________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । तदेवं द्रव्यमर्थःप्रयोजनं यस्यासौ द्रव्यार्थिकः । सोऽपि युक्तिकल्पनया दशधा, तथाहि--अन्वयद्रव्यार्थिकः, यथा-गुणपर्यायस्वभावं द्रव्यम् १ । स्वद्रव्यादिग्राहको वा, यथा-स्वद्रव्यचतुष्टयापेक्षया द्रव्यमस्ति २ । परद्रव्यादिग्राहको वा, यथा-परद्रव्यादिचतुष्टयापेक्षया द्रव्यं नास्ति ३ । परमभावग्राहको वा, यथा-ज्ञानमय आत्मा, अत्रानेकेषां स्वभावानां मध्याज्ज्ञानाख्यः
प्रयोजनमित्यभिप्रायेण द्रव्यार्थिकनयस्वरूपं निगमयन्नाह-तदेवमिति । द्रव्यार्थिकनयस्य दशविधत्वं प्रतिपादयति-सोऽपीति-द्रव्यार्थिकनयोऽपीत्यर्थः । यद्विषयानुगमनेन द्रव्यार्थिक इति व्यपदिश्यते स विषयोऽन्वयात्मा द्रव्यार्थिकनयविषयत्वाद् द्रव्यार्थिक इत्यन्वयद्रव्यार्थिक इत्याह-अन्वयद्रव्याथिक इति । उदाहरति-यथेति-अत्र गुणपर्यायखभावव्यमपि भवेदन्वयद्रव्यार्थिकः, तद्विषयकज्ञानमपि तथा, तत्र ज्ञानस्य मुख्यं द्रव्यार्थिकत्वम् , तद्विषयत्वाद् गुण-पर्यायखभावद्रव्यस्यापि तत्त्वम् । खद्रव्यादिग्राहको नयो द्वितीयो द्रव्यार्थिक इत्याह-स्वद्रव्यादिग्राहको वेति । तमुदाहरति-यथेति-स्वद्रव्यक्षेत्र-काल-भावापेक्षया द्रव्यमस्तीति ज्ञानं स्वद्रव्यादिग्राहको द्रव्यार्थिक इत्यर्थः । परद्रव्यादिग्राहकस्तृतीयो द्रव्यार्थिक इत्याह-परद्रव्यादिग्राहको वेति । तमुदाहरति-यथेति-परद्रव्य-क्षेत्र-काल-भावापेक्षया द्रव्यं नास्तीति यज्ज्ञानं तत् परद्रव्यादिग्राहको द्रव्यार्थिकनय इत्यर्थः, निषेध्यत्वेन द्रव्यविषयकत्वादस्य द्रव्यार्थिकत्वमवसेयम् । परमभावग्राहकश्चतुर्थो द्रव्यार्थिक इत्याह-परमभावग्राहको वेति । तमुदाहरति-यथेति । स्वभावान्तरेभ्यो ज्ञानाख्यः खभाव आत्मनः परमस्वभावः, तद्राहकत्वाद् ज्ञानमय आत्मेति ज्ञानं परमभावग्राहको द्रव्या