________________
बालबोधिनीविवृतिविभूषितं एतस्यार्थ:-शब्दनयो हि शब्दपर्यायमिन्नत्वेऽपि द्रव्यस्यार्थस्याभेदत्वमभिलषति, समभिरूढनयेन (नयो) हि शब्दपर्यायभेदे भिन्नं द्रव्यार्थमभिमन्यते, पर्यायशब्दानामर्थत एकत्वमुपेक्षत इति । उदाहरणम्-"इन्दनादिन्द्रः, शकनाच्छक्रा, पूर्दारणात् पुरन्दर इत्यादिषु यथा" ॥
-[प्रमा० परि ७ सूत्रम्-३७] अनेन वाक्येन "इन्द्रे च शके च पुरन्दरे च" इत्यायेकार्थपर्यायशब्देऽपि व्युत्पत्तिभेदेनैतदर्थस्यापि भेदः समाद्रियते, शब्दभेदादर्थभेद इति फलितार्थः । एवमन्यत्र कलश-घटकुम्भादिषु द्रष्टव्यः।
वाक्यस्य पर्यवसितमर्थमुपदर्शयति एतस्यार्थ इति । शब्दनयो हीति-यतः साम्प्रतनामा शब्दनय इन्द्र-शक-पुरन्दरादिशब्दपर्यायभेदेऽपि तदर्थस्य स्वर्गाधिपरूपस्याभेदमिच्छति, समभिरूढनयस्तु इन्द्रादिशब्दपर्यायभेदे इन्द्रादिरूपार्थभेदं विभिन्नव्युत्पत्तिनिमित्तात्मकप्रवृत्तिनिमित्तसमालिङ्गितं विभिन्नं द्रव्यमभ्युपगच्छति, सदपि पर्यायशब्दानामर्थत एकत्वमुपेक्षते, तत्र गजनिमीलिकामाश्रयतीत्यर्थः । समभिरुढनयोदाहरणं दर्शयति-उदाहरणमिति । अनेन वाक्येनेति-इन्दनाद् इन्द्र इत्यादिवाक्येनेत्यर्थः । तथा च समभिरूढनयः शब्दभेदादर्थभेदमिच्छतीति तत्त्वमित्याह-शब्दभेदादिति । कलश-घटकुम्भादिशब्देष्वप्यर्थभेदमभ्युपगच्छत्ययं नय इत्यतिदिशति एवमन्यत्रेति।