________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
८९
पर्यायाणां क्षणक्षयिणां प्राधान्यतया दर्शयतीति ऋजुसूत्रः । उदाहरणम् - " यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः " ॥
- [ प्रमा० परि० ७ सूत्रम् - २९ ] अनेन वाक्येन क्षणिकं सुखाख्यं पर्यायमात्रं मुख्यतया दर्श्यते, तदधिकरणं जीवद्रव्यं गौणत्वेनापि न प्रतीयत इति । एतदाभासं निरूपयन्ति - " सर्वथा द्रव्यापलापी तदाभासः" इति ||
- [ प्रमा० परि० ७ सूत्रम् - ३० ]
WWW.
व्याख्यानम् —— दर्शयतीति । कथं दर्शयति ? येन सरलमेव दर्शितं भवतीत्यपेक्षायामाह --- द्रव्यस्याप्राधान्यतयेति । उक्तलक्षणमृजुसूत्रमुदाहरति — उदाहरणमिति । सुखविवर्त्तः सुखात्मकपर्यायः । अनेन वाक्येन - 'सुखविवर्त्तः सम्प्रत्यस्ति' इति वाक्येन, अस्य दर्श्यते' इत्यनेनान्वयः । तदधिकरणं सुखपर्यायाधिकरणम् । गौणत्वेनापि न प्रतीयत इति - यदि 'आत्मनि सुख विवर्त्तः सम्प्रत्यस्ति' इति वाक्यं भवेत् तदा सुखविवर्त्तस्य मुख्यविशेष्यत्वेन प्रधानतयाऽऽत्मनस्तद्विशेषणत्वेन गौणतया प्रतीतिरुक्तवाक्यात् स्यात्, न चैवम् । ननु 'द्रव्यस्याप्राधान्यतया दर्शयति' इति लक्षणभागस्याघटनादृजुसूत्रत्वं न स्यादिति चेत्, न - पर्यायस्य द्रव्यात् कथञ्चिद् भिन्नाभिन्नत्वेन पर्यायमाने तदभिन्नतया द्रव्यमपि भासत एव, द्रव्यात्मना तु न भासत इत्यप्रधानतया भानम्, पर्यायविशेषणतयाऽनुल्लिखितत्वेन तथा तत्प्रतीतिर्नास्तीति 'गौणत्वेनापि न प्रतीयते' इत्युक्तिरप्रधानतया प्रतीतावपि न विरुध्यत इति बोध्यम् । प्रसङ्गादृजुसूत्राभासनिरूपणमधिकरोति - एतदाभासमिति - ऋजुसूत्राभासमित्यर्थः । सर्वथेति - द्रव्यं नास्त्येव यत् सत् तत् क्षणिकमेवे