________________
सप्तमङ्गी नयप्रदीपप्रकरणम् । अथ द्रव्यार्थिकनयस्य द्वितीयभेदं सहनामानमुपवर्णयन्ति"सामान्यमात्रग्राही परामर्शः सङ्ग्रहः।"
-[प्रमा० परि०७ सूत्रम्-१३ ] मात्रं कात्स्न्येऽवधारणे च, सामान्यमशेषविशेषरहितं सत्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः, सम्-एकीभावेन पिण्डीभूततया
अथ सङ्गहनयनिरूपणम्---
सङ्ग्रहनयनिरूपणमधिकरोति-अथेति-सङ्केपतः पूर्व निरूपितोऽपि सङ्ग्रहनयो विशिष्य शिष्याणामवगतये पुनर्निरूपणपथमानीत इति बोध्यम् । सामान्यमात्रग्राही सामान्यमेव गृह्णाति न तु विशेषग्राही, एवम्भूतो निर्णयः सङ्ग्रह इत्यर्थः । 'सामान्यमात्रग्राही' इत्यत्र मात्रपदं काार्थकमवधारणार्थकं च, तेन सामान्यातिरिक्तविशेषग्राहित्वव्यवच्छेदः सत्त्व-द्रव्यत्वाद्यशेषसामान्यग्राहित्वं च सङ्ग्रहस्य लभ्यत इत्याशयेनाह-मात्रं कात्स्न्ये ऽवधारणे चेति यद्यपि परसङ्ग्रहो महासामान्यमेव गृह्णाति, अपरसङ्ग्रहश्चावान्तरसामान्यमेव गृह्णातीति कृत्लसामान्यग्राहित्वं न कुत्रापि सङ्ग्रह इति काार्थो नात्र घटते तथापि सङ्ग्रहसामान्याश्रयणेनाशेषसामान्यग्राहित्वमत्र विवक्षितम् , अत एव 'सत्त्व-द्रव्यत्वादिकं गृह्णातीत्येवंशीलः' इत्युक्तम् , तेन येनापि परसङ्ग्रहेणावान्तरसामान्यं न गृह्यते, अपरसङ्ग्रहेण च येन परसामान्य न गृह्यते, तयोरपि सामान्यतस्तथाग्रहणस्वभावोऽस्त्येवेति । सङ्ग्रह इत्यत्र 'सम्' इत्युपसर्गस्य 'ग्रह' इत्यस्य च समभिव्याहारतः पिण्डीभूतत्वलक्षणैकीभावेन विशेषराशिग्राहित्वं सङ्ग्रहस्य लभ्यत इत्याहसम्-एकीभावेनेति । 'एकीभावेन' इत्यस्य विवरणम् –पिण्डीभूततयेति-यथा च प्रस्थादिप्रमितानां चूर्णादीनां जलादिद्रवद्रव्यसम्बन्धेन