________________
सप्तभङ्गी-नयप्रदीपप्रकरणम् । विशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसङ्ग्रहः"
-[ प्रमा० परि० ७ सूत्रम्-१५ ] "यथा-विश्वमेकं सदविशेषात्"
-प्रमा० परि०७ सूत्रम्-१६ ] अत्र हि विश्वस्यैकत्वं सदिति ज्ञानसामान्यहेतुजनितसत्ताकत्वाभेदरूपेण गृह्यते ।
द्रव्यत्वगुणत्वादि-पृथिवीत्वजलत्वादि-रूपत्वरसत्वादितदवान्तरविशेषेषु । औदासीन्यम् उपेक्षां गजनिमीलिकाम्, भजमानः खीकुर्वन् , न त्वशेषविशेषप्रतिक्षेपपरायणः, तथा सति सङ्ग्रहाभासतैव स्यात् । शुद्धद्रव्यं सर्वविशेषानुगतम् , तत् सन्मानतोऽन्यन्न सम्भवतीति सन्मात्रम् , अभिमन्यमानः खीकुर्वन् परसङ्ग्रह इत्यर्थः । उदाहरतियथेति । अत्र हि 'विश्वमेकं सदविशेषाद्' इति ज्ञाने यतः 'विश्वस्यैकत्वं गृह्यते' इत्यन्वयः, 'सद्' इतिज्ञानसामान्यहेतुर्यन्महासामान्यं सत्त्वं तज्जनिता तन्निबन्धना सत्ता यस्य सर्वस्य वस्तुनस्तत् सदितिज्ञानसामान्यहेतुजनितसत्ताकं तस्य भावो निरुक्तसत्ताकत्वं तदात्मको योऽभेदस्तद्रूपेण विश्वस्यैकत्वं गृह्यत इत्यर्थः, यदि सर्वत्रैकं महासामान्यं न स्यात् तर्हि सर्वत्र 'सत् सद्' इति ज्ञानं न भवेदिति भवति सदितिज्ञानसामान्यहेतुः सत्त्वम् , तन्निबन्धनैव च सत्ता सर्वस्य वस्तुन इति भवति सर्व वस्तु तथाविधसत्ताकम्, अतस्तद्भावलक्षणाभेदरूपेण विश्वस्यैकत्वं 'विश्वमेकं सदविशेषाद्' इति ज्ञानेन गृथत इत्याशयः ।