SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५८ वालबोधिनीविवृतिविभूषितं शब्दानां सङ्केतविषया व्यञ्जनपर्यायाः" इति प्रावचनिकप्रसिद्धः। ऊर्ध्वतासामान्यं तु द्रव्यमेव विवक्षितम् । विशेषोऽपि सामान्यवैसदृश्य-विवर्तनलक्षणो व्यक्तिरूपः पर्याय एवान्तर्भवतीति न ताभ्यामधिकावकाशो नयस्य । इति-स्पष्टप्रतीयमानावयवसमानसंस्थानविशेषस्वरूपत्वात् स्थूलत्वमवसेयम् , कालान्तरस्थायित्वमूर्ध्वतासामान्यस्यापि परमेकप्रवाहानुवृत्त्यैव, अत्र त्वेकगोव्यक्तिविनाशेऽपि तव्यक्तिसन्तानोच्छेदेऽपि देशान्तरे कालान्तरे च ज्ञायमानगोव्यक्त्यन्तरेऽवस्थानतः कालान्तरस्थायित्वमिति विशेषः । शब्दानां गवादिशब्दानाम् । सङ्केतविषयाः प्रवृत्तिनिमित्ततया सङ्केतविषयाः, अत एव व्यञ्जनपर्याया इत्येवं प्रावचनिकानां प्रवचनाभिज्ञानां वृद्धानां प्रसिद्धेः व्यवहारादित्यर्थः। एवं च सति तिर्यक्सामान्यं व्यञ्जनपर्याय इति तदवगाहिनयः पर्यायार्थिकनय एवे. त्यर्थः । पूर्वापरविवर्तानुगामिद्रव्यमेवोर्ध्वतासामान्यमिति तदवगाहिनयो द्रव्यार्थिकनय एवेत्याह-ऊर्ध्वतेति । तथा च सामान्यार्थिकनयो द्रव्यार्थिकनये पर्यायार्थिकनये चान्तर्भूतत्वान्नातिरिक्त इत्याशयः। विशेषस्तु पर्यायखरूप एवेति तद्विषयकनयस्य पर्यायार्थिकनय एवान्तर्भाव इत्याह --विशेषोऽपीति । सामान्येति-सामान्यमनुगतं ततो यद् वैसदृश्यं व्यावृत्तत्वेन वैलक्षण्यं तथा प्रतिक्षणं यद् विवर्त्तनं तल्लक्षणस्तद्रूपोऽत एव व्यक्तिरूपः, स च पर्याय एवान्तर्भवतीति विशेपावगाहिनयस्य पर्यायार्थिकनयेऽन्तर्भाव इत्यर्थः । इति एतस्मात् कारणात् । ताभ्यां सामान्य-विशेषलक्षणविषयाभ्याम् । न नयस्याधिकावकाशः सामान्यार्थिकनयः पर्यायार्थिकनय इत्येवमाधिक्यं नेत्यर्थः ।
SR No.008452
Book TitleSaptabhangi Naypradipa Prakarana
Original Sutra AuthorYashovijay Upadhyay
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages138
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy