________________
३४
बालबोधिनीविवृतिविभूषितं । प्रसङ्गानयाभासलक्षणमाह"स्वाभिप्रेतादशादितरांशापलापी [पुनः] नयाभास"
-[ प्रमाण० परि० ७ सूत्रम्-२] स्वस्येप्सितादांशादन्यार्थ प्रतिपद्य(षिध्य)मानो नयवदाभासमान इत्यर्थः, न तु नयः, यथा-अन्यतीर्थिकानां नित्याऽनित्याद्यन्यतरैकान्तप्रदर्शकं वाक्यमिति । ते च नया विस्तारविवक्षायामनेकधा भवन्ति, नानावस्तुन्यनन्तांशानामेकैकांशविधायिनो ये वक्तुरुपन्यासास्ते सर्व नयाः, यदुक्तम्
"जावइया वयणपहा तावइया चेव हुंति नयवादा । जावइया नयवादा तावइया चेव हुंति परसमया" ॥
[विशे० गा० ४५१]
नयलक्षणमभिधाय नयाभासलक्षणमुपदर्शयति-प्रसङ्गादिति । 'स्वाभिप्रेताद्' इतिसूत्रार्थमुपदर्शयति-स्वस्पेप्सितादिति । नयाभासानुदाहरति-यथेति । नयानां व्यासतो भेदा अनन्ता एव, न वक्तुं शक्या इत्युपदर्शयितुमाह-ते च नया इति । कथमनेकप्रकारत्वं तेषामित्यपेक्षायामाह-नानावस्तुनीति-तथा च तत्तद्धर्मप्रतिपादकवक्तवचनानामानन्त्यात् तदात्मकानां तज्जन्यानां च नयानामानन्त्यमित्यर्थः । __ एकैकांशविधायिनां सर्वेषामपि वक्तरुपन्यासानां नयत्वमित्यत्रागमसंवादमाह-यदुक्तमिति । जावइयेति
“यावन्तो वचनपथास्तावन्तश्चैव भवन्ति नयवादाः। यावन्तो नयवादास्तावन्तश्चैव भवन्ति परसमयाः" । इति संस्कृतम् ।