________________
१२
बालबोधिनीविवृतिविभूषितं ष्टयापेक्षया कथञ्चिदस्ति, परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्युल्लेखः, अन्यस्यान्यदीयरूपापत्तौ स्वरूपहानिप्रसक्तिः। एवकारेण त्वीदृगुल्लेखको भङ्ग इत्यवधारणं स्यात् । अवधारणं च कर्तव्यम्, यदुक्तम्
"वाक्येऽवधारणं तावदनिष्टार्थनिवृत्तये । कर्तव्यमन्यथाऽनुक्तसमत्वात् तस्य कुत्रचित्" ॥१॥
-[ रत्नाकरावतारिका ] तथाप्यस्त्येव कुम्भ इत्येतावन्मात्रीपादाने कुम्भस्य स्तम्भाधस्तित्वेनापि सर्वप्रकारेणास्तित्वप्राः प्रतिनियतस्वरूपानुपपत्तिः स्यात् , तत्प्रतिपत्तये 'स्याद्' इत्यप्यव्ययं प्रयुज्यते ।
निमित्तभेदो नाश्रीयेत तर्हि सर्वात्मना घटस्याऽस्तित्वप्रसक्तौ घटस्य पटा• दिव्यावृत्तत्वेन यद् घटस्वरूपत्वं तदेव विलीयेतेत्याह-अन्यस्येति । 'स्याद्' इत्यनेन कथञ्चिदर्थावबोधनेऽपि एवकारोपादानाभावे खद्रव्यादिनाऽस्तित्वस्येव तदभावस्यापि प्राप्तिरप्रतिषिद्धत्वात् स्याद् , अतस्तन्निवृत्तयेऽवधारणार्थकैवकारोपादानमावश्यकमित्याह-एवकारेण विति । ईगुल्लेखकः स्वद्रव्यादिचतुष्टयापेक्षया कथञ्चिदस्ति परद्रव्यादिचतुष्टयापेक्षया नास्ति च घट इत्येवमुल्लेखकः । भङ्गेऽवधारणस्य कर्त्तव्यत्वे प्राचामनुमतिमुपदर्शयति-यदुक्तमिति । अन्यथा अनिष्टार्थनिवृत्तिप्रयोजनकावधारणार्थकैवकारानुपादाने । प्रतिनियतनिमित्तावबोधकस्यात्पदोपादानाभावे एवकारोपादानेऽपि सर्वप्रकारास्तित्वप्राप्तौ प्रतिनियतस्वरूपहानिः प्रसज्यत इति स्यात्पदमवश्यं प्रयोक्तव्यमित्याह-तथापीति । अवधारणार्थकैवकारोपादानेऽपीत्यर्थः । तत्प्रतिपचये प्रतिनियतस्वरूप