SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ सप्तभङ्गी-नयप्रदीपप्रकरणम् । प्रसङ्गतो जीवादिद्रव्याणां स्वभावाः प्ररूप्यन्ते-अस्तिस्वभावः १, नास्तिस्वभावः २, नित्यस्वभावः ३, अनित्यस्वभावः ४, एकस्वभावः ५, अनेकस्वभावः ६, भेदस्वभावः ७, अभेदखभावः ८, भव्यस्वभावः ९, अभव्यस्वभावः १०, परमस्वभाव: ११ (च) एते स्वभावा द्रव्याणां सामान्याः। चेतना-ऽचेतनमृता-ऽमूर्तेकप्रदेशा-ऽनेकप्रदेश-विभाव-स्वभाव-शुद्धा ऽशुद्धोपचरितखंभावा एते दश विशेषस्वभावाः । तत्र चेतन-मूर्त-विभावाऽशुद्धोपचरितस्वभावान् एतान् पश्च मुक्त्वा धर्मादित्रयाणां षोडश स्वभावाः । बहुप्रदेशस्वभावं मुक्त्वा कालस्य पञ्चदश स्वभावाः। जीव-पुद्गलयोरेकविंशतिः खभावाः । संग्रहश्च "एकविंशतिभावाः स्युर्जीव-पुद्गलयोर्मताः। धर्मादीनां षोडश स्युः काले पञ्चदश स्मृताः" । यथा च गुणानां सामान्य-विशेषभावेन द्वैविध्यं तथा स्वभावानामपीति प्रसङ्गतः स्वभावानां निरूपणमधिकरोति-प्रसङ्गत इति । सामान्यखभावा एकादशापि पञ्च च विशेषस्वभावा इति मिलित्वा षोडश स्वभावा धर्माऽधर्माऽऽकाशानामित्याह-धर्मादित्रयाणां षोडश खभावा इति । चत्वारश्च विशेषस्वभावा एकादशापि सामान्यस्वभावा मिलित्वा पञ्चदश स्वभावाः कालस्येत्याह-बहुप्रदेशेति । जीवस्य पञ्चविधकाययोगतः पुद्गलस्वभावस्याऽचेतनत्वादेरपि सम्भवः पुद्गलस्यापि शरीराद्यात्मनो जीवसम्बन्धात् चेतनत्वादिसम्भव इति सामान्यखभावा विशेषस्वभावाश्च सर्वेऽपि जीवपुद्गलयोत्येकविंशतिः स्वभावास्तयोरित्याह-जीवपुद्गलयोरेकविंशतिः खभावा इति । ये च सहभाविनः
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy