________________
प्रमा० पर
सप्तभङ्गी नयप्रदीपप्रकरणम् । समभिरूढाभासमाह-"पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभास" ॥
[प्रमा० परि० ७ सूत्रम्-३८] उदाहरणम्-"यथा-इन्द्रः, शक्रः, पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् , करि-कुरङ्ग-तुरङ्गशब्दवदित्यादिः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-३९ ] अत्र हीन्द्र शक्रे पुरन्दरे च नामैक्येऽपि भिन्नशब्दत्वाद् भिन्नवाच्या एते शब्दाः,यथा करि-कुरङ्ग-तुरङ्गादयो भिन्नवाच्यास्तथैतेऽपि, ततः समभिरूढाभासतयोक्तम् । इति पर्यायार्थिकस्य तृतीयभेदः समभिरूढनयः ।। __अथ चतुर्थभेदमेवम्भूतं समाख्यान्ति-"शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमथे वाच्यत्वेनाभ्युपगच्छन्नेवम्भूत" इति ॥
-[प्रमा० परि० ७ सूत्रम्-४०]
प्रसङ्गात् समभिरूढनयाभासनिरूपणमधिकरोति-समभिरूढेति। 'नानात्वमेव' इत्येवकारेणार्थैकत्वस्य व्यवच्छेदः । तदाभासः सममिरूढनयाभासः । समभिरूढनयाभासोदाहरणं दर्शयति-उदाहरणमिति-"शब्दाः' इत्यन्तमुद्देश्यवचनम् , 'भिन्नाभिधेया एव, इति विधेयवचनम् , 'भिन्नशब्दत्वाद्' इति लिङ्गवचनम् , 'करि-कुरङ्ग' इत्यादि निदर्शनम् । अत्र हि निरुक्तोदाहरणवाक्ये यतः । इति समभिरूढनयनिरूपणम् ॥
अथैवम्भूतनयनिरूपणम्
एवम्भूतनयनिरूपणमधिकरोति-अथेति । चतुर्थभेदं पर्यायार्थिकनयस्य तुरीयप्रकारम् । शब्दानामिति इन्द्रशब्दस्य स्वप्रवृत्तिनिमि