________________
सप्तभङ्गी- नयप्रदीपप्रकरणम् ।
नाभावः, संश्लेषसम्बन्धः, परिणाम- परिणामिसम्बन्धः, श्रद्धाश्रद्धेयसम्बन्धः, ज्ञान ज्ञेयसम्बन्धचेति । उपचरितासद्भूतव्यवहारस्त्रेधा - सत्यार्थः, असत्यार्थः, उभयार्थश्च इति व्यवहारनयस्यार्थाः, चतुर्दशभेदाश्च ज्ञेयाः, भेदविषयो व्यवहारः ॥ इति द्रव्यार्थिकस्य तृतीयो भेदो व्यवहारनयः ॥
,
८७
-
विनाभावः सम्बन्धः । संश्लेषसम्बन्धो यथा- आत्मनि शरीररूपमुपचर्य 'अहं गौरः स्थूलः' इति व्यवहारः प्रवर्तते, तत्र शरीरेण सहात्मनः संश्लेषलक्षणसम्बन्धः; एवं नीलादिरञ्जनवस्तुसम्बन्धान्नीलं पीतं रक्तमित्यादिरूपेण वस्त्रमुपचरितं भवति, तत्रापि संश्लेषसम्बन्धः । 'मृद् घटः, ज्ञानं मतिः' इत्यादौ परिणाम - परिणामिसम्बन्धः | श्रद्धाश्रद्धेयसम्बन्ध इति-यो यच्छ्रद्धः स एव स इति वचनाद् 'जिनश्रद्धो जिन एव, हरिभक्तो हरिरेव' इत्यादौ श्रद्धा - श्रद्धेयसम्बन्धः । 'घटज्ञानं घटः, पटज्ञानं पटः' इत्यादी ज्ञान - ज्ञेयसम्बन्ध इति । उपचरितासद्भूतव्यवहारस्य त्रैविध्यमुपदर्शयति – उपचरितेति - यावन्मात्रं देवदत्तसम्बन्धि धनं तावन्मात्रं धनमुपादाय योऽयं देवदत्तस्य धनमिति व्यवहारः स सत्यार्थ इत्यर्थः, यश्च न देवदत्तस्य धनं तदेवोपादाय देवदत्तस्य धनमिति व्यवहारोऽसत्यार्थः, यत् किञ्चिद् देवदत्तस्य धनं किञ्चिच्चान्यस्य तदुभयात्मकधनसमष्टिमुपादाय देवदत्तस्य धनमिति व्यवहारः सत्यासत्योभयार्थः । इति एवंप्रकारेण, व्यवहारनयस्य अर्था विषया ज्ञेया इति सम्बन्धः । चतुर्दशेति सद्भूतव्यवहार इत्यारभ्यानुपचरितासद्भूतव्यवहार इत्यन्तग्रन्थेन चतुर्दश भेदा व्यवहारस्य ज्ञेया इत्यर्थः । अयं च सर्वोऽपि व्यवहारभेदो भेदविषय उपदर्शित इत्याह-भेदविषय इति-सङ्ग्रहोऽभेदविषयः, अयं च भेदविषय इति