________________
११
सप्तभङ्गी नयप्रदीपप्रकरणम् । 'स्याद्' इत्यनेन कथञ्चित् स्वकीयद्रव्य-क्षेत्र-काल-भावचतुष्टयरूपेण, अस्त्येव घटादिवस्तु, नास्त्येवान्यदीयद्रव्य-क्षेत्र-कालभावचतुष्करूपेण, तथाहि-घटो द्रव्यतः पार्थिवत्वरूपेण, नास्ति जलादिरूपेण क्षेत्रतः पाटलिपुत्रकत्वेन, नास्ति कान्यकुब्जत्वेन कालतः शैशिरत्वेन, नास्ति वासन्तिकत्वेन; भावतो रक्तत्वेन, नास्ति पीतत्वेन । एवं सर्वमन्यदेव ज्ञातव्यम् । खद्रव्यादिचतु
स्वस्वनिमित्तभेदेनैवैकत्रावस्थितिमासादयन्ति, प्रयोजनवशतश्च प्राधान्यमनुभवन्ति, ततश्च सदंशस्य प्रयोजनवशात् प्राधान्यविवक्षायां तथातत्प्रतिपादकः प्रथमो भङ्ग उपतिष्ठत इत्यर्थः। 'स्यादस्त्येव घटः' इत्यत्र 'स्या इत्यनेन किमुक्तं भवतीत्यपेक्षायामाह-स्यादितीति-अनेकान्तता तदा स्याद् यद्यस्तित्ववन्नास्तित्वमपि भवेत् , तथा च नास्तित्वालिङ्गितेऽस्तित्वं नापेक्षाभेदमन्तरेणेति तदवबोधकः 'स्याद्' इति शब्दः कथञ्चिदित्यर्थकः । कथञ्चिदस्तित्वावगमेऽपि निमित्तविशेषजिज्ञासा नोपशाम्यति, ततश्च न निराकाङ्क्षार्थबोध इत्यत आह-स्वकीयद्रव्य-क्षेत्र-कालभावचतुष्टयरूपेणेति । स्वकीयद्रव्य-क्षेत्र-काल-भावचतुष्टयस्यास्तित्वावच्छेदकत्वे तदनवच्छेदकस्य परकीयद्रव्य क्षेत्र-काल-भावचतुष्टयस्थ तत्प्रतिपक्षनास्तित्वावच्छेदकत्वमर्थात् प्राप्तमेव, तथा च स्वकीयद्रव्यादिचतुष्टयैरस्त्येव घट इति ‘स्यादस्त्येव घटः' इत्यनेनाभिहितेऽर्थात् प्राप्तमेव परकीयद्रव्यादिचतुष्टयैर्नास्त्येव घट इत्याह-नास्त्येवेति । स्वद्रव्यादिनाऽस्तित्वं परद्रव्यादिना नास्तित्वं च घटे भावयति-तथाहीति । यच्च स्वद्रव्यादिभ्योऽन्यत् तत् सर्वं परद्रव्यादि, तद्रूपेण नास्तित्वमवसेयमित्याह-एवमिति । तथा च 'स्यादस्ति घटः' इत्यस्य विशेषतः कीदृग् उल्लेख इत्यपेक्षायामाह-वद्रव्यादीति । यदि च घटस्यास्तित्वे