________________
३२
बालबोधिनीविवृतिविभूषितं
कृतस्त्र पदार्थस्यांशो अंशा वा ( अंशोंऽशावंशा वा ), नीयतेप्राप्यते, इतरांशौदासीन्यभावेन स नयः, 'अंश:' इत्येकवचनं जातावेकवचनम् । तदितरांशप्रतिक्षेपे तु तदाभासताप्रसङ्गः, तदुक्तं पञ्चाशति
“निःशेषांशजुषां प्रमाणविषयीभूयं समासेदुषां
वस्तूनां नियतांशकल्पनपराः सप्त श्रुता भ(ssस) ङ्गिनः । औदासीन्यपरायणास्तदपरे चांशे भवेयुर्नयाश्वेदेकान्तकलङ्कपङ्ककलुषास्ते स्युस्तदा दुर्नयाः " ॥१॥
अंशादिग्राहिणश्च प्रत्यक्षादेर्वस्तुस्थित्या न प्रमाणत्वं किन्तु नयत्वमेव, 'प्रत्यक्षादिप्रमाणेन' इत्युक्तिश्च तद्वति तत्प्रकारकत्वलक्षणव्यावहारिकप्रामाण्य समाश्रयणेन नयेऽपि च तादृशप्रामाण्यमनुमतमेवेति बोध्यम् । यदि अंशों शावंशा वा 'अंश:' इत्यनेन परिगृह्यन्ते तर्हि 'अंशः' इत्येकवचनं कथं संगतमित्यपेक्षायामाह -- अंश इत्येकवचनमिति । इतरांशौदासीन्यभावेन नीयत इति यदुक्तं तत्प्रयोजनमुपदर्शयति-तदित
शप्रतिक्षेपे त्विति । तदाभासताप्रसङ्गः नयाभासताप्रसङ्गः ।
वस्तुनो नियतांशग्राहिण इतरांशाऽप्रतिक्षेपिणो नयत्वम्, इतरांशप्रतिक्षेपिणस्तु नयाभासत्वमित्यत्र पञ्चाशद्वचनं प्रमाणयति - तदुक्तमिति । निःशेषेति - समस्तांशवतां प्रमाणविषयाणां वस्तूनां नियतांशकल्पनपराः - प्रतिनियतांशविषयाः, अपरस्मिन्नंशे चौदासीन्यपराः सप्तप्रकारा आगमोक्ता नया भवेयुः, ते पुनः, एकान्तकलङ्कपङ्ककलुषाःप्रतिनियतांशमात्रमवगाहमानाः सन्तस्तदितरांशप्रतिक्षेपिणः स्युश्चेत् तदा दुर्नया ज्ञेया इत्यर्थः ॥ १ ॥
-