________________
बालबोधिनीविवृतिविभूषितं तदेव साध्याभावे साधनस्य नास्तित्वमभिधीयते, यथा घट: खद्रव्यचतुष्टयैरस्तित्वेन सिद्धः, तथा मुद्गरसंयोगादिना नष्टः सन् नास्तित्वरूपेण सिद्धो भवति, अस्तित्वस्य नास्तित्वाविनाभावित्वात् । तथा च क्षणविनश्वराणां भावानामुत्पत्तिरेव विनाशे कारणमिष्यते, तदुक्तम्
"उत्पत्तिरेव भावानां विनाशे हेतुरिष्यते । यो जातश्च न च ध्वस्तः [ स हि नाम न विद्यते ]" ॥१॥ इति उत्पत्तिरस्तित्वस्य सिद्धिं करोति सैव विनाशाऽपरपर्यायनास्तित्वस्य, मूलकारणत्वादविनाभावः सिद्धश्च । न च तेनैव खरूपेणास्तित्व-नास्तित्वयोरेकत्र स्थाने निरूपणाद् भावाऽभावयोरेक्यापत्तेरनिष्टप्रसङ्ग इति? भिन्नभिन्नसमयप्ररूपणायां नैष
साम्यमावेदयति-यथेति । तथा च अस्तित्वस्य नास्तित्वाविनाभूतत्वे च । उत्पत्तेविनाशं प्रति कारणत्वे प्राचां सम्मतिमाह-तदुक्तमिति । ननूत्पत्ति-विनाशयोरविनाभावसिद्धावपि सवासत्त्वयोरविनाभावो न सिद्ध इत्यत आह-उत्पत्तिरिति-नबसत उत्पत्तिरस्तीत्युत्पत्तितोऽस्तित्वं सिद्धं भवति, उत्पत्तेविनाशकारणत्वाद् यत्रोत्पत्तिस्तत्रावश्यं विनाशः, विनाशश्च नास्तित्वमिति कार्यकारणभावादुत्पत्ति-विनाशयोरविनाभावे सत्त्वाऽसत्त्वयोरविनाभावोऽपि सिद्ध इत्यर्थः । ननु येनैव स्वरूपेणोत्पत्तिस्वभावं वस्तु तेनैव स्वरूपेण विनाशस्वभावमपीति स्वरूपाभिन्नत्वात् तयोरैक्यप्रसङ्ग इत्याशङ्कय प्रतिक्षिपति-न चेति । उत्पत्तिस्वभावता यस्मिन् क्षणे ततो द्वितीयक्षणे विनाशस्वभावतेति भिन्नसमये भावाभावस्वभावत्वेऽपि नैकसमये तत्त्वमिति न सर्वथैक्यम् , कथञ्चिदैक्यं विष्टमेवेति प्रतिक्षेपहेतुमुपन्यस्यति-भिन्नभिनेति-यद्यपि एकक्षणेऽप्यु