________________
१६
बालबोधिनीविवृतिविभूषितं
द्यपेक्षया कथश्चिदस्त्येव स्यात्, परद्रव्याद्यपेक्षया नास्त्येव स्यात् । विधि प्रतिषेधप्रधानोऽयं तृतीयो भङ्गः ।
अथार्थतश्चतुर्थभङ्गं व्यक्तीकुर्वन्ति - स्यादवक्तव्य [मेवेति-] युगपद्विधि-निषेधकल्पनया चतुर्थ इति सर्दशाऽसदंशयोद्वयोः समकालप्ररूपणानिषेधप्रधानोऽयं भङ्गः तथाही - विधिप्रतिषेधधर्मयोर्युगपत्प्रधानभूतयोरेकस्य पदार्थस्य युगपद्विधि-निषेधद्वय इति प्रधान विधान विवक्षायां तादृक्शब्दस्या[ भावेना] निर्वचनीयत्वादवक्तव्यं घटादि वस्तु, तस्य विधिप्रतिषेधधर्माक्रान्तस्यापि युगपद्द्द्वय धर्मस्यावक्तव्यरूपत्वाद् युगपद्विरुद्धद्वयधर्मस्याप्रयोगः शीतोष्णयोरिव सुखदुःखयोरिवानयोः क्रमेणैवार्थप्रत्यायने साम
तुरीयभङ्गनिरूपणमधिकरोति — अथेति - विधि - निषेधयोर्युगपदेव प्रधानतया विवक्षितयोः समकालमेव तत्प्ररूपणप्रवणस्य कस्यचिच्छब्दस्याभावात् 'स्यादवक्तव्यमेव सर्वं वस्तु' इति तुरीयभङ्ग इत्यर्थः । तुरीयभङ्गं भावयति - तथाहीति । तादृक्शब्दस्य युगपत्प्रधानीभूतविधिनिषेधप्रतिपादकशब्दस्य । अनिर्वचनीयत्वाद् वक्तुमशक्यत्वात्, कोऽपि शब्दो युगपत्प्रधानीभूतविधि-निषेधप्रतिपादको नास्तीत्यभावादेव तादृशशब्दस्यानिर्वचनीयत्वादित्यर्थः । युगपद्विवक्षितप्रधानीभूत-विधिनिषेधधर्मद्वयस्य घटादिवस्तुनोऽवक्तव्यत्वं स्पष्टयति-— तस्येति - घटादिवस्तुनो विधि - निषेधधर्माक्रान्तस्य सतोऽपि युगपद् धर्मद्वयस्यावक्तव्यत्वेन तत्प्रतिपादकशब्दप्रयोगाभाव इति कृत्वा 'स्यादवक्तव्यो घटः' इति तुरीयभङ्ग इत्यर्थः । शीतोष्णशब्दौ सुख-दुःखशब्दौ वा यथा क्रमेणैवार्थप्रत्यायने समर्थी तथा सदसच्छब्दावपि क्रमेणैवार्थप्रत्यायने समर्थौ न तु युगपदित्याह - शीतोष्णयोरिवेति । क्त-क्तवत्वोः सङ्केतितोऽपि