न तु युगपदित्याह — अथवेति । समासवाक्यस्यापि क्रमेणैवार्थद्वयप्रतिपादकत्वं न तु युगपदिति न सदसतोः युगपत् प्रतिपादकं समासवचनमपीत्याह तेनेति । एकस्य शब्दस्य युगपदर्थद्वयप्रतिपादनसामर्थ्यविरहेणेत्यर्थः, अस्य 'अपास्तम्' इत्यनेनान्वयः समासेषु द्वन्द्वसमासस्यैव समस्यमानयावदर्थप्रधानकत्वम्, तस्यापि यदि न युगपदर्थद्वयप्रतिपादकत्वं तर्हि समासान्तरस्य युगपदर्थद्वयप्रतिपादकत्वाभावः प्राप्त एवेति विशिष्य द्वन्द्वस्य ग्रहणम्, आदिपदात् कर्मधारयादीनामुपग्रहः । ' धवखदिरौ स्तः' इत्यत्र यद्यपि धवखदिरयोरुभयोरपि प्राधान्यं तथापि क्रमेणैव धवखदिरयोज्ञानं न युगपदित्याह -धवेति । तथैव क्रमेणैव । प्रत्ययत्वाद्, अनुभक्तलात् खदिरौ स्तः' इति वाक्यतो धवखदिरावगाहिज्ञाने क्रमे२ सप्तभङ्गी -
"