________________
सप्तभङ्गी नयप्रदीपप्रकरणम् । गुणविकाराः पर्यायाः, ते च द्वादशधा-अनन्ता-ऽसङ्ख्यातसङ्ख्यातभागगुण-वृद्धिभ्यां तथानन्ताऽसङ्ख्यातसङ्ख्यातभागगुणहानिभ्यां च षट् षट् इति । विभावपर्यायास्तु नरनारकादिचतुर्गतिरूपाश्चतुरशीतिलक्षयोनयो वा । गुणान् विभजते-अस्तित्वम्१, वस्तुत्वम् २, सामान्यविशेषात्मकं द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, चेतनत्वम् ७, अचेतनत्वम् ८, मूतत्वम् ९, अमूतत्वम् १०, चेति द्रव्याणां सामान्यगुणा दश, प्रत्येकमष्टौ अष्टौ सर्वेषाम् । ज्ञान-दर्शन-सुख-वीर्य-स्पेर्श-रस
अगर २, सामायोनयो।
त्वमुपदर्शयति अनन्तेत्यादिना-अनन्तभागवृद्धिः १, असंख्यातभागवृद्धिः २, संख्यातभागवृद्धिः ३, अनन्तगुणवृद्धिः ४, असंख्यातगुणवृद्धिः ५, संख्यातगुणवृद्धिः ६, अनन्तभागहानिः ७, असंख्यातंभागहानिः ८, संख्यातभागहानिः ९, अनन्तगुणहानिः १०, असंख्यातगुणहानिः ११, संख्यातगुणहानिश्च १२, तत्कृता द्वादशप्रकारा गुणविकारा इत्यर्थः। विभावपर्यायाणां भेदान् समाख्याति-विभावपर्यायास्विति । 'नरनारकादि' इत्यादिपदात् तिर्यगमरयोरुपग्रहः । गुणान् विभज्य दर्शयति-गुणान् विभजत इति । 'सामान्यविशेषात्मकम्' इति 'द्रव्यत्वम्' इत्यस्य स्वरूपोपरञ्जकं विशेषणम् । अत्र अस्तित्वादिदशसामान्यगुणेषु चेतनद्रव्ये अस्तित्वम् १, वस्तुत्वम् २, द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, चेतनत्वम् ७, अमूर्त्तत्वम् ८, इत्येवमष्टौ सामान्यगुणाः, अचेतनद्रव्ये च अस्तित्वम् १, वस्तुत्वम् २, द्रव्यत्वम् ३, प्रमेयत्वम् ४, अगुरुलघुत्वम् ५, प्रदेशत्वम् ६, अचेतनत्वम् ७, मूर्त्तत्वम् ८, चेत्यष्टौ सामान्यगुणा इत्याह--- प्रत्येकमष्टौ अष्टौ सर्वेषामिति । विशेषगुणानुपदर्शयति--ज्ञानेत्या