________________
ફૂટ
बालबोधिनीविवृतिविभूषितं
विशेषराशिं गृह्णातीति सङ्ग्रहः । अयमर्थः - स्वजातेर्दृष्टेष्टाभ्यामविरोधेन विशेषाणामेकरूपतया यद् ग्रहणं स सग्रह इति । विशेषराहित्येन पिण्डीभूतं सामान्य- विशेषवद् वस्तु शुद्धमनुभवन् ज्ञानविशेषः सङ्ग्रहतयाऽऽख्यायते ।
सङ्ग्रहोsपि परापर भेदाद् द्विविधः, तत्र परलक्षणमाह - " अशेष
5
पिण्डीभूतता तथाऽशेषविशेषाणां सत्त्वादिसम्बन्धेन पिण्डीभूतता एकतेति यावत् तयेत्यर्थः । 'सम् - एकीभावेन' इत्याद्युक्तेः स्फुटमर्थमाविष्करोति - अयमर्थ इति । खजातेरिति यज्जात्या विशेषाणामेकरूपतया ग्रहणं तज्जातेः प्रत्यक्षादिप्रमाणेन स्वाभ्युपगमेन चाविरोधेन यावता यज्जात्यैकीकरणं तज्जातेः प्रत्यक्षादिप्रमाणेन बाधो न भवेत् स्वाभ्युपगमहानिश्च न भवेत् तथा विरोधाभावेन विशेषाणां द्रव्यगुणादीनामेकरूपतया सदाद्यात्मना यद् ग्रहणं 'सर्वं सद्' इत्याकारकम्, तत्रैव 'सर्वं द्रव्यम्' इति ग्रहणं प्रत्यक्षादिप्रमाणेन विरुद्धम्, न च सर्वेषां द्रव्यत्वमेवेत्यभ्युपगम्यतेऽपीत्यभ्युपगमविरुद्धमिति न तत्र 'स्वजातेर्दृष्टे - टाभ्यामविरोधेन' इति घटते; तथा च सर्वे सदिति ग्रहणम्, धर्मादिकं सर्वं द्रव्यमिति ग्रहणम्, रूप - रसादीनां सर्वे रूपादयो गुणा इति ग्रहणं सङ्ग्रह इत्यर्थः । यत्तद्भ्यां विनैवानुगतं सङ्ग्रह स्वरूपमाख्याति - विशेषराहित्येनेति-तत्तद्विशेषराहित्येनेत्यर्थः । पिण्डीभूतम् एकीभूतम्, सामान्यविशेषवद् वस्तु सत्त्वादिमद् वस्तु ।
सङ्घहो द्विविधः - परसङ्ग्रहोऽपरसङ्ग्रहम्ध, इत्येवं सङ्ग्रहस्य द्वैविध्यं प्रकटयति-सङ्ग्रहोऽपीति--अपिना नैगमस्य धर्मद्वयादिगोचरत्वेन भूतनैगमत्वादिना वा त्रैविध्यस्य दर्शितस्याम्रेडनम् । तत्र पराऽपरसङ्ग्रहयोर्मध्ये । परलक्षणमाह-परसङ्ग्रहलक्षणं कथयति । अशेषविशेषेषु