________________
बालबोधिनी विवृतिविभूषितं - इदानी पर्यायार्थिकस्य चतुर्भेदप्ररूपणायां तावदृजुसूत्रं विवेचयन्ति-"ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः" इति ॥
-[प्रमा० परि० ७ सूत्रम्-२८] एतस्यार्थः-भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणकौटिल्यविविक्तत्वाद् ऋजु सरलमेव सूत्रयति-द्रव्यस्थाप्राधान्यतया
सङ्ग्रहादस्य सर्वथा भेद इत्यनेनावेदितम् । व्यवहारनयनिरूपणपरिसमाप्त्या द्रव्यार्थिकनयनिरूपणपरिसमाप्ति सूचयति-इतीति । इति व्यवहारनिरूपणम् ॥ इति द्रव्यार्थिकनयनिरूपणम् ।।
अथ पर्यायार्थिकनयनिरूपणे, ऋजुसूत्रनयनिरूपणम्-ऋजुसूत्र-शब्द-समभिरूद्वैवम्भूतभेदात् पर्यायार्थिकनयश्चतुर्धा, तत्रार्थनयत्वेन व्यवहारनयसजातीयत्वात् प्रथममृजुसूत्रनयनिरूपणमधिकरोतिइदानीमिति-द्रव्यार्थिकनयनिरूपणानन्तरकाल इत्यर्थः । ऋजुसूत्रस्य निरुक्तिबललभ्यस्वरूपमुपदर्शयति-ऋज्विति । अस्यैवार्थकथनम्-- वर्तमानक्षणस्थायिपर्यायमात्रमिति । 'सूत्रयन्' इत्यस्य प्राधान्यत इति विशेषणोपादानाद् गौणतया द्रव्यमभ्युपैति न तु तत् प्रतिक्षिपति, तथा सति नयाभासता प्रसज्येतेति । ऋजुसूत्रस्यानन्तरोपदर्शितनिरुक्तिप्रपञ्चवाक्यस्यार्थमावेदयति-~एतस्यार्थ इति । भूतेति-भूत-भविष्यकालवैशिष्ट्यमेव यद्यपि कौटिल्यं तथापि भूत-भविष्यत्कालमध्यवर्तित्वेन वर्तमानकालवैशिष्ट्यमपि कौटिल्यमित्यभिसन्धाय भूत-भविष्यद्वर्तमानक्षणलवविशिष्टलक्षणत्वं कौटिल्यस्याभिहितम् । 'सूत्रयति' इत्यस्य