________________
बालबोधिनीविवृतिविभूषितं
वतीति प्राधान्येन द्रव्य-पर्याययोः सम्पिण्डितार्थ जानदू विज्ञानं प्रमाणत्वेन प्रतिपत्तव्यं नान्यदिति ।
अथ नैगमाभासं प्ररूपयन्ति – “धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धिर्नैगमाभासः" इति ।
- [ प्रमाण० परि० ७ सूत्रम् - ११]
-- [ प्रमाण० परि० ७ सूत्रम् - १२]
आदिपदेन द्रव्यद्वय द्रव्यपर्याययोर्ग्रहणम् । उदाहरणम् - " यथाऽऽत्मनि सच्चैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः " इति । आदिशब्देन वस्तु पर्यायवद्द्रव्यमिति द्रव्ययोः क्षणमेकं सुखीति सुख-जीवलक्षणयोर्द्रव्य-पर्याययोर्ग्रहणम्, तयोर्द्वयोः सर्वथा भिन्नताप्ररूपणायां नैगमाभासो दुर्नय इत्यर्थः । नैयायिक-वैशेषिकदर्शनमप्येतदाभासतया ज्ञेयमिति । इति नैगमः ॥
>
नैगमनयेनेति । 'अनुभवति' इत्यत्र ज्ञानमिति दृश्यम्, तथा चैकस्यैव प्राधान्येनावगाहनान्नयत्वम्, यत्र प्राधान्येन द्वयोरवगाहनं तस्यैव प्रमाणत्वम्, नैगमे तु न तथेति न तस्य प्रमाणत्वमित्याशयः ।
नैगमनयं निरूप्य प्रसङ्गान्नैगमाभासनिरूपणमधिकरोति - अथेति । धर्मेति-धर्मयोद्रव्ययोर्द्रव्य-पर्याययोश्च सर्वथा भिन्नत्वाभिसन्धानं नैगमाभास इत्यर्थः । आदिपदेन 'धर्मद्वयादीनाम्' इत्यत्रादिपदेन । तत्र धर्मद्वयोरेकान्तेन पार्थक्याभिसन्धिमुदाहरति — यथेति । ' इत्यादिः ' इत्यत्रादिशब्देन द्रव्ययोर्द्रव्य-पर्याययोश्चैकान्तपार्थक्याभिसन्ध्योर्ग्रहणमित्याह - आदिशब्देनेति । नैयायिकादिदर्शनं नैगमाभास इत्याहनैयायिकेति । एतदाभासतया नैगमाभासतया ॥
I