Page #1
--------------------------------------------------------------------------
________________
Do( नन्दनवनकल्पतरु: ८०
VOXAMS
PROM
सङ्कलनम्
कीर्तित्रयी
दक्षिणायनम्
Jain Educational
For rivale & Personal Use Only
-
Pawan.jainelibrary.org
Page #2
--------------------------------------------------------------------------
________________
सङ्कलनम् (कीर्तित्रयी
Page #3
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ।। अष्टमी शाखा ।। (संस्कृतभाषामयं अयन-पत्रम् ॥)
सङ्कलनम् : कीर्तित्रयी॥
सर्वेऽधिकारा: स्वायत्ताः ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि. सं. २०५८, ई.सं. २००२ मूल्यम् - संस्कृतसाहित्यरुचिः ॥
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्यायमंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजी पेढी समीप, पालडी, अमदावाद - 380007. फोन : 6622465
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसरिः"
C/o. रजनीकान्त बी. शाह ३, कुसुमकुंज, जैन टेम्पल स्ट्रीट, वि. वि. पुरम्, बेंगलूर : 560004 दूरभाष : 080-6670835
मुद्रणम् : 'प्रारंभ', अमदावाद ।।
दूरभाष : 079-6565653 मोबाईल : 9825011414
Page #4
--------------------------------------------------------------------------
________________
-
प्रास्ताविकम् ॥
s
सप्तमस्याऽष्टमस्य च द्वयोरङ्कयोर्मध्ये दीर्घ कालव्यवधानं सञ्जातमस्ति । तदर्थं तु वयं क्षन्तव्या वाचकैः । कारणद्वयं वर्ततेऽत्रैतावति कालविलम्बे । एकं तु वयं गूर्जरप्रदेशाद् विहृत्य दक्षिणप्रदेशे बेङ्गलूरुनगरमागताः स्मः, मुद्रणकार्यं तु अहम्मदावादे प्रचलति, इति । अन्यद् मुख्यं च कारणं गूर्जरदेशे घटिता रौरवघटना मानवानुचितव्यवहारेणोत्थिता अशान्तिर्भयग्रस्तं च वातावरणं येन जनानां नित्यक्रमोऽपि विक्षिप्तः ।
अस्यां स्थितौ 'कोऽपराधी'त्यस्य पुनर्विश्लेषणं कृत्वा पिष्टपेषणं कर्तुं नाऽस्ति कोऽप्याशयः । बहुभिर्बहुधा बहुप्रकारैश्च तत्कृतमेव । स च नास्त्यैवाऽत्रोपायः । 'अज्ञानस्यैवाऽत्राऽपराध' इत्येव वक्तुमुचितमित्यस्ति विचारधीराणामभिप्रायः । किन्तु परिपक्वो जातोऽधुना समयोऽन्तर्निरीक्षणस्य इति तु निश्चप्रचम् ।
जीवनविज्ञानात् दूरं मुक्तवती मानवं भौतिकविज्ञानस्य वर्तमाना प्रगतिः । वर्तमानकालमधिकृत्य नैतद् विधानं किन्तु भारतीया संस्कृतिस्तु मूलतो जीवनविज्ञानस्य संस्कृतिरस्ति, आसीद् वा । जीवनतत्त्वमेवाऽत्र सर्वोपरित्वं भजमानमासीत् । अन्यत् किमपि कियदपि च मूल्यवत् स्यात् किन्तु न कदापि जीवनतत्त्वेन स्वल्पामपि तुल्यतां तदाप्नुवदासीत् । जीवनतत्त्वं गौणं कृत्वा नाऽन्यत् किमपि साधनीयमासीत् । किन्तु न वर्तमानकाले किमपीदृशं दृश्यते । अद्यतनी स्थितिस्तु पाश्चात्यानामनुकरणस्य फलमस्ति ।
गीतावचनमत्र स्मर्तव्यम्- 'परधर्मो भयावहः' इति । माता त्वेकाऽनन्यैव भवति, अन्याश्च सर्वा अपि मातश्वसारो भवन्ति । मातैव संस्कारदात्री नाऽन्या। अन्या त भवेत कदाचित स्नेहदात्री न किन्त संस्कारदात्री यो मातरं मुक्त्वाऽन्यत्राऽटति न स हितं सुखं वा साधयितुं प्रभवति । 'वन्दे मातर' मिति तु कि नाऽस्माक गौरववचनम् ? अधुना सावधानेन भवितव्यम् । दीपस्तम्भसदृशान्यार्षवचनानि । अनुसरणीयानि च तानि यथाशीघ्रम् । प्रान्ते, अज्ञानस्याऽन्धकारः सर्वतो निरस्यतु - इति प्रार्थना करणीया येन सर्वेऽपि स्वकल्याणं हितं सुखं च साधयन्तु।
"शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः ।
दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥" वि.सं. २०५८ ज्येष्ठकृष्णा द्वितीया
कीर्तित्रयी बेङ्गलूरः
infi AAAAAAAMANASARAMMNAAMILOMMERO
I RALARIANRAISAIRAMMAMANASimasena
Page #5
--------------------------------------------------------------------------
________________
N
N
माघशुक्लपञ्चमी
वाचकानां प्रतिभावः
हंहो श्री कीर्तित्रयीमुनिवर्याः !
सहस्रशो वितीर्यते साधुवादाः भवद्भयः त्रिभ्यः हर्षोच्छलन्मानसेन। सम्प्राप्तः नन्दनवनकल्पतरोः सप्तमोऽङ्कः । तत्र । । पूज्यपादपरमगुरुवरश्रीमद्विजयामृतसूरीश्वरभगवतां
जीवनविषयकमस्मल्लिखितं लेखं सुचारुतया च । प्रकाशितान् लेखान् दृष्ट्वा पठित्वा च जातो मनसि
परमाह्लादः। शोभनतरमिदं कार्य विधीयते भवद्भिस्तत्र विशेषतया प्रगतिर्भवत्विति वितीर्यते शुभाशीर्वादः इति शम् ।
A
-विजयहेमचन्द्रसूरिः।
स
4
Page #6
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
नन्दनवनकल्पतरुः स्वराट्साम्राज्यमभिधत्तेऽपि । गीर्वाणवाणीविपिने त्रिभुवनकीर्तित्रयीरूढः ! ॥१॥ विपुल भरतभुवि सौख्यं सौभाग्यमादधती देवी । सरस्वतीयं ब्राह्मी भारतं भारतं संतनुते ॥२॥ ऋषीणां मुनीनामार्याणां मन्त्रसूत्रवार्तासमयानाम् । कवितावल्लीकदम्बानां कल्लोलिनी रसदा भारती ॥३॥ पालिप्राकृतापभ्रंशैराधुनिकाभिः सहस्रेण । परिवृत्ता वृता सम्राजीव निखिलजननी संस्कृता जयति ॥४॥ भारत ! भारतः स्याः स्वार्थं परार्थं विश्वार्थञ्च स्याः । शाखाप्रशाखासु भृशं रम मा गमस्तन्मूलनिकृन्तनम् ॥५॥
संस्कृतिः सा प्रथमा धन्या विश्ववारोद्भासयत्यखिलम् । तस्या वाणी सनत्नी विलसति किल संस्कृता भाषामणिः ||६|| नन्दनवनकल्पतरुराकल्पं विलसताद्भूयोऽपि ।
11 eft: 11
संस्कृतिस्यन्दिनी बत संस्कृतभासुरा भासतामोम् ॥७॥ अमन्दानन्दसन्दोहमलभे नन्दने वने ।
कल्पतरोर्वरारोहमालक्ष्य कविझङ्कृतम् ॥८॥ सप्रश्रयादरं वन्दे कीर्तित्रयमुनित्रयम् । धर्मक्षेत्रकुरुक्षेत्रे सुरेन्द्रः कविपण्डितः ॥९॥ श्रीविजयशीलचन्द्रसूरेर्ध्यायं ध्यायं सुकृतीर्हृदयम् । प्रतिभावमिमं धत्ते रत्नत्रयिणां तुरीयमालोक्य ॥१०॥
सबहुमानविनयं (सुरेन्द्रमोहनो मिश्रः)
Page #7
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
MARAT
प्रियसन्मान्यसूरिमहाभागाः अनन्यप्रेमाशिषो वः । भवत्प्रेषिता नन्दनवनकल्पतरुपत्रिका अधिगता। बहवो धन्यवादाः । सर्वे लेखा मनोज्ञा विचारपूर्णाश्च सन्ति । तत्रापि ‘एको निबन्धः' मुनि रत्नकीतिविजयप्रणीतोऽतीव मुदमातनोति ।।
ब्रह्मानन्दो यतिः
A
E
Page #8
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
डो. रूपनारायण पाण्डेयः एस्-२/३३०, राज्यशिक्षासंस्थानकालोनी,
एलनगञ्जः प्रयागः उ.प्र., २११००२
८-१-२००२ मान्याः ,
सादरं प्रणामाः। तत्रभवद्भिः प्रहितं पुस्तकं 'नन्दनवनकल्पतरुः (सप्तमी शाखा) समधिगतम् । अत्र प्रकाशिताः सर्वा रचना रम्याः, ज्ञानवधिन्यश्च । रङ्गमञ्चे 'अहो ! दुर्धर्षा दैवलीला'. ('ईडिपस्' नाटकस्य संस्कृतभावरूपम्) नितरां मार्मिकी रचनाऽस्ति । स्वामिश्रीब्रह्मानन्देन्द्रसरस्वतीमहोदयस्येदं रूपान्तरकार्यं सर्वथा प्रशंसनीयम् अस्ति । मन्ये अग्रेऽपि संस्कृतेतरभाषाणां रम्यसाहित्यस्य संस्कृतरूपान्तरं विधाय स्वामिवर्यः संस्कृतभाषायाः संवर्धने श्लाघनीयमवदानं विधास्यति । जयतु संस्कृतम्, संस्कृतिश्च।।
भवदीयः रूपनारायणपाण्डेयः
Page #9
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
महेश्वरः रमानाथः द्विवेदी
B.A.M.S., M.A. (संस्कृत) * जाम- वनस्थली, पीन-३६११३०
दिनांक : ३०-१२-०१
भानुवासरः।
पूज्यश्रीविजयशीलचन्द्रसूरिमहोदयाः,
प्रणामैः सह निवेद्यते यत् -
भवतः अयनपत्रस्य एकः अङ्कः अवलोकितः, पठितश्च । मनसि अतीव आनन्दः सञ्जातः । अनिलः द्विवेदी (जामनगरस्थः) मम अग्रजोऽस्ति । तस्य गृहम् एतदयनपत्रम् आगच्छति । तत्रैव अङ्कः पठितः।
अहं तु चिकित्सकः अस्मि । वरणानामके ग्रामे मम चिकित्सालयः अस्ति । संस्कृतम् अतीव रोचते मह्यम् । संस्कृतं प्रति अनुरागकारणात् प्रतिदिनं किञ्चित् संस्कृतं परिचयार्थं पठामि । भवतः अयनपत्रे ये वैविध्यपूर्णाः । विभागाः सन्ति ते सर्वे नन्दनवनकल्पतरोः कुसुमानि फलानि इव प्रतिभाति । अयनपत्रीयाः अनेकाः शुभकामनाः।
Page #10
--------------------------------------------------------------------------
________________
-
-
कृतिः
कर्ता
पृष्ठम्
स्तवन-त्रयम्
वाचनाचार्यश्रीमद्विजयमाणिक्यसिंहसूरिः
श्रीनेमिजिनस्तोत्रम्
अमृत पटेल:
श्रीवीरजिनस्तोत्रम्
अमृत पटेलः
श्रीगौतमस्तोत्रम्
विजयशीलचन्द्रसूरिः
शारदास्तवनम्
अभिराजराजेन्द्रमिश्रः
किमतः परं त्वदुपायने ?
अभिराजराजेन्द्रमिश्रः
अलङ्कारनेमिः
विजयशीलचन्द्रसूरिः
मतिर्दीयताम
अभिराजराजेन्द्रमिश्रः
मनो निबोध!!
अभिराजराजेन्द्रमिश्रः
लोके कापुरुषः स कथ्यते।
डो.आचार्य राम किशोर मिश्रः
वास्तवम्
एस्. जगन्नाथः
BARSAIRRITAMARRIOR
R
ASHTRA
Page #11
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
कर्ता
पृष्ठम्
आत्मपदार्थसिद्धिः
पूज्यपादाचार्य श्रीविजयदेवसूरीश्वराणां शिष्यः
मुनिरत्नकीर्तिविजयः
आगादः चिन्तनधारा
मुक्तचिन्तनम्
मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः
हृदयप्रदीपः
अलङ्कारविषयं किञ्चित्
स्वामी ब्रह्मानन्देन्द्रसरस्वती
प्राब्यसमीक्षा भारतविजयम्'
डॉ.रूपनारायणपाण्डेयः
मुनिधर्मकीर्तिविजयः
'पत्रम्
Page #12
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
अनुवाद:
अमरत्वाभीप्सा
ईर्ष्या
काव्यानुवादः ।
कथा झेन कथाः ॥
सत्यो बोधः
आत्मवत् सर्वभूतेषु
न्यायः
दैवदुर्नालित्यम्
मङ्गलोऽश्वः ॥
विहङ्गावलोकनम्
मम-नम
कर्ता
मुनिजिनसेनविजयः
-मुनिधर्मकीर्तिवजयः
विजयशीलचन्द्रसूरिः
मुनिधर्मकीर्तिविजयः
शी.
मुनिरत्नकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिधर्मकीर्तिविजयः
मुनिकल्याणकीर्तिविजयः
सा. अमीझरा श्रीः
पृष्ठम्
७४.
७५
७७
८१
८३
८५
८७
८८
९१
९७
९८
Page #13
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः
प्रकृत
विभागः
पत्रम्
हत्थयलरोमाई
* JÕUNIK S
संवेगमंजरी कुलयं मुनिकल्याणकीर्तिविजयः
मुनिकल्याणकीर्तिविजयः
कर्ता
できる
मुनिकल्याणकीर्तिविजयः
लेखकेभ्यो निवेदनम्
१. कृपया प्रतेरेकस्मिन्नेव पार्श्वे सुन्दरैः सुवाच्चैश्चाऽक्षरैः लेखं लिखित्वा प्रेषयन्तु २. कृपया मूलप्रतिमेवाऽत्र प्रेषयन्तु न झेरोक्षप्रतिम् ।
पृष्ठम्
१०८
१११.
११३
Page #14
--------------------------------------------------------------------------
________________
वन्दे.
स्तवन-त्रयम्
___ -वाचनाचार्यश्रीमद्विजयमाणिक्यसिंहसूरिः (त्रयमप्येतत् 'वन्दे मातर' मिति रागेण गीयते ।) श्रीजिनस्तवनम् वन्दे श्रीजिनम् अकलं सकलं कलितमहाबलं नित्यनिर्मलं श्रीजिनम् ॥ विश्वस्वामिनं निरुपमनामिनं, अपुनर्भवमन्दिरवासिनं; विभासिनं स्वगुणविलासिनं सुखदं शिवदं श्रीजिनम् ॥ वन्दे.
२. श्रीगौतमस्वामिस्तवनम्
वन्दे गौतमम् शमिनं दमिनं संयमिनामिनं शुद्धयोगिनं गौतमम् ॥ लब्धिमन्दिरं सुविदितसगिरं श्रीवीरजिनान्तेवासिनं महस्विनं परमतपस्विनं गुणिनं गणिनं गौतमम् ॥
वन्दे.
Page #15
--------------------------------------------------------------------------
________________
वन्दे.
३. श्रीसरस्वतीस्तवनम्
वन्दे शारदाम् सुकलां सुबलां कमलसुकोमलां चन्द्रनिर्मलां शारदाम् ॥ बुद्धिदायिनी सिद्धिविधायिनी अर्हद्वदनाम्बुजन्मवासिनी सुभासिनी तत्त्वविकासिनी श्रुतदां सुखदां शारदाम् ॥
वन्दे.
-0
न भवति निर्विगोपक-मनुपासितगुरुकुलस्य विज्ञानम् । प्रकटितपश्चाद्भागं, पश्यत नृत्तं मयूरस्य ॥
Page #16
--------------------------------------------------------------------------
________________
अमृत पटेलः २०३-बी, एकता एवॅन्यु, बेरेज रोड, वासणा, अमदावाद - ३८०००७.
थानामाजन
॥१॥
॥१॥
स्तोत्र -द्वयम्
રો
(वसन्ततिलकावृत्तम्) हे नेमिनाथ ! भवता भुवनारिमारो -
ऽनङ्गः कथं हतक एष हतो दुरात्मा । जेतुं जगत् खलु विहाय शरीरभारं
यो भ्रान्तवान् जनमनस्सु विधाय वृत्तिम् मां मथ्यमानमनसं जिननाथ ! कामं
__कामेन, पञ्चशरतो परिरक्ष नेमे ! । संवेगदुर्गमिधरोढुमहं भवन्तं
नाथामि नम्रजनकामितकामकुम्भम् एषोऽर्णवोऽनवतरो ननु यत्र तृष्णा -
ग्राहो रुणद्धि भवभृन्निवहाँस्तु नित्यम् । प्रोज्ज्वालजालवडवानल ऊर्ध्वमेति
माँ देव ! तारय भवोदधितो हि नेमे ! आज्ञामृतेन हृदयं न पवित्रितं मे
न श्रोत्रपात्रमपि तेन भृतं कदाचित् । नेत्रं न वक्त्रमखिलात्महितैकसत्र !
हे नेमिदेव ! भवमित्थमहारि मौढ्यात् गोत्रं नय-त्र ! जगदेकपवित्रगोत्रं
कल्याणमन्दिर ! पवि-त्रगणैस्तु नाकम् । भक्तामरैर्निजवरोरुकृतानुकारैः
स्फारैर्वचोभिरभिनर्तितमग्रतस्ते
રૂ
જો
ડો
१. गोभिः - ज्ञानैः त्रातृ । २. पविना त्रायन्ते - पवित्राः - इन्द्रास्तेषां गणाः, तैः।
Page #17
--------------------------------------------------------------------------
________________
(उपजातिवृत्तम्) देवेश ! देहातिरञ्जनाभा
करोति रक्ताँस्तु निरञ्जनाँस्ते । हे नाथ ! भक्तावहमस्मि रक्तः कर्माञ्जनं शोधयितुं प्रसक्तः
॥६॥ (स्रग्धरावृत्तम्) आरूढं प्रौढिमानं गगनमिव मदोन्मत्तमेतत्तु, मूर्त
मानं, मत्तं नु चित्तं जिन ! तव चरणे लीयतामार्जवाप्त्यै । तप्तास्तृप्ता यदत्र व्यपगततिमिराः स्युः प्रसन्नाः प्रशान्ताः
श्रीनेमे ! लभ्यमरिमन्, किमपि जगति यत् त्वत्प्रभावाद्धि लभ्यम् ॥७॥ माद्यत्कन्दर्पव्यालं प्रसूमरगरलं तीव्रदंशं सवीर्यं
मूर्च्छन्तं मानसे में प्रतिभवमपि हा ! चिद्विलोपं रुणद्धि । वाग् विद्या जाङ्गली ते, यतिगणवृषभैः साध्यते या नरेन्द्रैः
नेमे ! शैवेय ! सा मे वितरतु सुषमां शाश्वतीमात्मजाताम् Tોટો त्वन्नाम्ना सोमधाम्ना हृदयजलनिधौ भक्तिवीचिप्रणाली -
प्राग्भाराकान्तवन्तो नर-सुरविसरा नाथ ! नम्रास्तथाऽपि । लोकाग्रे धाम धृत्वा लघु परमहिते मोदमाना वि-माने । भ्राजन्ते नात्र चित्रं त्वयि जगति विभौ त्रातरि श्रेष्ठसत्त्वे
s 'कालातीते'ति वाक ते भवति जिनपते ! सर्वदा सर्वभद्रे
धुर्या माधुर्यवर्या प्रवचनसमये श्रोत्रपेया सुधीभिः । कृत्वा हृत्स्वर्णपात्रे भवगदविगमे स्युः सुधास्फूर्तिमन्तः
स श्रीशैवेय ! सार्च ! प्रणमदसुमतां स्यात् सदारोग्यदायी ॥१०॥
Page #18
--------------------------------------------------------------------------
________________
प्रोत्कीर्णा वर्णमाला प्रविबुधवृषभैर्देवनद्यास्तटेषु
हर्षोत्कर्षप्रकर्षात् तव परमगिरः पावनीः पुष्पवर्णाः । सोद्यानवद्या श्रवणपथमथाऽऽरोप्य हृत्पद्मसत्कं
साऽद्याऽपि ध्यानमग्नैर्विशदजलकणेष्वीक्ष्यते तारकासु कम्बुर्जातोऽम्बुराशौ तरलतरजले तुङ्गतरङ्गे
प्रादुर्भूता च लक्ष्मीः सुरगिरिमथने चञ्चलाऽतः स्वभावात् । नेमिं नीलाश्मरश्मिप्रवरतनुभृतं धैर्यतोऽब्धि जयन्तं
सोदर्यौ संश्रितौ तौ, वरगुणशरणं धीमतां श्रेयसे स्तात् चित्तं मत्तेभमोहः परिमथति विभो ! त्वय्यपि भक्तिसक्त
माच्छिन्ते मारचौरो हृदयसदनतो धैर्यरत्नं प्रभो ! मे । क्रोधो रुद्धावबोधो ज्वलयति सततं हृद्वनं भक्ति सिक्त
मित्थं हे नाथ ! ज्ञात्वा कुरु मयि करुणां रक्ष रक्षेश ! नेमे ! (वसन्ततिलकावृत्तम्)
पञ्चेषुदर्पदलने प्रथितैकवीर्य !
शैवेय ! वेद ! भवतान्मयि सुप्रसन्नः । कामेषुणा मम मनो नहि नाथ ! विद्धं
वर्मायते यदि विभोर्वरदः प्रसादः उज्जीवितोऽस्मि भवता भुवनैकमेघ !
धर्म्यं धनुर्विकिरता हृदयान्तरिक्षे ।
नेमे ! मनोजविकृतेः शमनाय काम्य ! हृत्तोषपोष ! वचनाम्बुविनष्टशोष !
૫]
ગો
કો
કો
॥१५॥
Page #19
--------------------------------------------------------------------------
________________
(मालिनीवृत्तम्) विशदजलजलक्ष्मन् ! नीलरलोरुधामन् !
सुभग ! जिनप ! नेमे ! प्रौढपाथोदशब्द ! । कनककमलमालाचुम्बितं तेऽह्रियुग्मं
भवतु भवतुदे मे भीमकान्तं प्रशान्तम्
૬ો
पत्रफलपुष्पलक्ष्म्या, कदाप्यदृष्टं वृतं च खलु शूकैः । उपसर्पम भवन्तं, बब्बुल ! वद कस्य लोभेन? ॥
(जगन्नाथः)
कण्टकमयसम्पत्त्या, सम्पन्नं तीक्ष्णतागुणापन्नम् । पत्रफलिनीयुतं त्वां, बब्बुल ! करभाः कथं जाः ? ॥ (प्रतिकाव्यम्)
Page #20
--------------------------------------------------------------------------
________________
श्रीवीरजिनस्तोत्रम्
- अमृत पटेलः
॥४॥ (युग्मम्)
॥५॥
नम्रामरैर्नुतो वीर: वीरं तीर्थकृतः श्रियः । वीरेणैव परं ज्ञानं श्रीवीराय नमोऽर्हते वीराच्छुभं जगत्क्षेमं वीरस्य विक्रमं शुभम् ! वीरे शुभा धृतिः शान्तिः वीर ! हे वीर ! पाहि माम् आतस्य रागसिंहेन नष्टस्य द्वेषहरितना । दग्धस्य क्रोधदावेन जग्धस्य लोभरक्षसा सिंहायाऽष्टापदो भूयात् गजाय च गजेन्द्रहा । दावाय शुचिपाथो यः त्वं मात्रिकश्च रक्षसे अनेकान्तवचोनीत्या नीतमेकान्ततः शिवम् । विश्वं पापौघसुक्लान्तं ततो वीर: शिवं गतः तुभ्यं नमो नमो नाथ ! विश्वे कल्याणधारिणे । अपूर्वबलवीर्याय ज्ञाताय ज्ञातनन्दन ! मूलं ज्ञात्वा भवस्यादिं पापं कर्माऽशुभावहम् । ध्यानाग्निना त्वया दग्धं चित्रं शुक्लोऽभवद् भवान् यतः स्वामिन् ममात्माऽयं सुवर्णोदरगौरभाः । भवत्वतः सदा मेऽस्तु तावको ध्यानपावकः हिताहितं समालोच्य कुर्यात्कार्यमनाकुलः । देव ! प्रहोऽस्मि ते भक्तौ हीयं हितप्रदा मम तव देव ! विलग्नोऽहं चरणे घोरकर्मणि । कर्मद्विपघटाध्वंसे मृगेशायितविक्रमे
દો
॥॥
Page #21
--------------------------------------------------------------------------
________________
शङ्के कर्मभिर्नाथ ! उपेयुषि हृदि त्वयि । बिभेति न शिशुर्बालो माताऽऽयाता यदा गृहे
??ો श्रद्धापूतं वेद्योऽपि श्रुत्वा स्वामिन् ! वचस्तव । तस्याऽपि मुक्तये स्युस्ते सम्बन्धा बन्धबान्धवाः
૨૨ विज्ञप्तिमिति भक्ते में चापलतां गतामपि । निधायाऽऽत्मनि वीर ! स्य कर्मलतां स्थितां मयि શરૂ त्वदास्यादिन्दुरादाय सौम्यं सोमोऽभवद्यपि । कलङ्कं तु कथं तत्र हेतौ यत्कृतौ कथम्
॥१४॥ शब्दगुणं नभो नैव खे वाग्भूतिस्थिती किमु ? । नाभिभूता विभो ! वाक् ते आस्याद् व्याप्य जगत्स्थिता ॥१५॥ चित्रं भासो जगद्व्याप्ता ज्ञानमयोज्जलस्य ते । दीपस्यान्तप्रदीप्तस्य घटाउन्तोऽन्यस्य भाः न ताः
દો हंसरत्यपराऽऽत्माऽऽख्या सत्यं वाक् ते दधे मया । चित्रं, रमे न ते नाथ ! मानसे रमसे मम
છો युवां तु भव'शीर्षस्थावियमेका समानता । भवानिव भवान्नैव भेदोऽस्त्यस्तकलङ्क्तः
૩૮ वीरस्तुतोऽमृतावाप्त्यै त्रैशलेयः स्तुतो मया । रुद्रात् घोरात् भवाद् रक्ष श्रितं त्वां विश्वसंश्रय !
-०
१- संसारः, शिवश्च।
२-भ-वान् - चन्द्रः ।
Page #22
--------------------------------------------------------------------------
________________
श्रीगौतमस्तोत्रम्
विजयशीलचन्द्रसूरिः
॥१॥
॥२॥
॥३॥
|४||
आर्हन्त्यप्रतिरूपं रूपातीतं तथापि चिद्रूपम् । मन्त्राधिराजरूपं गौतमरूपं गुरुं वन्दे श्रेष्ठतमः सद्गुरुषु पूज्यतमः पूजनीयतत्त्वेषु । ज्ञानरमो विगततमास्तमोऽपहो गौतमो जयतात् श्रीवीरचरणलक्ष्मीः सेव्यत्वेनाऽधिकीकृता येन । केवललक्ष्मीतः खलु प्रणौमि तं गौतमं गणिनम् शुद्धज्ञाननिदानं सम्यग् जिनभक्ति योग एवेह । साधितमिति निजचरितैर्येनाऽमुं गौतमं प्रणिपतामि आसक्तिरेव न स्यात् कार्यं रागस्य, किन्तु भक्तिरपि। स्थापितमिति येनाऽसौ श्रीगौतमगणधरो जीयात् अवलम्ब्य यं रविकिरणमारूढोऽष्टापदं गिरिं तुङ्गम् । श्रीगौतमो गणेन्द्रोऽधुनाऽपि तं किरणमभिवन्दे त्वत्प्रतिमां त्वप्रतिमामिमां निरीक्ष्याऽद्य गौतमेश ! मम ! नेत्रे विकृतिविचित्रे पवित्रतायै मतिः कुरुताम् श्रीगौतम ! तव मुद्रा गततन्द्रा प्रास्तवासनानिद्रा । संजनितभव्यभद्रा वितरतु संघाय कुशलं द्राक् हृदये यत् कारुण्यं श्रीगौतमगणभृतो लसति पुण्यम् । बिम्बस्थनयनकच्चोलकयोस्तत् प्रकटितं मन्ये
क्षेप्तुं सहजमलमलं गौतमपदकमलयमलममलमिदम् । ___ विमलमना नित्यमतः स्मरामि तत् पूजयामि चाऽहमिह
॥६॥
|७||
॥८॥
॥९॥
|१०||
Page #23
--------------------------------------------------------------------------
________________
॥११॥
॥१२॥
॥१३॥
॥१४॥
॥१५॥
श्रीगौतमस्य वदनं मधुरिमसदनं सितांशुसमरदनम् । मम मनसि निवसतु सदा समतापथपथिकपथ्यदनम् स्त्यानीकृतफेननिभं यदि वा नवनीतधवलपिण्डनिभम् । शुभ्रादभ्राभ्राभं विभाति गौतमविभो ! भवबिम्बम् श्रीगौतम ! तव मधुरिमरसभरभरिते मनोरमे बिम्बे ! आसक्ता मम दृष्टिस्तथाऽनुरक्ता मतिनितराम् चेल्लब्धयः समग्राः स्युर्भगवति गौतमे, मम ततः किम् ? । मयि तु सदा विस्फुरतु श्रीगौतमनामलब्धिरेकैव । "भजतः श्रीवीरजिनं भवति ज्ञानस्य लाभ" इति रूढिः । भवता तं त्यजतैव नु तल्लब्धं गौतमेश ! चित्रमिदम् त्वं तीर्थं मेरुस्त्वं त्वं दानं त्वं सुपात्रमपि भगवन् ! । वेदस्त्वं त्वं च गुरुस्त्वमेव मे तत्त्वमसि परं गणराट् मन्त्राधिराजयोगाद् गौतमगुरुयोगभागहं जातः । एवं चाऽऽप्तो योगावञ्चकतां मन्दभाग्योऽपि हेतुस्तत्र गुरूणां करुणैवेतीह निश्चितं मयका। अत एवाऽऽराधकतां समाप्नुयामिति मनीषा मे श्रीगौतमगणभृत्स्तुतिरेषा रचिताऽत्र गोधराक्षेत्रे । मन्त्राधिराजपञ्चमपीठस्याऽऽराधनावसरे अग्नि-समिति-गगनेक्षणवर्षे (२०५३) दीपालिकादिने कृतवान् । शीलेन्दुः स्तुतिमेतां गौतमगुणगुम्फितामिति शम्
॥१६॥
॥१७॥
॥१८॥
॥१९॥
॥२०॥
१०
Page #24
--------------------------------------------------------------------------
________________
शारदास्तवनम्
-अभिराजराजेन्द्रमिश्रः अविदिततमसि किरसि भगवति ! शतशतरविकिरणनिचयमनुदितमिह जगति विशदयसि निगमजनितशुचिसरणिमखिलभुवि सततसमुपकृतमनुजसुमतिमयि विधिसुगृहिणि ! ननु विभवसि विधिहरिहरशतमखजगदभिमतनरपतिसुचरितमयि ! विलससि रघुपतियदुपतिकृतिमयि ! विलससि नलनृगरघुकुरुगुणमयि ! विलससि ऋतुचयमधुविवरणमयि ! विलससि रविशशिदिनरजनिनिचयमधुललितवलनमपि! सुकवनमयि ! विलससि वरवरटकविचरणमयि ! करविलसितसितमणिफलगुणमयि ! दृगुभयवितरितनिरवधिरतिरपि कविजननि ! जयसि बुधमहितजगति ॥१॥
अइउऋलसहितकखगघचछजझतथदधपफबभत्रमङणनकलिततनुरसि बुधमयि ! यरलवशषसहमधुरितवपुरसि दधदभिरुचिविधिरपि सृजति भुवनमथ भवदनुमत उमतिनृहरुरिरपि पुनरथ तिरयति भवदनुमतगजरिपुरखिलभुवनचयमिति तव विशदचरितमिह कलयति जननि ॥२॥
अयि जननि ! निशितमतियुतकविरसि नवरसमधुरिममयसुकवनमसि ऋतुपतिनवकुसुमसितहसितमसि घनसमयजलदततिसुतपृषदसि सुमरसमदजनिमधुकररुतिरसि घनरसितकलितशिखिगणनृतिरसि घनतमसि जननि ! हिमकररुचिरसि लसदुषसि जननि ! दिनकररुचिरसि कलकुवलयकुमुदविकसनमुदसि भुवि यदपि रुचिरमिह तदखिलमसि हिमततिसिततनुरपि जननि ! जयसि ॥३।।
निनदति तव जननि ! निनदभृति निनदति सुकविहृदयमनुहतगुणरसपदनिचयमचिरमुपजनितबहलसुखमपलपितसकलविषमविषयचरमयि कविजननि ! भवति भवदनुमत इह खलु सुकतिरतिनृपतिरपि ननु गुणिगणगणनपरमसमुदयमय उभयजगति महसि तपसि यशसि महिततम उदयलसिततम उपामित रविशशियुगल ऋतप ऋतमुमति ॥४॥
११
Page #25
--------------------------------------------------------------------------
________________
शतमखधनुरिव तदखिलकवनमयि जननि ! नवरसरुचिरमनुपहतरणरणनजननमथ वशयति सहृदयचयहृदयमपनयति निखिलविषमभवरुजमपि स भवति जननि ! गरलधरपशुपतिरखिलभुवनभरकुशलशुभप इह स भवति तमसि किरणनिचयमृदपि स भवति विबुधकुलपकुलिश भृदपि स भवति तव वरवरटसदशगुणधर उदयमृदपि सकृदपि भवति न खलु स जगति किमु बुधजनसदसि लसति ननु विधुरिव ॥५॥
तव जगति जननि ! ननु भवति सकलमतिशयितविधिजकृति करुणघटनमपि सुखयति युगलनयनजलमपि शिशिरयति हृदयमधिकवितमयि जननि ! विधुरपि जनयति तपनमथ च रविरपि विसृजति हिमनिकरमुषसि लसदितरदिव भवति सकलमपि ॥६॥
मयि वितर वितर वरवरटकगुणमयि जननि ! शमय मम निखिलदुरितमपनय मम कलुषनिचयमवतर मम मनसि कवनमपि विशदय ननु रघुकृदुभयचरणकमलमधुकरगतिरयमपि भवतु तव लालितसुत उदयतु कविसदसि शरदि विधुरिव ।।७।। ॥ इति त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचितं ह्रस्वाक्षरग्रथितं
शारदास्तवनं सम्पूर्णम् ॥
-०
भूमिकापण्डिताः केचित् केचित् फूटनोटपण्डिताः । रेफ्रन्सपण्डिताः केचित् भवन्त्येवं तु डॉक्टराः ॥ (रुद्रदेव त्रिपाठी)
Page #26
--------------------------------------------------------------------------
________________
-
किमतः परं त्वदपायने ?
-अभिराजराजेन्द्रमिश्रः
॥४॥
न धनार्जने न यशोऽर्जने न च लोकवन्द्यपदार्जने अयि वाणि ! मे यादृशसुखं तव पदकमलयुगलार्चने !! ॥१॥ ऐन्द्रं पदं वारुणपदं कौबेरमपि सम्मतपदम् स्वर्गास्पदञ्च निरापदं विलसति तव प्रियतार्जने !! ॥२॥ द्राक्षा सिता मधु शर्करा कर्पूरवासितपानकम् किं किं न मातर्विद्यते त्वदमोघकविताभाजने !! ॥३॥ क्व पुनर्मिलन्ति दिवङ्गताः स्मृतिशेषतां ननु सङ्गताः पश्यामि किन्तु कवीश्वरान्नित्यं तवैव गृहाङ्गणे क्षणभङ्गरं किल जगदिदं कथयन्ति सम्मतसूरयः अद्भुतचिरन्तनता परं समवेक्ष्यते त्वदुपासने स्वीयं बलं निष्पीड्य मां शतशो विपद्भिरपीक्षितम् मां स्प्रष्टुमपि न च ताः क्षमा लीनं त्वदीयविभावने न च कामयेऽपरवैभवं त्वदुदारकीतिकथाहते । विहरान्यहं कोकिलनिभस्तव सौधपरिगतकानने ॥७॥ चरितश्रुतौ तव केवलं नितरां कथङ्कथिकोऽस्म्यहम् मञ्चेऽन्यथा सुतवग्मिता सिद्धा जननि ! वसुधायने व्यतियान्त्यहानि निशाश्च मे भार्याततिनयमधुरेक्षणे इह तौ, त्वमसि तत्राऽम्बिके ! किमतः परं त्वदुपायने ॥९॥
PER
॥६॥
ALLA
HD
॥८॥
S
Page #27
--------------------------------------------------------------------------
________________
अलङ्कारनेमिः
विजयशील
॥१॥
॥२॥
॥३॥
॥४॥
निर्दोषं गुणकलितं, सद्ब्रह्मालङ्कृतं सुकाव्यमिव । यज्जीवनं, प्रकुर्वे, तन्नेमिगुरोः स्तवनरचनाम् श्रीनन्दनसूरीश्वर-निर्देशाच्छीलचन्द्रनामाऽहम् । विदधे सद्गुरुभक्त्या, ग्रन्थमलङ्कारनेम्यभिधम् ॥
उपमा सद्बोधदीप्तिभासुर ईष्ट योऽज्ञानतिमिरमपहर्तुम् । सूर इव नेमिसूरि-विहरत्वनिशं स शासनाकाशे ।।
अनन्वयः ऐदंयुगीनगच्छा-धिपेषु दुर्द्धर्षतेजसा भाति । श्रीनेमिर्नेमिरिव प्रतापपुञ्जः प्रधानतमः ॥
उपमेयोपमा यस्य प्रौढप्रताप-श्चकास्ति मार्तण्डताप इव चण्डः । तापोऽर्कस्य च स इवा-ऽसौ जयतान्नेमिसूरिवरः
प्रतीपम् - १ त्वत्प्रवचननिर्घोषै-स्तुल्यं गर्जन्त्यरण्यके हरयः । त्वामुपमिन्वन्ति मुधा, विबुधा हरिणा दयालुहृदय ! गुरो !
प्रतीपम् - २ रे जलद ! माऽवलेपं, कुरु निजगर्जारवस्य प्रखरत्वे । यत् तदुपममिह नेमिः, सूरिर्गर्जति हि देशनासमये
प्रतीपम् - ३ चेन्नेमिसूरिवदनं, दृष्टं तद्वाक् श्रुता च भवविपिने । हरिदर्शन-तद्गर्जा-कर्णनमस्त्यर्थहीनमिह
॥५॥
॥६॥
|७||
॥८॥
Page #28
--------------------------------------------------------------------------
________________
॥१०॥
॥११॥
॥१२॥
॥१३॥
रूपकम् - १ साक्षादसौ विभाति, जगद्गुरुहीरविजयसूरिवरः । भूपप्रतिबोद्धाऽभय-दाता तपगच्छनेता च
रूपकम् - २ अभिषेकं दिग्विजयं रिपुभङ्ग सङ्गरं विनैवाऽसौ । जिनशासनसाम्राज्ये "सम्राड"भवद् गुरुर्नेमिः
रूपकम् - ३ विबुधानामिव मनुजा-नामपि पूज्यः शतक्रतु¥त्नः । नन्दतु नेमिगुरुरयं, लोकं श्रुतचक्षुषाऽऽकलयन्
रूपकम् - ४ युगप्रधाना यदि नो, दृष्टा विषमारके ननु ततः किम् ? । जङ्गमयुगप्रधानो, नेमिगुरुयंत इहैवाऽऽस्ते
रूपकम् - ५ नेमिनूतनसूर्यो-ऽस्त्यस्ताचलरोहणेन रहितोऽयम् । उष्णरुचेरतिरिच्यत एषोऽकर्कशकरो नु नेम्यर्कः
परिणामः अभयं नेमिव्याघ्रो, दत्ते षट्कायमृगचयाय तथा । रक्षति तं हिंस्रगणा-दहो ! महच्चरितमतिचित्रम्
उल्लेखः सङ्घर्युगप्रधानः, शिष्यैः कल्पद्रुमश्च भूपालैः। यो गुरुरमन्यत निजः, स नेमिसूरिर्ददातु शिवम्
उल्लेखः - २ तापापगमे सोमो विबुधानां सदसि यो गुरुर्वाग्मी। चक्री सूरिसमाजे, स राजतां नेमिगुरुराजः
॥१४॥
॥१५॥
॥१६॥
॥१७॥
Page #29
--------------------------------------------------------------------------
________________
॥१९॥
स्मृतिः गुरवः कुमारराजः स्मर्यन्ते हेमचन्द्रसूरीन्द्राः। भूपान् समुपदिशन्तं, यं दृष्ट्वाऽयं जयतु गुरुराट्
॥१८॥ भ्रान्तिः सत्त्वं पवित्रतामपि, यस्य विलोक्यैव दैवतं मनुजाः । मन्यन्ते यं मुनिपं, तं वन्दे नेमिसूरिवरम्
सन्देहः नेमिगुरोरतिप्रतिभा-दीप्ति संवीक्ष्य मामकीनमतिः । सूर्योऽयं सिंहो वा?, निर्णेतुं नेति शक्तिमती
॥२०॥ अपहृतिः नेमिर्जगद्गुरुतया, ख्यातो जगतीह यद्यपि परन्तु । नैष जगद्गुरुरपि तु, स्वयं नृदेहे जगच्चक्षुः
॥२१॥ - हेत्वपह्वतिः किमयं शिखरी? नहि स हि कठिनः, किमु केसरी? नहि स हिंस्रः । जीवदयाकुलकोमल-चेतःकलितोऽस्त्यसौ स्वगुरुः
॥२२॥ पर्यस्तापह्नुतिः न शिलोच्चयो हि शैलः, शैलस्तु सुशीलनेमिसूरिरयम् । प्राणात्ययेऽप्यविचल-व्रती तथाऽतीव धीरमतिः
॥२३॥ भ्रान्तापह्नुतिः विह्वलयति मां भीतिः, किं दुष्कृत्यस्य ? नैव, नेमिगुरोः । इत्येवं जिनशासन-रिपवोऽन्योऽन्यं वदन्त्यधुना
छेकापहृतिः नेमिगुरोरसहसहो-ऽनुभूय गलितं सखे ! मदीयेन । किमहङ्कारेण खलु ? नहि नह्यज्ञानतिमिरेण
॥२५॥
॥२४॥
Page #30
--------------------------------------------------------------------------
________________
॥२६॥
॥२७॥
॥२८॥
॥२९॥
कैतवापह्नुतिः जिनवचनोपवनान्त-विकसितसुरभितसुचरितपुष्पाणि । नेमिगुरोर्वचनमिषाद् वर्षन्ति श्रोतृकर्णेषु
उत्प्रेक्षा सद्गुणसमुद्रमथनं कृत्वाऽऽप्य कृपामृतं प्रपीय च तत् । नेमिरभूद् भूमितले शङ्केऽभिनवः सुधांशुरसौ
उत्प्रेक्षा - २ श्रीनेमेरकलङ्क प्रकाशधर्मत्वमनुपमं वीक्ष्य । तदवाप्तुमिव तपस्यति शशाङ्क आकाशमण्डपेऽद्यापि
रूपकातिशयोक्तिः यत्स्पर्शन-दर्शनतः स्मरणादपि पापकर्दमः शुष्येत् । शुद्धयेच्चित्तं च नृणां, तज्जङ्गमतीर्थमभिवन्दे
सापह्नवातिशयोक्तिः गुरुदेव ! तावकीने पीनेऽदीने ह्यगाधहद्देशे । प्रतिष्ठितं गाम्भीर्य, मूढास्तु तदर्णवेऽनुमिन्वन्ति
भेदकातिशयोक्तिः लोकोत्तरः प्रतापो-ऽनुपमेया ब्रह्मचर्यनिष्ठा च । भवभीरुताऽप्यनन्या, सर्वमसामान्यमस्य गुरोः
सम्बन्धातिशयोक्तिः यद्ब्रह्मचर्यदीप्त्या विश्वं देदीप्यते ज्वलज्ज्योतिः । तं प्रणिपतामि नेमि मुनिमण्डलमौलिमुकुटसमम्
असम्बन्धातिशयोक्तिः नेमिगुरो ! तव कीर्ति-दिशि दिशि पर्यटति तेन तद्गानम् । नैव करोमि, न वयं स्वैरत्वं यत् कदाचिदपि
॥३०॥
॥३१॥
॥३२॥
॥३३॥
१७
Page #31
--------------------------------------------------------------------------
________________
॥३४॥
||३५||
॥३६॥
॥३७॥
अक्रमातिशयोक्तिः वर्धन्त एव सार्धं सुकृतानि यशांसि नेमिसूरिणाम् । विफलीकृतकुकृतानि झङ्कृतजनचेतनानि तथा
चपलातिशयोक्तिः विपदां हरणं प्रहरण-मपि दोषाणां स्वपुण्यशोषाणाम् । नेमिगुरूणां शरणं स्वीकर्ता तत्क्षणं विगतपापः
___ अत्यन्तातिशयोक्तिः प्रथमं गच्छति कीर्ति-स्ततः प्रतापस्ततः स्वयं सूरिः । क्षेत्रे विहारविषये, क्रमः समस्तीह सूरीणाम्
तुल्ययोगिता वचनानि नेमिमुखतः पापध्वान्तान्यथो जनस्वान्तात् । निर्गच्छन्ति हि महता-मनुभावो वर्णनातीतः
तुल्ययोगिता - २ श्रीनेमिसूरियशसो दृष्ट्वोज्ज्वलिमानमद्य मे हृदये। कर्पूरफेनपूरा-ऽकूपारजलादि भाति धूसरितम्
तुल्ययोगिता - ३ रागी वा द्वेषी वा, स्यात् कोऽपि तथापि सोऽस्य नोऽस्वीयः । वन्दक-निन्दकयोरपि, समः स मम गुरुवरो नेमिः
तुल्ययोगिता - ४ कश्मीरजं मलयजं कस्तूरीत्यादि सकलमपि सुखदम् । श्रीनेमिसूरिराजा-मनुपमगुणकदम्बके चापि
दीपकम् शारदचन्द्रज्योत्स्ना प्रसरत्यम्बरतलेऽर्पयति शैत्यम् । श्रीनेमिसूरिराजां क्षितिमण्डलमण्डपे तथा स्फातिः
॥३८॥
॥३९॥
॥४०॥
॥४१॥
Page #32
--------------------------------------------------------------------------
________________
॥४२॥
॥४३॥
॥४४॥
॥४५॥
आवृत्तिदीपकम् हरति मनांसि जनाना-मुत्कृष्टा चरणपद्धतिर्यस्य । हरति च यो मारजये, जयेत्स सूरीश्वरो जगत्पूज्यः
__ आवृत्तिदीपकम् - २ शान्ति यान्ति मुनिजना व्रजन्ति निश्चिन्ततां सकलसङ्घाः । श्रीनेमिसूरिराजे नेतृत्वं कुर्वतीह सङ्घस्य
आवृत्तिदीपकम् - ३ रञ्जयतु नेमिसूरे-र्गुणगानं मानसं गुणिजनानाम् । रञ्जयतु च तच्चरितं निरतीचारं दयासारम्
प्रतिवस्तूपमा अष्टाङ्गो योगो यदि प्रसाध्यते तर्हि यच्छति स सिद्धिम् । शिष्याष्टककलितोऽयं प्रसेव्यते यदि, ददाति धर्मं तत् ।
दृष्टान्तः जिनशासनाधिपत्यं कर्तुं श्रीनेमिसूरिरेवाऽलम् । सकलकुवलयोल्लासं विधुरेव विभातुमिह शक्तः
निदर्शना यन्नेमिसूरिभगव-च्छासनपरिपालनं विनेयकृतम् । तद् बालस्याऽऽश्रवणं स्वमातुरुत्सङ्गकेऽभयदम्
निदर्शना - २ गुरुदेव ! मत्कं भव्यं मुखमण्डलं बिभर्तीह । वनराजवदनशोभा विलक्षणं ही सतां सकलम्
निदर्शना - ३ यः स्पर्धेत बलवता स पतेदिति बोधयन्त एतेऽद्य । सङ्घद्वेषिमनुष्याः पतन्ति गुरुनेमिपादयुगे
॥४६॥
॥४७॥
॥४८॥
॥४९॥
Page #33
--------------------------------------------------------------------------
________________
॥५०॥
॥५१॥
॥५२॥
॥५३॥
निदर्शना - ४ उपशमयति सन्तापं शरणगतानामसौ गुरुर्नेमिः । महदाश्रयः सदैव हि योगक्षेमद इति प्रथयन्
व्यतिरेकः जयतु स नेमिगुरुवरो बोधतटीप्रकटनोऽप्रकम्प्रश्च । प्रतिभोत्तुङ्गो नग इव किन्तु लसच्चेतनाकलितः
सहोक्तिः आवृण्वन्ति समग्रं भारतवर्षं यदीयसुकृतानि । निर्मलयशसा साकं स नेमिसूरिः श्रियेऽस्माकम्
विनोक्तिः नेमिगुरूणां गुरुगुण-वर्णनमाणितं न येनेह। तस्य कृतार्थमपि जनु-र्न चमत्कुरुते मदीयमनः
विनोक्तिः - २ यदपि गुरुवर! भवतां स्वान्तं गुणकान्तमथ प्रकृतिशान्तम् । तदपि विना सङ्क्लेशं तद् राजति कान्तशान्ततरम्
समासोक्तिः "अरुणोऽयं परिकुप्यति तमसे, प्रतिबोधयति च कमलानि ।" कल्पन्ते नेमिगुरोः शिष्या इति वीक्ष्य गुरुचरितम्
परिकरः तीर्थानां जीर्णानां हृदयानामपि च पापशीर्णानाम् । उद्धारकः स नेमिः स्मरतापादुद्धरत्वथ माम्
परिकराङ्कुरः अनुशास्ति जैनाशासन-साम्राज्यं चाऽधिपत्यमपि कुरुते । श्रीसङ्घस्याऽप्रतिमं "शासनसम्राट" सदा जयतात्
॥५४||
॥५५॥
॥५६॥
॥५७||
२०
Page #34
--------------------------------------------------------------------------
________________
-
-
॥५८॥
॥५९।।
॥६०॥
॥६
॥
श्लेषः हरति मनोभवभेदी सभाजनं सद्गुणव्रजस्याऽर्हन् । सहितश्चित्तविशुद्ध्या बोधिं विदधातु गुरुनेमिः
श्लेषः - २ यः सन्मानसहंसो हंसोऽपि च भव्यपुष्करे भवति । स शिवोभयदो भवतु सदायतिर्नेमिसूरीशः
अप्रस्तुतप्रशंसा गुरुदेवाऽऽदाय तव प्रदीप्ततेजःकणानिमे किरणाः । उष्णा अर्यम्णः खलु सञ्जाता एवमाभाति
अप्रस्तुतप्रशंसा - २ तेजोऽस्य चेदसह्यं पूष्णो दर्पण किं तदा, ऽयं चेत् । अभिलषितार्थप्रदस्तद् वृक्षत्वं भवतु कल्पतरोः
प्रस्तुताङ्कुरः रे रे चकोर-चेतः, पूर्णेन्दुश्चेल्लसत्यसौ सुगुरुः। हन्ताऽष्टमीन्दावगुरौ गाढासक्तिस्तवेयं का?
प्रस्तुताङ्कुरः - २ भो भाविका ! भवद्भि-मिथ्यात्वाक्रान्तचेतसो गुरवः । सेव्यन्ते कथमिव? यदि नेमिरसौ विद्यते सुगुरुः
पर्यायोक्तम् जीर्णं प्रलं तीर्थं कदम्बगिरिनामकं समुद्धृतवान् । यस्तं प्रणौमि भक्त्या, शरणीकृततच्चरणयुगलः
व्याजस्तुतिः तेजस्विताऽत्रभवतां केयं गुरुराज ! यद् विरोधिजनाः । दृश्यन्ते समदृष्ट्या क्रियते तेषु च दयावृष्टिः
॥६२।।
॥६३॥
॥६४।।
॥६५॥
Page #35
--------------------------------------------------------------------------
________________
-
॥६६॥
॥६७॥
॥६८॥
॥६९॥
व्याजस्तुतिः - २ गायसि गुणां, श्च प्रथयसि सच्चरितं, रटसि नाम नेमिगुरोः । जिह्वे ! कुत इदमाप्तं भाग्यं? वद मामदृष्टगुरुम्
व्याजनिन्दा नेमगुिरो ! क्रूरोऽयं कर्मनृपो यत्त्वदीयपत्कजयोः । सेवां नैवाऽदान्मां त्वस्वर्गाप्तेरनु धृताङ्गम्
आक्षेपः बन्धो ! सिन्धोस्तीरे-ऽन्वेष्टुं रत्नानि चल वयं यामः । अथवाऽलं तेन यतो गुणरत्नाब्धिः समस्त्ययं नेमिः
। आक्षेपः - २ नेमिर्नहि धर्मगुरुः किन्त्वास्ते ब्रह्मतेजसः प्रतिमा। ननु नैष प्रतिमाऽपि तु सत्त्वगुणस्तत्त्वतो जीवन्
आक्षेपः -३ कुरु कुरु दुर्जन ! गहीँ गुणार्हगुरुनेमिसूरिणो नितराम् । सन्तस्त्वत्तो बिभ्यतु त्यजन्तु मैत्री च तव कामम्
विरोधाभासः गुरुरप्यगुरुः क्लेशैः समोऽपि यो राजतेऽसमो बुद्ध्या । अममोऽपि च यः, स मम, प्रगुरुप्रगुरुप्रगुरुरवतात्
विभावना सैन्यं न मन्त्रिणो नहि नहि कोशो नाऽपि शस्त्रमस्त्रं वा । तदपि पराजितमदनः सूरिषु राजा जयत्येषः
विभावना - २ नाशितवाननतिरुषा रोषादीन् षड् रिपून् शमीशो यः । मान्योऽसामान्यगुणो धन्योऽनन्यः स मे गुरुर्जयतात्
।।७०।।
॥७९॥
॥७२॥
॥७३॥
Page #36
--------------------------------------------------------------------------
________________
|७४||
॥७५॥
॥७६॥
॥७७॥
विभावना - ३ पल्लवयति पाषाणान् यद्वागमृतं तिरस्कृतवदनृतम् मङ्गलवचनाऽकिञ्चन-मुख्यः सौख्याय स गुरुः स्तात्
विभावना - ४ गुरुवचनश्रवणादनु-भूयत इह शर्करारसो मधुरः । श्रीनेमिवदनचन्द्रात् तिग्मा दीप्तिः समुद्भवति, चित्रम् !
विभावना -५ युष्मत्कृतेन तीर्थो-द्धरणेनाऽकारि युष्मदुद्धारः । चित्रं महतामर्थस्तैरेव कृतात् सरति कार्यात्
विभावना -६ दृष्टा नदी गिरिभवा क्वचनापि गिरिनदीभवो नाऽऽप्तः । किन्त्वद्य नेमिगुरुवाग-नद्याः पुण्याद्रिरुद्गतश्चित्रम्
विशेषोक्तिः सत्यपि बाहुल्ये खलु प्रत्यूहानां विरोधिनां चैव। नाऽऽपि विफलता स्वीये सत्कर्मणि येन, गुरुरसौ जयतात्
असम्भवः तीर्थसमूहं प्रत्नं पुनरुद्धर्ता स्वकीयप्राणपणैः । जङ्गमतीर्थसमोऽभूद्, गुरुरिति केनैष्यतीह विश्वास्यम् ?
असङ्गतिः त्वद्वाक्सुधाभिषेको जातो मच्छोत्रयोः प्रभो ! किन्तु । दुर्गुणविषप्रभावा-न्मुक्तं मच्चेतसा तु, चित्रमिदम्
असङ्गतिः - २ स्वीयमनोभुवि कर्तुं, ज्ञानालोकं त्वया प्रवृत्तेन । विहितः स एव शिष्य-स्वान्तेष्वद्भुतमदो गुरो ! भवतः
॥७८॥
॥७९॥
॥८
॥
॥८
॥
२३
Page #37
--------------------------------------------------------------------------
________________
असङ्गतिः - ३
गुरुवर ! भवदीयं खलु निखिलं लोकोत्तरं कथं वर्ण्यम् ? | तीर्थोन्नतिप्रवृत्तः कृतवान् स्वात्मोन्नतिं हि भवान् विषमम्
शासनसम्राजां क्वा -ऽतुलनिर्मलबुद्धिबलविलासः सः? । क्वाऽप्युत्सूत्रनिरूपण - दक्षा विद्वेषिणो वराकास्ते ? विषमम् - २
गुरुवर ! तवाऽनुशिष्टिः कठिन- कठोराऽपि शिष्यहृदयेषु । सद्भावसौकुमार्यं जनयत्येतत् परं विरलम्
विषमम् ३
" मुनिरेष, नैव हिंस्यात् कमपी" ति विभाव्य दुर्गुणौघस्त्वाम् उत्कः श्रयितुं गुरुवर!, त्वया तु निर्मूलनं कृतं तस्य
समम् हृदयमतीव सुकोमल-मथ तत्र कृपाऽपि राजते परमा । अनुरूप एव गुरुवर ! संयोगस्त्वयि हृदय - - दययोः समम् - २
गुरुवर ! सागरतीरे मधुपुर्यामाप्तजन्मनो भवतः । युक्ता गभीरमा किल धिक्कृततुच्छत्वमहिमेयम् समम् - ३ भवभीतिविशरणार्थ- मितस्ततो भ्राम्यता मयाऽकस्मात् । प्राप्तं विशिष्टशरणं नेमिगुरूणां भवापहरम् । विचित्रम्
श्रीजिनवचने भगवति, करोति रतिमाप्तुमेव भवविरतिम् । योऽसौ नेमियतिपति-दुर्गतिप्रतिबन्धको जयति
२४
॥८२॥
॥८३॥
॥८४॥
॥८५॥
॥८६॥
112011
॥८८॥
॥८९॥
Page #38
--------------------------------------------------------------------------
________________
॥९०||
॥९
॥
॥९२॥
॥९३॥
अधिकम् गुरुवर! भवतो हृदये-ऽनुपमेयाऽमेयसद्गुणा मान्ति । किन्तु न मान्तीव कृपा, व्याप्ता विश्वेऽत्र विश्वस्मिन्
अधिकम् - २ परकीयगुणाणुरपि युष्मच्चित्ते शिलोच्चयीभवति । श्रीनेमिसूरिगुरुवर ! चरितं तव चारुताभरितम्
अल्पम् दोषकणोऽपि परेषां, सूक्ष्मायामपि न युष्मदीयायाम् । दृष्टावलं प्रवेष्टुं, गुरुवर ! महतो महीयोऽदः
अन्योऽन्यम् नेमिगुरोः शिष्यचयो, गुरुभक्त्या प्रीणयति यथा स्वगुरुम् । वात्सल्यवर्षणेना-ऽऽनन्दयति तथैव सोऽपि शिष्यगणम्
विशेषः त्वदभावेऽपि त्वत्कृत-सुकृतानां तीर्थरक्षणादीनाम् । प्रह्वीकरोति गाथा गुरुवर ! सहृदयहृदयानि भव्यानाम्
विशेषः - २ तीर्थे तीर्थे गुरुवर ! परोक्षरूपेण दृश्यते हि भवान् । रक्षोद्धारविकासा-दिककारी भूरितीर्थानाम्
विशेषः - ३ नेमिगुरूणां चरणा-वुपासमानेन शिष्यवृन्देन । ईप्सितप्राप्त्या क्लृप्तं "कल्पद्रुरुपासितोऽस्माभिः"
व्याघातः ये विषया आनन्दं ददतेऽखिललोकमानसाय सदा । तानेव “दुःखदास्ते" कृत्वेति त्यक्तवान् भवांश्चित्रम्
॥९४॥
॥९५॥
॥९६॥
॥९७||
Page #39
--------------------------------------------------------------------------
________________
कारणमाला
सत्सङ्गेन सुमार्गा-नुसरणमथ तेन पुण्ययोगः स्यात् । पुण्येन नेमिगुरुपदसेवाऽथ तयाऽभिलषितसम्प्राप्तिः ॥
एकावलिः निःस्पृहता निर्देन्या, दैन्याभावोऽतितेजसा ज्वलितः । तेजः शमरसरसितं, यस्मिन् विलसन्ति तं स्तुवे नेमिम् मालादीपकम्
मनसि मनसिजाद् भीति-र्मनो हि तन्नाशिगुरुपदे रमते । नेमिगुरो ! भयरहितं मनोरमं देहि परमसुखम्
सार:
अस्त्युन्नतो हिमाद्रि-स्ततोऽपि जलदस्ततोऽपि नेमिगुरोः । प्रतिभाभरः शमसुधां वर्षन् भुवनेऽत्र भव्यतरः
यथासङ्ख्यम्
कुगुणान् गुणान् गुणज्ञान् शोषयति च पोषयति च तोषयति । यतिततिपतिरतिकुमति-नैमिगुरुर्यः श्रिये सोऽस्तु पर्याय:
प्रथमं हेमाचार्यं तदनु श्रीहीरविजयसूरीन्द्रम् । प्रवचनप्रभावकश्रीः श्रिता ततो नेमिसूरीशम् पर्यायः - २
प्रथमं सूरिप्रवरः, शासनसम्राट् ततोऽभवत् पुण्यैः । तदनु च जगद्गुरुतया, प्राप्तः ख्यातिं गुरुर्नेमिः परिवृत्ति:
दत्वा जलाञ्जलिं किल ममतायै, साम्यसागरो येन ॥ सम्प्राप्तः, स्याद् भूत्यै विभूतिमान्नेमिसूरिः सः
२६
॥९८।।
॥९९॥
॥१००॥
॥१०१॥
॥१०२॥
॥१०३॥
॥१०४॥
॥१०५॥
Page #40
--------------------------------------------------------------------------
________________
॥१०६॥
॥१०७||
॥१०८॥
॥१०९।।
परिसङ्ख्या गच्छति दाहकभावं दिनकरतापो न तु प्रतापस्ते । गुरुवर ! यथा यथा किल, वृद्धिं लभते तथा तथैवाऽयम्
विकल्पः अयि दुःखतप्त चेतन ! संक्लिश्यसि किं भयेन ममतायाः ? दुःखहरं नेमिगुरोः कुरुष्व शरणं स्मरणमथवा
विकल्पः - २ भवतु मदीये चित्ते संक्लेशो मोहसम्भवः सभवः । अथवा नेमिगुरोर्भाव-संक्लेशहरं चरणशरणम्
समुच्चयः यस्योपरि ते गुरुवर ! निपतति दृष्टिः कृपाम्बुवृष्टिमयी । तुष्यति तृप्यति पुष्यति भवति स्वच्छं च तस्य मनः
समुच्चयः - २ तीर्थोद्धारे प्रीति-भवभीतिश्चाऽहितेऽनुकम्पैव । प्रवचनरागः प्रबलो, विशदयति महात्मतां गुरो ! भवतः
कारकदीपकम् त्वन्नामश्रवणादपि पापासक्ता जना गुरुवरेण्य ! क्षुभ्यन्ति बिभ्यति तत-स्त्यजन्ति निजदूषिताचारम्
समाधिः प्राणान्तेप्युद्धार्यं “कापरडा"-तीर्थमिति विनिश्चितवान् । गुरुवर ! भवांस्तदैव च, मरणभयमपगतं भवन्मनसः
प्रत्यनीकम् वसुधातले विहरता सुधांशुरक्षीणतागुणेनैव । गुरुवर ! भवताऽपास्त-स्तत इव गगनेऽयमारूढः
॥११०||
॥१११।।
॥११२॥
॥११३॥
२७
Page #41
--------------------------------------------------------------------------
________________
अर्थापत्तिः
भवताऽऽन्तररिपुवृन्दं निर्जितमूर्जितनिजात्मवीर्येण । अथ शासनमत्सरिणां गुरुवर ! कतरत्तु सामर्थ्यम् ! काव्यलिङ्गम्
रे रे मनोभव ! पराभव मनो मा ममाऽतिनिर्मम रे ! । निकटेऽस्ति तव विनाशो, नेमिगुरोः स्वीकृतं मया शरणम् अर्थान्तरन्यासः
श्रीनेमिसूरिराजैः समर्पितं जीवनं निजं निखिलम् । जिनशासनसेवायां, सत्कर्मार्थं जनुः सतां भवति विकस्वरम्
श्री मिसूरिगुरुभिः क्लेशाः शमिता अनेकसङ्घानाम् । शान्तिप्रिया हि ऋषयो ब्रह्मर्षिवसिष्ठवन्नियतम् प्रौढोक्तिः
श्रीहीर-सेन-देवा-चार्याणां चैव विजयसिंहानाम् । समता-प्रताप-पुण्या-ऽऽराधनकणनिर्मितो नेमिः
सम्भावना
गुरुवर! भवदुपमानं चेत् सृष्टौ विश्वसृट् सृजेन्नूत्नम् । सकलविलक्षणतेजा-स्तर्द्युपमेयो भवेत्तु भवान्
मिथ्याध्यवसितिः
दिनकरकरनिकरं यो गणयेन्निपुणो गुणी करग्राहम् । सुकरं तस्य प्रयातुं नेमिगुरोर्गुणतरङ्गिणीतीरम्
ललितम् शारदशशाङ्कमण्डल- माच्छादियतुं निजैः करतलैस्ते । अश्रान्तं प्रयतन्ते नेमिगुरो ! त्वद्विरोधिजनाः
२८
॥११४॥
॥११५॥
॥ ११६ ॥
॥११७॥
॥११८॥
॥११९॥
॥१२०॥
॥१२१॥
Page #42
--------------------------------------------------------------------------
________________
त्वच्चरितकीर्तनं मे चिरकालाद् वाञ्छितं गुरुप्रवर ! | अद्याऽकस्मादाप्तं बन्दित्वं तव गुणेषु, धन्योऽहम् प्रहर्षणम् - २
गुरुवर! भवाब्धितरणं जिनशासननौकया त्वयेष्टं प्राक् । चित्रं नौकाधिपति - स्त्वमेव सङ्खेन विहितः स्राक् ! प्रहर्षणम् - ३
“रक्षार्थं कादम्बा-ऽचलस्य राजन्यकानुपदिशामि " । इति तत्र त्वं यात- स्तीर्थं तैस्तूपदीकृतं तुभ्यम् विषादनम्
"अधुनैव युक्तिवचनैः सूरिं तं निरुत्तरीकरिष्यामः इति सामर्षागतपर-तीर्थिमुखं ननु बबन्ध मुद्रा ते
उल्लासः नेमेर्हृदयप्रपायां विलसद् विमलं कृपाजलं सम्यक् । प्रक्षालयतु मम मलं, गालयतु ज्ञानतृषमथ च
उल्लासः
-
??
गुरुवर ! भवतोऽलङ्घ्यं शासनमुल्लङ्घयन्ति हतदैवाः । तत्कटुकफलानुभवना-वसरे कुप्यन्ति ननु विधये
उल्लासः
३
“स्वीयोऽयं परकीयो-ऽयं " चेति द्वैतमुक्तचैतन्ये । त्वय्यपि च पक्षपातं, कल्पन्ते येऽज्ञता हि सा तेषाम् उल्लासः - ४
इष्टापत्तिरियं खलु खला न खेलन्ति यत्तव गुणेषु । भेदः सत्खलयोर्ननु कर्तुं लोको भवेदतः शक्तः
-
1
२९
॥१२२॥
॥१२३॥
॥ १२४॥
॥१२५॥
॥१२६॥
॥१२७॥
॥१२८॥
॥१२९॥
Page #43
--------------------------------------------------------------------------
________________
॥१३०||
॥१३॥
॥१३२॥
अवज्ञा गुरुवर ! गुणरत्नानां रोहणपर्वतसमानमाप्य त्वाम् । मयका द्वित्रगुणा अपि नाऽवाप्ता, मन्दभाग्योऽहम्
अवज्ञा - २ चित्तविशोधकमपि हित-बोधं श्रीनेमिसूरिराजस्य । यदि गृह्णाति न कश्चन, का हानिरतो गुरोरस्य ?
अनुज्ञा आशासे बधिरत्वं, धीरोत्तम ! गुरुवरेण्य ! येनाऽहम् । खलविहितत्वद्गर्हा-श्रवणाऽनों भवेयं वै
लेशः यद्यपि भवत्यधैर्यं न गुणो, गुरुवर ! तथापि युष्माकम् । अद्भुतचरितं श्रोतुं मय्युत्के स गुण इव भाति
लेशः - २ कीर्तिर्गता भवन्तं त्यक्त्वा गुरुगुणगणोरु ! गुरुवर्य ! । भवतोपार्जितमनसिजविजयस्य समस्ति फलमेतत्
मुद्रा भङ्क्तुं ददाति न रथं यद्बलतश्चलति चपलमेव रथः । आनन्दयतु श्रीजिन-शासनरथचक्रनेमिरसौ
रत्नावली मिथ्यात्वध्वान्तार्कः प्रथितकविर्दोषचन्द्रमोराहुः । मङ्गलरूपश्च बुधो भव्याब्जाब्जः स जयतु गुरुः
॥१३३।।
लश.
.
॥१३४॥
॥१३५।।
॥१३६॥
तद्गुणः
अष्टाभिः सुविशिष्टैः शिष्टैः शिष्यैरलङ्कृतं सुगुरुम् अष्टदलकमलबुद्ध्या शिरसि बुधा धारयन्ति मुदा
॥१३७॥
३०
Page #44
--------------------------------------------------------------------------
________________
॥१३८॥
॥१३९।।
R
॥१४०॥
॥१४॥
पूर्वरूपम् देहावृतमपि रूपं निजात्मनो बोधदीपकेन भवान् । भिन्न प्रतीतवानिति नेमिगुरो ! हारि तव सर्वम्
पूर्वरूपम् - २ अस्तमितेषु समेषु युगप्रधानोपमेषु पूज्येषु । अपि नेमिसूरिदीपो द्योतितवान् शासनद्यां सः
अतद्गुणः जिनशासनानुरागो यद्यपि भरितस्तवाऽस्थिमज्जासु । नश्वरता च कुगन्ध-स्तथापि न प्रापि तेन, चित्रमिदम्
अनुगुणः निसर्गतोऽसि नृरत्नं तत्र च गुरुवृद्धिचन्द्रमणिकारैः । मलमपहृत्य विनिहितं तेजोऽपूर्वं ततोऽवशिष्टं किम् ? ।।
मीलितम् उज्ज्वलतेजःपुञ्ज-श्लिष्टं भवतां यशोंऽशुराशिमिह । कोऽपि विवेक्तुं नाऽलं, गुरुवर ! कः पुण्यपुञ्जोऽयम् !
सामान्यम् श्रीनेमिसूरिचरणा-म्भोजरजःकान्तपुण्यभूमितले । अवकीर्णोऽपि न गम्य-स्तदीयपुण्याणुसंघातः
उन्मीलितम् प्रसरत्यपि दशदिक्षु सूर्यकरैः सह भवद्यशःप्रकरः । उष्णाऽनुष्णत्वाभ्यां बोधन्ति बुधास्तयोर्भेदम्
विशेषकः गुरुदेवनेमिसूरे-रुपदेशदिवाकरे प्रसृमरेऽत्र । सत्कर्माऽसत्कर्मसु विसदृशता लक्षिता लोकैः
॥१४२॥
॥१४३॥
॥१४४||
॥१४५॥
Page #45
--------------------------------------------------------------------------
________________
-
॥१४६॥
॥१४७॥
॥१४८॥
॥१४९॥
उत्तरम् को विबुधो विबुधानां? दुष्कर्माऽऽसेवको भवेत् कीदृग् ? । कोऽस्माकं तीर्थानां चोद्धर्ता भवति ? गुरुरेव
सूक्ष्मम् घनगर्जनानुकारि-त्वत्प्रवचनघोषणां समाकर्ण्य ।। उत्सूत्रभाषिभिः किल वेतसयष्टिः प्रदशिताऽन्योन्यम्
पिहितम् दुर्वादिदर्पमर्दन-निपुणं गुरुवर ! भवन्तमभिवीक्ष्य । वस्त्रैर्दुण्ढकलिङ्गः-स्वकीयवदनानि पिहितानि
व्याजोक्तिः "भयविह्वला नहि वयं किन्त्वस्ति त्वरितमद्य कार्यवशात् ।" इति जल्पन्तो गुरुवर ! मत्सरिणस्तव पलायन्ते
गूढोक्तिः मत्तमतङ्गज ! मत्तो न बिभेष्यन्तःपुरं च भेदयसि । किन्त्वधुना त्वयि रुद्रो वर्तत इह गुरुरिति त्वया ध्येयम्
विवृतोक्तिः व्रज भो मत्तमतङ्गज ! त्यज विपिनं मेऽद्य नेमिशरणस्य । इति साकूतं गदितं नेमिगुरोः सेवकेन नृणा
युक्तिः शासननिन्दकलोका वीक्ष्य भवन्तं भयात् स्वयं चैव। "वयमभिनन्दामो" गुरु-देवैवं कलकलायन्ते
लोकोक्तिः वर्णननिरपेक्षं तव गुणगौरवमस्ति विश्वविख्यातम् । आदर्शदर्शनं नह्यपेक्षते हस्तकङ्कणकम्
॥१५॥
॥१५॥
॥१५२॥
॥१५३॥
३२
Page #46
--------------------------------------------------------------------------
________________
-
॥१५४॥
॥१५५॥
॥१५६॥
॥१५७॥
छेकोक्तिः गुरुवर ! शिष्योन्नत्यै त्वकृतपुरुषार्थमत्र को वेत्ति ? | सर्वंसहैव वेत्ति हि सहिष्णुतां वस्तुतो नान्यः
वक्रोक्तिः "माऽन्यं स्तुही"ति कथिते 'स्तवीम्यहं मान्यमेव' वक्तीति । जिह्वाऽसामान्यगुण ! प्रभो ! भवन्तं मनसिकृत्य
स्वभावोक्तिः निजमूर्धानं धुन्वन् सोत्तेजितमेव निनिमेषाक्षः । वाणीं शृणोति भवतः सहृदयवर्गः सुगुरुराज !
भाविकम् अद्यापि दृष्टिपटले-ऽवतरति सिंहानुकारिणी भवताम् । भव्याकृतिर्हि भव्यान् भव्यं ददती प्रभावभृता
उदात्तम् जिनशासनसम्राजां सूरीश्वरचक्रचक्रिणां जनुषा । पवित्रिता सेयं मधु-मतीधरित्रीह पुण्यवती
अत्युक्तिः नेमिगुरौ मार्तण्डे-ऽखण्डप्रतापे प्रचण्डदीप्तौ च । तच्छिष्याष्टकमिन्दु-प्रमुखाष्टग्रहवलयममलम्
निरुक्तिः योगवहनप्रवृत्तिं लुप्तामारब्धवानशक्यं च । मुनिसम्मेलनमकरोस्त्वमेव, सत्यं त्वमसि सम्राट
प्रतिषेधः त्वां कृत्वाऽनङ्गं पुन-रङ्गीकृतवान् यकः स न हरोऽयम् त्वच्चित्त-वचन-वपुषां त्रेधा निर्नाशकोऽस्ति नेमिरयम्
॥१५८।।
॥१५९।।
॥१६०॥
॥१६॥
Page #47
--------------------------------------------------------------------------
________________
विधिः धर्मद्रोहिगुरुभ्यो रक्षेदं शासनं दयालो हे!। त्वं शासनसम्राडस्याक्रान्तो द्रोहिभिधर्मः
॥१६२॥
॥१६३॥
कुगुरूलूकविलोचननिमीलनायैव तिग्मदीप्तिरयम् । नाम्ना नेमिरुदितवान् धार्मिकजनतामनोनभसि
हेतुः - २ विस्फुरणं मम चित्ते यदिदमलङ्कारनेमिरचनायाः । तन्नेमिसूरिभगवत्कृपासुधावर्षणं नूनम्
॥१६४॥
शासनसम्राडिति पद-विभूषितो नेमिसूरिगुरुराजः । तपगच्छाधीशोऽभूत् सर्वेषां सूरिणां मान्यः
॥१६५॥ तत्पट्टोदयशिखरि-ण्युदितः श्रीउदयसूरिरिन्दुनिभः । यस्याऽङ्केऽस्तकलङ्के कृपाङ्कितो लालितोऽस्म्यहकम् । ॥१६६॥ तत्पट्टे समदर्शी सबैक्यार्थं सदैव कृतयत्नः । श्रीमन्नन्दनसूरिः सङ्घनाऽऽदेयवचनोऽभूत्
॥१६७॥ पूज्यतमा मम परमो-पकारमध्यापनादिनाऽकार्षुः । ते, तेषां निर्देशा-नुसारमेषा कृती रचिता
॥१६८॥ इत्थमलङ्कारशते-नाऽऽभिष्टुवता मया गुरुं नेमिम् । सृष्टा सुपुण्यसृष्टि-गुरोः कृपावृष्टये भवतात्
॥१६९।। अप्पय्यदीक्षितकृताः कुवलयानन्दकारिका मयका। अनुसृत्याऽयं विहितो विधु-वेद-वियत्-करे(२०४१) शरदि रतिदः ॥१७०॥
॥ इति अलङ्कारनेमिः॥
३४
Page #48
--------------------------------------------------------------------------
________________
मतिर्दीयताम्
-अभिराजराजेन्द्रमिश्रः
॥१॥
॥२॥
॥३॥
||४||
सम्यगालोच्य बन्धो ! निजां पात्रताम् । शास्त्रधर्मोपदेशे मतिर्दीयताम् तैलकाष्ठोपपन्नं समग्रं गृहम् । अग्निवतिः पृथक्कवापि तन्नीयताम् एक एवाऽत्मजस्सोऽप्यहो गौर्गलिः । शर्मणे तस्य मद्यं गृहे हीयताम् कोऽपरो वा सहायः परेषां रणे? आत्मनैवाऽऽत्मशत्रुस्सखे ! जीयताम् रोपितश्चेत्कपित्थस्तदास्मिन् मधौ। स्वादु रम्यं रसालं न सन्धीयताम् वृश्चिकस्यापि मन्त्रं न जानासि चेत् । व्यालवक्त्रेऽङ्गुलिर्जातु नो दीयताम् आर्जवं निष्फलं दृश्यतेऽस्मिन् कलौ । तच्छठे शाठ्यमेवैकमाश्रीयताम् गौरियं गर्भिणी सोऽपि गर्भी वृषः। चित्तमेवं विवादे द्वयोश्चीयताम् वीक्ष्य बन्धो ! समुद्वेगशीर्णम्मनः । गीतिरेषाऽभिराजस्य सङ्गीयताम्
-०
॥५॥
॥६॥
॥७॥
॥८॥
॥९॥
Page #49
--------------------------------------------------------------------------
________________
*
मनो निबोध।
-अभिराजराजेन्द्रमिश्रः
॥१॥
॥२॥
यनिर्मितं गगनचुम्बि महार्घहर्म्य पुञ्जीकृतञ्च सुखसिन्धुविहारतन्त्रम् । सङ्कल्पितं यदपि कर्तुमथो भविष्ये सर्वं जगत्यवशिनष्टि, मनो निबोध रामाऽभिरामतनुयष्टिरनिन्द्यरूपा पुत्रोऽपि चन्द्रवदनो विनताश्च भृत्याः । तुल्योदराश्च विपदोघसहायवन्तः सर्वं जगत्यवशिनष्टि, मनो निबोध न्यकृत्य शम्भुचरितश्रवणं मृडानीपादाब्जसेवनमथाऽपि मुकुन्दभक्तिम् । यत्साधितस्सपदि जागतिकप्रपञ्चः सर्वं जगत्यवशिनष्टि, मनो निबोध प्रक्षालितं तनुमलं खलु कूपनीरै -- र्गाङ्गैर्जलैर्विशदितो न परं चिदात्मा । तीर्थानि हन्त न च दृग्विषयीकृतानि सर्वं जगत्यवशिनष्टि, मनो निबोध संसेविताः खलधियोऽतनुलाभसिद्ध्यै यद् वञ्चिताः सहृदयाश्च परार्थबुद्धया । आत्मा कलङ्कित इहैव पशुप्रवृत्त्या सर्वं जगत्यवशिनष्टि, मनो निबोध
||३||
॥४॥
॥५॥
Page #50
--------------------------------------------------------------------------
________________
SA
॥६॥
॥७॥
लालाटिकाः कुपथसेवनयोजिनस्ते द्राक्षामधूकवचना ननु पीठमर्दाः । त्वामेकलं न परलोकपथे श्रयन्ति सर्वं जगत्यवशिनष्टि, मनो निबोध प्राप्तं मनुष्यजननं ननु यन्निमित्तं तन्मोक्षवम॑ भवता परिपालितं नो। शास्त्रं श्रुतं न च सतामनुसेवितोऽध्वा सर्वं जगत्यवशिनष्टि, मनो निबोध मत्तोऽभवो दुरभिमानसुरां निपीय नीतान्यहानि सततं परपीडनेन । सर्वेश्वरोऽपि यदमूर्तितरां स्वयम्भूः सर्वं जगत्यवशिनष्टि, मनो निबोध येषां कृते विविधदुष्कृतमप्युपोढं लोकाः प्रसह्य नितरामिव विप्रलब्धाः । तेऽपि त्वदीयतनुजा न सहायिनस्ते सर्वं जगत्यवशिनष्टि मनो निबोध रोदित्यहो दिवसमात्रमुपायहीना प्राणप्रिया सहचरी प्रथितानुरागा। यावत् क्षणं च तनुजाः स्वकलत्रबद्धाः सर्वं जगत्यशिनष्टि, मनो निबोध
॥८॥
॥९॥
॥१०॥
३७
Page #51
--------------------------------------------------------------------------
________________
॥११॥
॥१२॥
नेयं गता वसुमती सह कैरपि प्राङ् नो वा गमिष्यति पुनर्ननु सत्यमेतत् । सद्धर्म एव तव वर्त्मनि मित्रमेकं सर्वं जगत्यवशिनष्टि, मनो निबोध जानन्ति केचिदिह शैशव एव सत्यं प्राग्जन्मजन्यसुकृतेन तपोबलेन । अन्ये भ्रमन्ति नितरां न विदन्ति किञ्चित्सर्वं जगत्यवशिनष्टि मनो निबोध उच्चैर्गतेषु पतनान्मरणं न वार्य लोकापवादभयमस्ति गतेषु नीचैः । यात्रां ततश्शमय मध्यमवर्त्मनैव सर्वं जगत्यवशिनष्टि मनो निबोध । त्यागे रतिं कुरु विरक्तिमथाऽप्यवाप्तौ ताटस्थ्यमेव विशदीकुरु वैभवेषु । आत्मस्थिति जगति सावयपुष्पकल्पां सर्वं जगत्यवशिनष्टि मनो निबोध येनोपदिश्यत इहाऽऽत्मगृहीतसत्यं तज्जीवनं कमलपत्रमिवाम्भसित्वम् जानीहि भद्र ! सकृदेष ततो भणामि सर्वं जगत्यवशिनष्टि मनो निबोध
॥१३॥
॥१४॥
॥१५॥
-०
*
Page #52
--------------------------------------------------------------------------
________________
लोक कापुरुषः स कथ्यते
डो.आचार्य राम किशोर मिश्रः सोरोंशूकरक्षेत्रवास्तव्यः १४/३७७, पट्टीरामपुरम्,
खेकडा-२०११०१(बागपत) उ.प्र. पाषाणहृदयमानवहृदयं यदाऽपातयद्भुवि दृग्बिन्दून्, भूचालोऽभवदस्यां भूमौ यो विचलितवांस्तदा तु हिन्दून् । अनाचारसहनं तु कदाचिज्जनमनसा सततं न रुच्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते ॥१॥
45050515 05/
घनघता प्रतापं गर्जनयाऽचेतत्त्वमिह रिपुतक्षकोऽसि, त्वं मानवताया रक्षकोऽसि त्वं दानवताया भक्षकोऽसि । निजबालक्रन्दनं श्रुत्वापि च समुचितमाक्रमणं न मन्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥२॥
शृणु तव ह्यो राजतिलकमभवद् भूतोऽसि कथं त्वं वनचारी, ह्यो राजमुकुटभूषित आसीः कथमद्याऽभूर्वल्कल-धारी । करवालस्थाने वीर ! त्वया हस्ते दात्रं कथं गृह्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥३॥
Page #53
--------------------------------------------------------------------------
________________
ये प्रासादे प्रतिदिनं विविधपक्वानि भक्षयन्ति स्म मुदा, ते बाला अन्नरोटिकामपि प्राप्तुं शक्ताश्च भवन्ति कदा? दृष्ट्वा निजबालान् बुभुक्षितान् वीरप्रताप ! त्वयाऽपि रुद्यते ? सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥४||
यस्य करात्तां घासरोटिकां प्राप्य बिडालो धावति पश्य, रोरुद्यते कृतोऽपि तूष्णीं कथय सखे ! बालोऽयं कस्य ? अनाचारहननाय प्रजासुखमधिगन्तुं वीरेण युध्यते,
सहते योऽनाचारं नित्यं लोके कापुरुषः स कथ्यते
॥५॥
45055
उत्तरप्रदेश एटाजनपद-शूकरक्षेत्रिनवासी, होतीलालकलवत्योः पुत्रो मिश्रयोरात्मवान् । काव्य-नाटक-गीतादिरचयिता रामकिशोरमिश्र इह, किशोरगीतारलिरचनायां किशोरगीतं कृतवान्
॥६॥
-०
४०
Page #54
--------------------------------------------------------------------------
________________
-
वास्तवम्
एस्. जगन्नाथः
मैसूरु विमलतम-मृदृलतूण-राजि-संछन्नासु रमणीयपर्णचित-विटपिगण-निबिडासु धमनिपरिगृहयितृसुरभिमेदुरपुष्पगुच्छालिशोभितासु । शमपोष-लाषि-जन-हृदयसतर्पणक्रम-बोधभव्यासु भूमीषु सौभाग्यममितया मात्रयाऽऽसिस्वादयिषुरहं प्राप्नवं सुमवाटिकाम्
कलरवं कर्णयोरकलयं पक्षिणामलमेष आसीत् सुमोदोत्सवाय यो बलमसृजदिव कर्णनाडीषु येन चोन्मीलितो मानभूमा । सुललितविलासेन चेतसा शुभ्रेण वलयमिव लोकातिगं भव्यमाविशं
कलिकालभावस्य सूचनाऽपि न यत्र तत्राऽन्वभवमतिमुदम् ॥२॥ मानसे नभसि ऋजुरोहितं वर्णिलं गानमपि लौकिकेतमधिकमेधयन् लीनया हृदयसंभवयाऽपि लीलया नाकेषु बहुविधेषु । मीन इव सागरे मृग इव च कानने नूनमुरु विहृतिमान् सुसमयाकुर्वन् वि - मान उपविश्य भुवनेषु च भ्रमणरुचिरभ्यनयमतुलनृत्यम् । ॥३॥
Page #55
--------------------------------------------------------------------------
________________
લોકો
एतदन्तर एव कोऽपि किल नेत्रयो
र्योतिरिङ्गण आशु विष्फुरन् दौर्मनस्यातिपरिदीनमुख उदिताश्रुरब्रवीत् “तव भवेत् सर्वमपि शम् । पाति मां को निशितचधुघोरात् खगात् ? भीतिराक्षसनखरबन्धानान्मोचने हेति चीत्कृतिरास्यतो मे न निःसरेत् सुजन-कारुण्यजाते"
व्यादाय चञ्चुमथ कथितवान् विः कश्चि"दादाय काष्ठानि निर्मित्सुना नीडमादौ मयाऽन्वेषणीयं स्थलं किमप्यण्डभक्ष्यप्रवेश्यम् । खेदानगणयता कथमपि च निजपोतमोदाय यतनीयमामिषाद्मरयुक्ति
भेदेन संरक्षणीयं वपुः सपदि क्रणीयमुत्कूजनम्” तदनु तरुरतिनिबिडदलरुचिर-सुविटपोडगद “दखिलभू-गर्भतलमधिकयत्नेन विदितमविदितमित्यकृतभेदमन्वेष्यमनिशमपि सलिलं मया । यदि वृष्टिरागता मम तु चिन्ता गता, सुदिनानि जातानि । यद्यजलदा दिशा विदिशाश्च-कथमहं स्मितकान्तिलेशमपि शेषेय पर्णपटले ?”
॥५॥
॥६॥
४२
Page #56
--------------------------------------------------------------------------
________________
सकलमिदमार्ण्य भृशमहमचिन्तयं “प्रकरणे लेशतोऽपि न शान्तिरत्रास्ति शुक इव कवीभवन् प्राकृतो रटति यां वीक्ष्योपवनमादरात् । अकपटो वीषयोऽयमतितमां क्लेशवत् प्रकटमनटन्नयनमार्गेषु शान्तघोषकसमुदयस्य पुरु-जीविकाघर्षणं- 'शम' इति जडैर्वर्ण्यते ॥”
॥७॥
(कन्नडसाहित्ये नितरां प्रसिद्धं वार्धकषट्पदीनामकं छन्दोऽत्र प्रयुक्तम् । अत्र षट् पादाः । प्रथमद्वितीययोः तथा चतुर्थपञ्चमयोः पादयोः चत्वारः पञ्चमात्रागणाः वर्तन्ते। तृतीय-षष्ठयोः पुनः षट् पञ्चमात्रागणा एको गुरुश्च । ल.गु.ल.ल. इति वा ल.गु.गु. इति वा गणविन्यासोऽत्र कथमपि नैव भवेदिति नियमोऽस्ति । छन्दस्यस्मिन् द्वितीयाक्षर-प्रासो नियतः । परन्तु यतिर्न नियता।)
-
०
यत्किञ्चिदात्माभिमतं विधाय निरुत्तरस्तत्र कृतः परेण । वस्तुस्वभावैरिति वाच्यमित्थं तदोत्तरं स्याद् विजयी समस्तः ॥
Page #57
--------------------------------------------------------------------------
________________
आत्मपदार्थसिद्धिः
- ले. पूज्यपादाचार्यश्रीविजयदेवसूरीश्वराणां शिष्यः
विजयहेमचन्द्रसूरिः दृश्यते सम्प्रति जगति यद् आस्तिकरूपेण स्वं मन्यमानोऽपि जनः नास्तिकवदेव व्यवहरति । तत्कारणन्तु एतदेव यद् तस्य मनसि आत्मरूपतत्त्वस्य निश्चितरूपेण प्रतीतिः नैवास्ति ।
यद्यात्मनः सिद्धिः सन्दिग्धा तर्हि तदाधारेण वतर्मानाः पुण्यपापपरलोकपुनर्भवादयोऽपि असन्त एव भवन्ति ।
अत आत्मसिद्धिः प्रारम्भे एव कर्तुं योग्या ।
अनेकशास्त्रेषु अस्योपरि भिन्नभिन्नरूपेण बढ्यः चर्चा-विचारणाः कृताः विलोक्यन्ते । प्रभुमहावीरपरमात्मनः प्रथमगणधरश्रीमदिन्द्रभूतेरपि एष एव सन्देहः मनसि आसीत् । प्रभुवीरेण तन्मनःस्थितं सन्देहं कथयित्वा प्रत्यक्षादिप्रमाणद्वारा स सन्देहः दूरीकृतः ।
कतिपयजना एवं कथयन्ति यत् आत्मा नैव प्रत्यक्षः स तु अनुमानादिप्रमाणद्वारैव साधयितुं शक्यः ।
भगवता कथितम् - आत्मा प्रत्यक्षगोचरः । कथम् ? जगति एवमवलोक्यते यत् यस्य गुणाः प्रत्यक्षाः भवन्ति स गुण्यपि प्रत्यक्ष इति मन्यते । 'जीवोऽस्ति न वा' एतादृशसंशयरूपविज्ञान एव जीवोऽस्ति । स तु सर्वस्यैव प्रत्यक्षरूपो विद्यत एव । यः विज्ञानरूपो भवति स स्वसंवेदनप्रत्यक्षतः स्वसंविदितो भवत्येव । अन्यथा विज्ञानस्य ज्ञानरूपत्वं नैव घटते । अतः संशयरूपविज्ञानं यदि प्रत्यक्षमस्ति तहि जीवोऽपि प्रत्यक्षोऽस्त्येव। ___ अपि च विनात्मानं यस्य कस्यापि जनस्य मनसि एवं भवति यत् - मयेदं कृतम्, इदमहं करोमि, इदमहं करिष्यामि, इति त्रैकालिकविषयः प्रत्ययो भवति, स कथं घटिष्यति । अत्र प्रत्यये यत् अहंविषयकं ज्ञानं भवति तदेवात्मनः प्रत्यक्षसिद्धौ प्रमाणम् ।
एतज्ज्ञानं नैवानुमानम् यतस्तद् लिङ्गजन्यं न, नापि च आगमरूप प्रमाणजन्यं यतः आगमानभिज्ञानां जनानामपि एतादृशः अहंविषयकः अन्तर्मुखबोधो भवति ।
Page #58
--------------------------------------------------------------------------
________________
अन्यच्च आत्मनः अविद्यमानतायाम् 'अहम्' एतादृशं ज्ञानं कथं भवेत् । ज्ञानं कदापि निर्विषयं तु न भवत्येव । यदि अहंप्रत्ययविषयभूतात्मनः स्वीकारो न क्रियते तदा तज्ज्ञानं निविषयमेव भविष्यति । तत्तु न समीचीनम् । अतः 'अहम्' इत्याकारकं यज्ज्ञानं सर्वेषां भवत्येव तस्मात् तद्विषयतया आत्मनः स्वीकारोऽपि अवश्यमेव कर्तुं योग्यः ।
अपि च एतादृशः प्रत्ययः शरीरविषयकः नैव स्वीकर्तुं योग्यः यतः मृतावस्थायां तादृशप्रत्ययस्य अभावः सर्वेषां दृश्यत एव ।
आत्मनः प्रत्यक्षसिद्धौ अपरापि युक्तिरत्र निर्दिश्यते। यत्-आत्मनः स्मरणादिविज्ञानरूपगुणा प्रत्यक्षविषया भवन्ति, अतः आत्मा प्रत्यक्षोऽस्ति । गुणप्रत्यक्षत्वे गुणिनोऽपि प्रत्यक्षत्वं सर्वत्र निर्विवादं स्वीक्रियत एव । रूपादयो घटस्य गुणाः ते प्रत्यक्षज्ञानविषया भवन्तिः अत एव घटोऽपि प्रत्यक्ष इति व्यवहारो भवति । गुणगुणिनोरभिन्नत्वात् ।
गुणगुणिनोरभिन्नत्वं तु सर्वैरपि स्वीक्रियत एव। तदस्वीकारे तु पदे पदे अनेकविधा आपत्ति: आपद्येत।
यतः प्रथमं तु घटादिपदार्थाः सर्वेषां प्रत्यक्षविषयाः सन्ति तत्रैव दोषः समापद्येत । कथम् ? चक्षुरिन्द्रियेण तु रूपमेव गृह्यते, न घटः, घटस्तु रूपाद् भिन्न एव । तदा 'घटो मया ज्ञातः' इति व्यवहारो न भविष्यत्येव।
व्यवहारस्तु भवत्येव, तस्मात् गुणगुणिनोरभिन्नत्वमेव स्वीकार्यम् न तु भिन्नत्वम् । ततश्च स्मरणादिगुणाः प्रत्यक्षगोचराः भवन्ति ते च विषयं विना नैव कदापि स्थातुं शक्नुवन्ति, यश्च तेषां विषयः स एवात्मा अतः गुणप्रत्यक्षे गुणिनः आत्मनश्चापि प्रत्यक्षत्वं सिद्धं भवति । अपि च ज्ञानादिगुणानाममूर्तत्वात् देहस्य च मूर्तवात् ज्ञानादयो गुणाः देहस्य नैव संभवन्ति किन्तु अमूर्तस्यात्मनः एव सम्भवन्ति ।
अनुमानेनात्मसिद्धिः दण्डादिकरणानामधिष्ठाता कुभकार इव इन्द्रियरूप करणानामपि कोऽपि अधिष्ठाता भवितुमर्हति । यश्चाधिष्ठाता स एवात्मा । नान्यः कोऽपि ।
अपरञ्च - इन्द्रियद्वारा विषयाणां ग्रहणं भवति अतस्तयोर्मध्ये ग्रहणग्राह्यसम्बन्धोऽस्ति,
Page #59
--------------------------------------------------------------------------
________________
तत्र कोऽपि ग्राहकः भवितुमर्हति, तं विना ग्रहणं कः कुर्यात् । यः ग्राहकः सैवात्मा।
अन्यच्च - देहादीनां भोक्तृत्वेनाऽपि आत्मनः सिद्धिर्भवति । यद् यद् भोग्यमोदनादि वस्तु विद्यते तस्य भोक्ता पुरुषादिर्भवत्येव एवं देहाद्यपि भोग्यमस्ति अतस्तद्भोक्तृत्वेन आत्मनः सिद्धिर्जायते।
तथा च - जगति ये केचन संघातरूपा: पदार्थाः गेहादयो विद्यन्ते तस्य देवदत्तादिः स्वामिरूपेण भवत्येव । तथैव देहादिरपि संघातरूप एव अतस्तस्यापि कोऽपि स्वामी तु अवश्यमेव भवितुमर्हति, यः स्वामी सैवात्मा । आत्मानं विना देहादेः स्वामी भोक्ता च नान्यः कोऽपि संभवति अतः आत्मैव स्वामितया सिद्ध्यति । ___ अपि च - यस्य विषये संशयो जायते स कुत्रापि विद्यमानः भवत्येव । अविद्यमानवस्तुनः कुत्रापि संशयो न भवत्येव । अस्माकं मनसि 'जीवोऽस्ति न वा' इति संशयो भवति, तेनापि आत्माऽस्ति इति सिद्ध्यति ।
'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनमेतदर्थसंसूचकम् । जगति ये केचन पदार्था विद्यन्ते तद्वाचकाः शब्दाः भवन्त्येव तथा ये शब्दाः विद्यन्ते तेषां पदार्था अपि भवन्त्येव । निषेधरूपेणात्मनः सिद्धिः।
यस्य कस्यापि वस्तुनः केनाऽपि यदि निषेधः क्रियते, तर्हि तस्य वस्तुनः विद्यमानताऽवश्यं भवत्येव । यथा कोऽपि कथयति - अघटः, तदा तत्प्रतिपक्षी घटः कुत्रापि विद्यते एव । यदि केनापि जीवनिषेधः क्रियते तेनापि जीवस्य सत्ता निश्चीयते ।
देवदत्तो नास्तीति कथने देवत्तस्यात्र सत्ता न विद्यते किन्तु अन्यत्र कुत्रापि तस्य सत्ता विद्यते एवेति प्रतीयते। एवंप्रकारेण आत्मनः सिद्धौ सत्यां पुण्यपापकर्मपरलोकादीनामपि सिद्धिर्भवति ।
यदि परलोकोऽस्ति, तदा तस्य प्राप्तिः स्वकृतशुभाशुभकर्मयोगेनैव भवति । शुभकर्मणा सद्गतिः, अशुभकर्मणा च दुर्गतिः जीवानां भवति । तर्हि पूर्वकृतप्रबलपुण्योदयेन प्राप्ते नरजन्मनि सर्वैरपि स्वात्मकल्याणेप्सुभिनरैः दानादिधर्मेषु निर्मलभावतो यतितव्यमेव । तेनैव तेषामिहजन्मनि सुखशान्तिसौभाग्यानि परलोके सद्गतिः परम्परया च मोक्षप्राप्तिः नितान्तं भविष्यन्ति । आत्मसिद्धेश्यमेव हि लाभः । इति शम् ।।
-०
४६
Page #60
--------------------------------------------------------------------------
________________
आस्याः चिन्तनधारा
JoyM
ircumstiane
कि
किमुचितम् ? शिक्षापद्धतिरुत शिक्षणपद्धतिः ?
- - मुनिरत्नकीर्तिविजयः ।। अस्ति ईसुख्रिस्तस्य जीवनस्याऽयं प्रसङ्गः।
एकदा कस्या अपि स्त्रियोऽनाचारोऽन्येन केनाऽपि जनेन ज्ञातः । तेन चिन्तितं यद् - 'अस्य परिहारोऽवश्यमेव कर्तव्यः । तदर्थं त्वेषा स्त्री दण्डनीया प्रहर्तव्या च।'
'वातो वार्ता नयति' इति न्यायेन क्षणेनैव सर्वत्रैषाऽनाचारवार्ता प्रसृता । इत्यतः आमन्त्रितानामनामन्त्रितानामपि जनानां तत्र महान् सम्मर्दः सञ्जातः । केचित् किञ्चिद् ज्ञात्वा तत्राऽऽगताः, केचिदनभिज्ञा एव जनसमूहदर्शनमात्रेण तत्रोपस्थिता अभूवन्, केचिच्चाऽन्यान् पृष्ट्वा अल्पमधिकं वा श्रुत्वा तत्र स्थिता अभवन् । सर्वेषां जनानां मुखे एक एव शब्द उच्चैः श्रूयते स्म 'प्रहरन्तु ! प्रहरन्तु ! एषा पापा दुराचारिणी च, अतो मा मुञ्चन्तु'। ___ यावत् स जनसम्मर्दस्तां प्रहर्तुमुधुक्तो भवेत् तावत्तत्र ईसुख्रिस्त आगतः । 'किमर्थमेतावानाक्रोशः सर्वेषां मुखेषु दृश्यते? कस्य वा कृते एवं 'प्रहरन्तु प्रहरन्तु' इति उच्चार्यते ?' - इति तेन पृष्टम्।
श्रुत्वा तस्य वचः समूहाज्जन एक उक्तवान् – 'एषा स्त्री दुराचारिणी अस्ति, पापा चाऽस्ति । अतो वयं तां प्रहर्तुमुधुक्ताः सञ्जाताः स्मः । समाजात् पापः परिहर्तव्य एव नियतम् ।'
ईसुख्रिस्तस्तस्य तादृश आक्रोशोऽपि स्वस्थचित्तेन श्रुतवान् । यदा च स तूष्णीकतामभजत् तदा ईसुख्रिस्त उक्तवान् - 'सत्यं वदति भवान् । यः कश्चिदपि यदि पापाचरणं कुर्यात् तर्हि सोऽवश्यमेव दण्डनीयः । शत्रु-रोगादिवत् पापमप्युदीयमानमेव शमयितुं योग्यम् । येन समाजो हानं न प्राप्नुयात्'।
एतादृशानि स्वमनोभावानुरूपाणि तस्य वचनानि एककर्णीभूय श्रुतवतां जनानामाक्रोशो द्विगुणितः सञ्जातः । यत एकस्य सत्पुरुषस्य समर्थनं तैः प्राप्तं तेषां प्रवृत्त्यर्थम् ।
तावच्च क्षणं विरम्य सर्वत्रैकां परीक्षकदृष्टिं प्रसार्य ईसुख्रिस्तः पुनरुवाच - 'इतिन्यायादेषा
४७
Page #61
--------------------------------------------------------------------------
________________
स्त्री अप्यवश्यमेव दडण्नीया । किन्तु एकमपि पापं न कृतं स्यात् ' इति ।
स एव प्रथमं प्रस्तरप्रहारं करोतु येन स्वकीये जीवने यावदीदृशमन्तिमं वाक्यं ईसुख्रिस्त उवाच तावत्तत्कालमेवैकैकं कृत्वा सर्वेषां हस्तेभ्यः प्रस्तरादयः पतिताः शनैः शनैश्च सर्वेऽपि जनास्ततो निर्गताः । द्वावेव तत्र स्थितौ, एक सुख्रिस्तोऽन्या च सा स्त्री । ईसुख्रिस्तस्य तादृशं व्यवहारं दृष्ट्वा निजापराधार्थं पश्चात्तापं कुर्वती सा स्त्री सुख्रिस्तस्य द्वावपि पादौ नेत्राम्बुभि: प्रक्षालितवती । स्वकीये च जीवने सदाचाररूपो नवीनः प्रकाशोऽपि तया प्राप्तः ।
“क्षमा निमलं प्रेम चैवाऽऽन्तरं द्वारमुद्घाटयितुमल" मिति निश्चप्रचम् ।
अत्राऽस्य प्रसङ्गस्योक्तौ उद्देशस्त्वेतावानेव यद् अनेकवर्षशतैर्नवीनाया एव दृष्ट्या उल्बणं गृहीत्वा प्रसङ्ग एष इतिहासपृष्ठे प्रकाशते, तथाऽप्यद्यतनीयः समाजोऽनया दृष्ट्या सर्वथा रहित एव परिज्ञायते ।
वर्तमानः समाजो नाम केवलं तादृशानां मनुष्याणां समूहो यत्र नास्ति धैर्यस्य विवेकस्य ज्ञानस्य वा प्रवेशावकाशः । वस्तुतस्तु शोभना व्यवस्थैव समाजः येन चोत्तमराष्ट्रस्य निर्माणं भवति । उत्तमजनसमूहात् समाजो निर्माणमाप्नोति, उत्तमसमाजेभ्यश्चोत्तमराष्ट्रम् । या काऽप्यव्यवस्थितिर्दृश्यते राष्ट्रे तत्र कारणभूताऽस्ति यस्य कस्यचित् समाजस्याऽव्यवस्थितिः, समाजस्य चाऽव्यवस्थित्या हेतुरपि यस्य कस्यचिज्जनस्याऽव्यवस्थितिरेव । अतः समाजस्य निर्माणेन तु तादृशैरेव जनैर्भवितव्यं येषु धैर्यं विवेको ज्ञानं वा वर्तेत । तथैव च स समाज: प्रतिष्ठितो गण्येत । तस्यैव च समाजस्य शब्दानां सत्पुरुषा मूल्यं कुर्वन्ति । यतस्ते शब्दाः परिस्थितीनां तत्परिणामानां विचारपूर्वकं परेषां च हिताहितं संलक्ष्यैव च प्रवर्तन्ते । न भवति तत्र द्वेषदंशोऽसदाक्रोशो जाड्यमन्यस्य कस्याऽप्यवमाननमवहेलनमपभ्राजनं वा नाम कदाचिदपि ।
उपर्युक्तप्रसङ्गवर्णितः समाजो न वर्तमानसमाजाद् भिन्नः, किन्तु तत्राऽस्ति शिरच्छत्रं यच्च सर्वेऽन्वसरन् । प्रवर्तमानः समाजस्तु शिरच्छत्रविहीनोऽस्ति । यदि नाम 'अस्ति' इति कोऽपि वदेत् तर्हि तदपि धैर्यादिगुणशून्यमेव स्यात् इति सम्भाव्यते । तद्विना च नैतादृशी दु:स्थिति:
समाजस्य शक्या ।
४८
Page #62
--------------------------------------------------------------------------
________________
__ "अस्ति समाजो मातापितृस्थानीयः, सामान्याश्च जनास्तु तस्य सन्ततयः।" एतादृशो बोधो न यावज्जागृयात् तावन्न पारस्परिको व्यवहार उदार: समन्वयात्मको वा भवेत् । तथा च न तावत् सुराष्ट्रस्य निर्माणमपि शक्यम्।
वर्तमानसमाजस्य करुणता त्वेषा यत्तत्र परस्परं पादाकर्षणमेव सततं प्रवर्तते । न कोऽप्यन्यस्य कस्यचिदपि उत्कर्ष सोढुं शक्नोति । एतादृशी वृत्तिर्यदा समाजस्य प्रतिष्ठितपदेषु स्थितेषु स्वांश्चाऽग्रगण्यत्वेन ख्यापयत्सु जनेषु दृश्यते तदा मनोऽधिकं दुःखितं भवति । त एव च जना आन्दोलनमपि प्रवर्तयन्ति यद - "समाजात् दूषणानि दूरीकर्तव्यान्येव, तदर्थं चाऽपराधिजना दण्डनीया एव । एवं कृते सत्येव समाजो दूषणमुक्तो भविष्यति" इति । न किन्त्वेवमुच्चारयन्तस्ते जनाश्चिन्तयन्ति यत् ते स्वयमेव दूषणरूपा भूषणरूपा वा समाजे । न केवलं स्थानप्राप्त्या काऽपि योग्यता नाम प्राप्यते येन 'सर्वेऽधिकारा मदायत्ताः' इतिकृत्वा यद्वा तद्वा वक्तुं यथा तथा वा च कर्तुं सोऽधिकारी भवेत् । एतादृशस्य जनस्य स्थितिस्तु स्वयं काचगृहे स्थित्वाऽन्यं प्रस्तरेण प्रहर्तुं उद्युक्तस्य जनस्य इव दयनीयाऽस्ति । यो नाम जनो न क्षमः स्वस्याऽपराधं स्वीकर्तुं स न कदाचिदपि अन्यानपराधिनः कथयितुं तदर्थं च दण्डयितुमधिकारी भवति । नाऽत्र कोऽपि विरोधो दूषणपरिहारकार्ये, किन्तु, तदर्थं तु यत् क्रियते यथा च क्रियते यश्च तत्र मार्गोऽङ्गीक्रियते, तत्र न किमपि गाम्भीर्य, धैर्य, विवेको वा दृश्यते, तत्राऽस्ति विरोधः । प्रश्नस्त्वेक एव भवत्यत्र यद्-अस्माभिराचरितया पद्धत्या समाजात् दोषा हीना जाता उत वृद्धि गताः ?
न कश्चिदपि जनः सर्वथा दोषहीनो दोषमुक्तो वा भवति । दैवमेव तत्र बलीयो वर्तते । दैवस्योत्थानं पतनं च जनानां मनस उत्थाने पतने च कारणत्वेनाऽनुभूयते । तदेव च प्रवर्तकं प्रायः मनुष्याणां कार्यकलापे। भवतु नाम जनः कस्यामपि स्थितौ कस्मिन्नपि पदे च प्रतिष्ठतः किन्तु कर्म दैवं वैव बलवत्तमं प्रतीयते तत्र । प्रारब्धमनुसृत्य जनो यदि कुत्राऽपि प्रर्वतते तर्हि तत्र ‘स निर्दोषः' इति वक्तुं नाऽत्र कोऽप्याशयः किन्तु ताली तु द्वाभ्यामेव हस्ताभ्यां वादयितुं शक्या इति तु स्वीकर्तव्यमेवाऽस्माभिः । तथा च यः कश्चिदपि जनोऽपराधी एव' इत्यभिप्रायादूज़ तस्य कर्मपारवश्यमपि चिन्तनीयमेव । तत्पाश्चादेव च कोऽपि निर्णयः कर्तव्यः ।
४९
Page #63
--------------------------------------------------------------------------
________________
कस्याऽपि जनस्य स्थानं मानं वा संलक्ष्य तदनुरूपो व्यवहारस्तस्य सकाशादपेक्ष्यते । अवश्यमेव च तेन स्वस्थानमानादिकं प्रति जागरुकतया व्यवहर्तव्यम् - इत्यपेक्षायां नाऽस्ति काचिदनौचिती किन्तु यश्चाऽत्राऽऽग्रहः सेव्यतेऽस्माभिः तदनुचितम् । कोऽपि जनः प्रथमं तु 'मनुष्यः' एव । पश्चात् स स्थानेन मानेन पदेन वा विशिष्टो भवति । यत्र च मनुष्यत्वं तत्र स्खलनमपि शक्यमेव । एतत्तु सर्व एव स्वीकुर्वन्ति । यथा च स्खलनं शक्यं तथा परिवर्तनमपि तत्र सम्भवत्येव । प्रश्नस्तु केवलमस्माकं प्रतिभावस्याऽस्ति।
भगवता महावीरेण तु दृढप्रहारिसदृशानां नृशंसजनानां, रौहिणेयसमानां तस्कराणां, तिर्यग्जातावुत्पन्नानां च चण्डकौशिकतुल्यसर्पाणामपि हृदयस्य परिवर्तनं कृतं स्वकरुणया । गौतमबुद्धेनाऽपि अङ्गुलिमालाद्यनेकापराधिजनानां स्वनिर्मलवाग्भिः प्रतिबोधः कृत आसीत् । अस्माकं व्यवहारस्तु तैः सार्धं प्रवर्तते ये जना एकदा आशास्पदा उपयोगिनः सज्जनाश्च आसन् किन्तु अद्य त एव स्वकर्मवशात् स्खलनवशाद्वा विपरीतमाचरितवन्तः सन्ति । किं नाम परिवर्तनं न तेषां शक्यम् ? किं सर्वथा ते हेयाः तुच्छा अवमाननीया एव सञ्जाताः ? न ह्येवमस्ति, तत्र शक्यमेव परिवर्तनं तेषां, यतस्तेषामपि हृदयमस्त्येव । तदर्थं तु अस्माभिः स्वकीयोऽभिप्रायः परिवर्तनीयो दृष्टिरपि च परिवर्तनीया।
कस्याऽपि जनस्य लघ्व्या वा महत्या वा क्षते: - या च नाऽस्माभिदृष्टा, केवलं कर्णोपकर्णेन श्रुता एव - तस्या यथामति विस्तरणं, समाचारपत्रेण सामयिकेन वा प्रसारणं, तद्द्वारा च तस्य समाजे राज्ये वा हीनताख्यापनम् - इति तु नाऽस्माकं कृते शोभास्पदम् । किमतेद्स्माक - माभिजात्यम् ? किमेषैवाऽस्माकं कुलीनता? एतादृशीं पध्धतिमाचरन्तो जना अपि समाजस्य दूषणान्येव।
प्रत्येकमपराधानां शिक्षाऽप्यस्ति शिक्षार्थं च नियता पध्धतिरप्यस्त्येव । प्रथमं त्वपराधस्य शुद्धिरनिवार्या । कस्याऽपि कथनमात्रेणैव न किमपि सत्यं भवति । बहुशो दृष्टमपि न तथारूपं भवति तर्हि कथनस्य तु का वार्ता ? द्वेषात् आवेशात् परोत्कर्षस्याऽसहिष्णुतायाश्च कथिताया वार्तायाः सत्यमिति कृत्वा स्वीकारोऽन्याय्य एव । न्यायकर्तरि जने तु विशाला व्यापका विवेकपूता च दृष्टिः सम्यग्ज्ञानं चाऽऽवश्यके स्तः । यदि नाम 'एषाऽस्य क्षतिः' इति सिद्धयेत्
Page #64
--------------------------------------------------------------------------
________________
तर्हि किंरूपेण स शिक्षणीय इति तु सम्यग् चिन्तनीयम् । समाजस्तु यदि मातापितृतुल्यस्तर्हि तस्मिन् द्वेषस्येाया असहिष्णुतायाश्चांशोऽपि न भवितुमर्हति । द्वेषबुद्ध्या कृता शिक्षा न न्याय्या। द्वेषबुद्ध्या कृतमवमाननमपि न शिक्षात्वेन कथ्यते। शिक्षा तु सैव यया हृदय परिवर्तनं भवेत् । __ भगवतो महावीरस्य ईसुख्रिस्तस्य गौतमबुद्धस्य च जीवनप्रसङ्गेभ्यो न कोऽप्यनभिज्ञः । प्रेम्णा हृदयावर्जनस्य सा दृष्टिवर्तमानकालेऽपि तावत्येवोपयोगिन्यमोघा चाऽस्ति यावती तत्काले आसीत् । अवमाननेन कस्याऽपि हृदयस्य परिवर्तनं जातं न ज्ञातं किन्तु प्रेम्णा स्नेहेन करुणया च भूतस्य हृदयपरिवर्तनस्याऽनेकान्युदाहरणानि सन्ति । कश्च मार्गः शोभास्पदो हितकारी लाभदायी चेति विवेकस्तु अस्माकं योग्यतामपेक्षते । उभावपि मार्गावस्माकं समक्षमेव वर्तेते । हृदये प्रतिष्ठितं प्रेम योग्यपरिणामे उचितपरिवर्तने च प्रभवत्येव । प्रत्येक मनुष्यः सहृदय एव भवति; स्यात्स सज्जनो वाऽपराधी वा । हृदयं तु प्रेम्ण एव भाषामभिजानाति तयैव च तदार्द्रमपि भवति । पुष्पं न प्रस्तरप्रहारेण विकसति किन्तु प्रकृत्याः कोमलसंस्पर्शेनैव विकसति । हृदयमपि किं न पुष्पतुल्यम् ? कठोरशिक्षातो प्रेम्णा दत्तं शिक्षणं चित्तं प्रकाशयति, आमूलचूडं परिवर्तनमपि करोति, अपराधिनश्चाऽपि जनान् सतां पङ्क्तौ स्थापयति । अतः शिक्षापद्धत्याः शिक्षणपद्धतिरेव श्रेयस्करी। ___ 'सोक्रेटिस' इति पुस्तके पठितस्य संवादस्योल्लेखोऽत्र करणीयः प्रतीयते । चिन्तनीयोऽयं संवादः।
सोक्रेटिस (SOCRATES) इत्यस्य शिष्यः आसीत् एपोलोडोरसः। मार्गे
एकदा तेनोक्तम् - सोक्रेटिस ! भवता अहं क्षन्तव्यः । सोक्रटिसः - न कोऽपि जनः क्षन्तव्योऽस्ति ।
साश्चर्यं एपोलोडोरस उक्तवान् -- कथमेवम् ? यदि मित्रं शुद्धहृदयेन क्षमां
प्रार्थयेत् तथाऽपि किं न क्षन्तव्यम् ? सोक्रेटिसः - आम् ! न जानन् सन् कोऽपि स्वस्याऽनिष्टमाचरति । एपोलोडोरसः - भवतु । किन्तु, अन्यस्याऽनिष्टं स किं जानन्नेव न करोति ? तदर्थं तु किं न
Page #65
--------------------------------------------------------------------------
________________
तेन क्षमा प्रार्थनीया ?
सोक्रेटिस:
स न विचारपूर्वकं तथा करोति !
एपोलोडोरसः नैवम्, आशयस्तु तत्र तस्य विद्यत एव ।
सोक्रेटिस:
एपोलोडोरसः
सोक्रेटिस:
-
-
-
-
श्रुणु मेऽभिप्रायम् । अहं न दण्डयामि अतो न क्षमामप्यपेक्षे । इदं तु निश्चयेन ज्ञेयं यद् नैव कोऽपि जानन्नपि अनिष्टमाचरति । अनिष्टं तु केवलं रक्तबीजम् । यन्न स जानाति तदर्थं तु न स दण्डनीयः।
पश्चात् मार्गमध्ये एव स्थित्वा एपोलोडोरसस्य शिरसि हस्तं प्रसार्य सोक्रेटिस उक्तवान्शिक्षा तु कर्तव्यैव । किन्तु सा एकैव - 'ज्ञानदानरूपा' इति ।
सत्यम् ! किन्तु न विचारपूर्वकम् । केवलमविमृश्यैव तस्य तत्र प्रवर्तनम् । यदि स जानीयात् यत् – अन्यस्याऽनिष्टेन न स स्वयं सुखी भवितुमर्हति तर्हि न स तथाऽऽचरेत् । किञ्च, अज्ञानस्य च का शिक्षा ?
नगरं कथं रक्षणीयम् ? मातृद्रोहिणः पितृद्रोहिणो नगरद्रोहिण इत्यादयोऽनेकेऽत्र निवसन्ति !
-
शैशवेऽभ्यस्तविद्यानां, यौवने विषयैषिणाम् ।
वार्धक्ये मुनिवृत्तीनां योगेनाऽन्ते तनुत्यजाम् ॥ ( कालिदासः)
शैशवे भ्रष्टविद्यानां, यौवने विषभक्षिणाम् ।
वार्धक्ये श्वानवृत्तीनां, रोगेणाऽन्ते तनुत्यजाम् ॥ ( प्रतिकाव्यम्)
५२
Page #66
--------------------------------------------------------------------------
________________
आस्गादः मुक्तचिन्तनम्
-मुनिधर्मकीर्तिविजयः
(१)
ग्रन्थि : विहृतवन्तः आस्म 'बेंग्लोरनगरं' प्रति पूज्यपादगुरुवर्यैः सह वयं सर्वेऽपि । सूरत- नगर्याः निर्गत्य विहरन्तः वयं नासिकनगरं आजग्मिम । तस्यां विहारयात्रायां सह्याद्रिपर्वतस्याऽतिरम्याः गिरिश्रेणयो दृष्टाः । तत्र प्रकृतेः सहजं सौन्दर्यं तथा विधातुः अगम्या- अकथनीया-अवर्णनीया च लीलाऽपि अदर्शि अस्माभिः । __ आसीत् सा समस्ताऽपि विहारयात्रा पर्वतीयमार्गेण वेष्टिता । ततः प्रतिदिनं कदाचिदारोहणं कुत्रचिदवतरणं चाऽन्वभवत् । एवं प्रतिदिनमागच्छदारोहणमवतरणं च निरीक्ष्य तस्मिन्नेव काले मनुष्यजीवनेऽपि वर्तमानमारोहणमवतरणं च दृष्टिपथे आगतम् । निरन्तरं ताभ्यां नरः पीडामनुभवति । तेन च न खलु कदाऽपि जीवः सुखस्याऽमृतस्य पानं कर्तुं समर्थो भवति । अभिलक्ष्यतेऽधुना तदारोहणमवतरणं च गुरुताग्रन्थिः लघुताग्रन्थिश्चेत्यभिधानेन चिन्तनकारैः ।
विहारयात्रायामारोहणं कृत्वोपर्युपरि गच्छति सति क्रियतेऽधोदृष्टिः यदा तदा भूमिस्थिताः अधःस्थिता: वा जनाः तुच्छाः वराकाः तृणप्रायाश्च ज्ञायन्ते स्म ते । तदा चेतसि ‘महानहं, श्रेष्ठोऽहमेतेभ्यो जीवेभ्यः' इत्युपपद्यतेऽहङ्कारः । एषैव 'गुरुताग्रन्थिः' इत्यभिधीयते । _अस्ति जननी घृणा-अहङ्कार-स्वदोषाभिमान-क्षुद्रता-निष्ठुरता-उद्धता-तुच्छताअसत्यभाषणादिदुर्गुणानामेषा ग्रन्थिः । यत्र खलु अस्ति गुरुताग्रन्थिः तत्र केनाऽपि प्रकारेणोपरि वर्णिताः दुर्गुणा: वर्तेरन्नेव। एतद्ग्रन्थिना बाधितस्य जीवस्याऽऽन्तचित्ते 'मादृशो नाऽन्योऽस्मिन् जगति कोऽपि, अहमेव श्रेष्ठः, मया यक्रियते तत् सत्यमेव भवति, न भवेन्मे कदाऽपि स्खलना, नास्ति मे केषामपि आवश्यकता' इति मिथ्याभिमानो रमते । एतादृशो जीवस्य प्रतिपदं वार्तालापे व्यवहारे चैष मिथ्याभिमानः उच्छलति । स अन्यैः सह सदोद्धतापूर्वकं चैव व्यवहरति । अस्ति सुदुर्लभं सरलतायाः कोमलतायाश्च तु दर्शनमपि । सदा तस्य भ्रूकुटिः तीक्ष्णैव भवति ।
५३
Page #67
--------------------------------------------------------------------------
________________
एतादृशो जीवः स्वकल्पितं स्वदृष्टौ च यदागतं तदेव कारयति अन्यैः । यदा कदाचित् खलु ये केऽपि नाम तत्कल्पितात् विरुद्धं कुर्युः तर्हि तेषामवमाननमवहेलनं च यथा करोति तथा समाजे लोके मित्रवर्गे च निन्दापात्रंते भवेयुः । यतः तच्चित्ते 'मया यत्क्रियते तत् सत्यमेव भवति' इति वर्ततेऽभिनिवेशः ।
अन्यच्चैतत्तु अस्मामिः सवैरप्यनुभूयामहे एव यत् कदाचित् कोऽपि जीव: पूर्वभवस्य पुण्यबलेन सत्ताधीशो धनपति: ज्ञानी च भवेत् तदा सहसैव तस्य वर्तनं परावर्तते । यो ह्यो मित्रं प्रियजनश्चाऽऽसीत्, स अद्य स्मृतिपथात् दूरं भवति, यथा न कदाऽपि सः दृष्टः तथा व्यवहारं करोति, सर्वमप्येतत् गुरुताग्रन्थेः फलमस्ति ।
अथ यथा सुरापानस्योन्मादो भवति तथैव एतया ग्रन्थिना पीडितस्य जीवस्याऽपि सत्तायाः धनस्य ज्ञानस्य चोन्मादः भवति । तेन उन्मत्तो जीवो न लज्जामनुभवेत् कस्याऽपि कार्यस्य करणे । कदाचित् केनाऽपि तस्य मिथ्याभिमानस्य स्खलना क्रियते तर्हि तस्य हत्या कारयेत् तदा न खेदोऽप्यनुभवति चित्ते । यथा 'अमेरिकादेशस्याऽधिपतिः ज्योर्जबुशः' ।
'ओसामा बिनलादेनेन' कियत्कालं पूर्वं 'अमेरिकादेश' स्थस्य विश्वप्रसिद्धविश्ववाणिज्यकेन्द्र(वर्ल्ड ट्रेड सेन्टर)स्योपरि 'विमानयान' द्वारेण आक्रमणं कारितम् । तदातङ्केन बहुभूमिकमपि भवनं सर्वतो ध्वस्तम्। नैके जनाः मृताः।
एतद्घटनया अमेरिकाप्रमुख : ज्योर्जबुशः क्रुद्धोऽभूत् । स्वाभिमानः खण्डितोऽभूत् तस्य । तन्मानसे विश्वस्योपरि अमेरिकायाः एव प्रभुत्वमस्तु, सर्वेऽपि देशाः अमेरिकायाः आज्ञायां वर्तन्तां तथा धनदृष्ट्या, वैज्ञानिकदृष्ट्या, अद्यतनशस्त्रोत्पत्तिदृष्ट्या मेरिकादेशः एव श्रेष्ठ: भूयात्, इति मिथ्याभिमानः आसीत् ।
अतो यदा 'लादेने'न सहसैवाऽऽक्रमणं कृत्वा विश्ववाणिज्यकेन्द्रं क्षणमात्रेणैव नष्टं तदा जनाः परस्परं संवदन्ते स्म यद् एष देशो महान्, सुरिक्षतदेशः आसीत्, भूमौ गगने चा सूक्ष्माऽपि या क्रिया भवेत् तज्ज्ञातुं समर्थानि साधनानि यत्र उपलब्धानि आसन्, तथाऽपि तत्र कथं एवंभूतम् ।
एवं देशस्य महत्ता खण्डिता, सर्वत्र च स्वदेशस्य लघुता जाता । अतः सोऽतिक्रुद्धो बभूव । तत: एव तेन ‘तालिबान' देशस्योपरि सर्वतः आक्रमणं कृतम्, सः समस्तदेशो नष्टप्रायः कृतः,
५४
Page #68
--------------------------------------------------------------------------
________________
समग्रो देशो निर्जनः समतलभूमिनिभोऽकारि। अनेकेषां जीवानां घातोऽपि अभवत् । भूरिद्रव्यस्य दुययोऽपि बभूव । समग्रविश्वेऽशान्तिः प्रसृता । 'किं भविष्यति' इति चिन्तया जनानां हृदयमपि कम्पितमभूत् । - एतेन ज्ञायते यन्न कदापि गुरुताग्रन्थिना व्याबाधितो जीवः स्वस्य लघुतां अपराधं च सोढुं समर्थोऽस्ति । यो जीवः सर्वदा तस्य प्रशंसां बहुमानं च कुर्यात्, स एव तस्मै रोचते, नाऽन्यः ।
किन्तु जीवस्यैतादृशस्य विकासोऽशक्यः । एषा ग्रन्थिः पतनस्य कारणमस्ति । शिखरात् पतितस्य जीवस्य यादृशी दुर्दशा भवति ततोऽप्यधिका दयनीया स्थितिः जीवस्याऽस्य भवति । यदाऽऽत्मनो मिथ्याभिमानस्य भ्रमणोच्छिद्येत तदा एष जीवोऽवश्यमेव लघुताग्रन्थि प्राप्नोति । अतो न कदाऽपि अतीवाऽभिमानः करणीयः ।
अथ विहारयात्रायामवतरणं कृत्वा यावद्भूमौ प्राप्तौ सत्यां उपरिस्थिताः जनाः महन्तो दृश्यन्ते। तदा चेतसि लघुतोत्पद्यते यदहो! 'एतादृशः पर्वतीयमार्गः कथमारूह्यते मयि तु नास्ति शक्तिरेव' इति । एषैव ‘लघुताग्रन्थिरिति' उपलक्ष्यते । __ हीनता-ईर्ष्या-असूया-आत्मविश्वासाभाव-द्वेष-शङ्का-क्षुद्रतादिदुर्गुणानां निधिरस्ति एषा ग्रन्थिः ।
एतद्ग्रन्थिना पीडितः सर्वदाऽऽत्मानं दुर्बलं-शक्तिहीनमेव मन्यते । एष जीवःसदा निषेधात्मकेनैव व्यवहारेण प्रवर्तते वदति च । चित्ते न कदाऽपि स्वशक्तेः प्रकटीकरणार्थमुत्साहो जागति तस्य । सदा वराको ग्लानः तपस्वी चेव वर्तते । ___ एषा ग्रन्थिः आद्यं जीवस्यात्मविश्वासमेव हन्ति, एषैव अस्याः ग्रन्थेः विशिष्टताऽस्ति । ततः
आत्मश्रद्धाविहीनो जनः कदाऽपि किमपि कर्तुं न शक्नुयात् । कदाचित् कथयेत् कोऽपि जनः 'एतत् कुरु' इति, तदा "कथं भूयते, अहं तु लघुजनः, एतादृशं कार्यं कर्तुं मे न शक्तिरेव, कार्यं भवेत् तर्हि सुन्दरं भवेत् न वा "इत्यादयो विकल्पाः तस्य चित्ते उत्पद्यन्ते । एवं निषेधात्मकं वर्तनं करोति स जीवः । तत एव यस्य स्वस्योपर्येव न स्यात् श्रद्धा तर्हि कथं स्यात् श्रद्धाऽन्येषां जीवानामुपरि। शंकादृष्ट्यैव स जीवः किमपि कार्य, कस्याऽपि वर्तनं कथनं च पश्येत् । अत एव वेदान्तवादिनः बुवते- 'यस्य स्वस्योपरि नास्ति श्रद्धा स नास्तिको जीवः'
इति ।
Page #69
--------------------------------------------------------------------------
________________
किञ्च भवतीालुः लघुताग्रन्थिना पीडितो जीवः न शक्नुयात् कदाऽपि किमपि सुन्दरं कार्यं कर्तुम्, किन्तु कस्याऽपि जीवस्य शुभं कार्यं निरीक्ष्याऽस्य जीवस्य चित्ते जायते ईर्ष्या । "अहो! खलु लोकाः एतमेवाऽऽह्वयन्ति, एतस्यैव प्रशंसां कुर्वन्ति, मां तु न केऽपि आह्ययन्ति ।" एवं सदा पीडामेवानुभवति जीवः एषः ।। एतादृशो जीवस्योन्नतिरपि अशक्याऽस्ति ।
वस्तुतो द्वेऽपि ग्रन्थी जीवनविकासयात्रायां बाधके स्तः । ततो मध्यममार्गी भवेत् । न कदाऽपि कस्याऽपि वस्तुनो वर्तने कथने चाऽतिशयः अतिरेकश्च करणीयः । सर्वस्यामपि परिस्थित्यां समतायाः एवाऽऽलम्बनं विधेयम् ।
न कदाऽपि काऽपि स्थितिः त्रिकालवर्तिनी अस्ति । अधुना यो वर्तमानकालः अस्ति, स क्षणं पूर्वं भविष्यत्कालः आसीत् ; तथा एष एव वर्तमानकालः क्षणं पश्चात् भूतकालो भविष्यति । ततो न कस्यामपि स्थितौ न रागो न च द्वेषः करणीयः । आपतन्ती स्थितिमेवोररीकृत्य तस्याः एव अनुसरणं कार्यम्। ___ अन्ते वयं सर्वेऽपि द्वयोःग्रन्थ्योः स्वरूपं विज्ञाय ते च अपाकृत्य शुभदिशं प्रति प्रयतेमहि इत्याकाङ्क्षा मे।
(२)
निरावृता विविधेषु नगरेषु स्थितानि रमणीयानि अभ्रंलिहानि उत्तुङ्गानि च जिनमन्दिराणि निरीक्षमाणाः सगुरुवरं वयं 'पूना'नगरं आगताः । तन्नगरात् निर्गत्य 'भिवरी'पुरं प्रति गतवन्तः आस्म । तदा मध्येऽतिदुर्लङ्घनीयोऽत्युच्चः पर्वतीयमार्गः आगच्छनासीत् । स पर्वतीयमार्गः तादृशः उत्तुङ्गः आसीत् यत्तस्य दूरात् दर्शनमात्रेणैव समर्थपुरुषाणामपि हृदयं कम्पेत ।। __तं पर्वतीयमार्गमारोहता मया दृष्टं यत् विशेषभारखचितानि विशालकायवाहनानि मनुजौघान्वित बस'यानानि च शनैः शनैः अतिकष्टपूर्वकं तं मागं आरोहन्ति स्म । यथा गिरि मारोहमाणानां जनानां हृदयस्पन्दाः वर्धेरन् तादृशी स्थितिः एतेषां वाहनानां आसीत् । तथैव विस्तृतोदरा: गुरुदेहिनः अपि सखेदं उपरि अगच्छन् । किन्तु लघुवाहनानि लघुशरीरिणोऽपि च
Page #70
--------------------------------------------------------------------------
________________
अल्पप्रयासेनैव सहजतया कठिनमपि तं पर्वतीयमार्ग आरोहन्ति स्म।
उत्पन्नः तस्मिन् काले खलु मे मानसे विमर्शः । आस्तां बृहत्कायेन, किन्तु यदि नाम कर्मभारेण वयं लघूभूयेमहि तर्हि किम् ? अतीव सुन्दरम्, मोक्षरूपस्य गिरेः आरोहणं कियत्सरलं भवेत् ! अहो ! निश्चयेन निराबाधं अवरोधरहितं च वयमपि मोक्षस्थानमवाप्तुं शक्नुयाम।
वस्तुतोऽस्त्यात्मा कार्पासवत् अतिलघुः । किन्तु स आत्मा राग-द्वेष-क्रोध-अभिमानमाया-प्रपञ्च-ईर्ष्या-घृणा-निर्दयता-कृतदोषेऽपि आनन्द-आत्मवंचना-आत्मख्यातिकामनाअसत्याक्षेपदान-स्वदोषादर्शन-परदोषदर्शन-विकार वासना-मृषावाद-कूटराजनीति-अन्योत्कर्षेऽरुचि-परनिन्दा-असूयादिभिः नैकैः दुर्गुणैः आवृतः । तेषां दुर्गुणानां भारेणैव आत्मा गुरुः अस्ति । प्रतिदिनं ते दुर्गुणाः आत्मानं विशेषतः आवृणोति तथाऽपि तन्नाशार्थं च नाऽस्माकं लेशोऽपि प्रयत्नोऽस्ति । हा, नैष अशक्यः तन्नाशोऽस्ति ।। __श्रीमहावीरविभोः आत्माऽपि अस्मादृश एवाऽऽसीत् । अद्यपर्यन्तं ये केऽपि वीतरागाः बभूवुः । ते खलु न जन्मतः सर्वज्ञाः-वीतरागिणः, किन्तु अपूर्ववीर्योल्लासेन कठोरतपःसाधनया च आत्मनः उपरि लग्नाः दुर्गुणाः अपास्ताः तैः । एवं आत्मनो विशुद्धं स्वरूपं आराध्याष्टकर्मक्षयं कृत्वा आत्मनो लघवः कृताः । पश्चात् शिवङ्गताः ते सर्वेऽपि । तथैव यदि चेत् अनादिकालीनाः आत्मनि संलग्नाः दुर्गुणाः अपाक्रियन्तेऽस्माभिः तर्हि पौरुषेण प्रकटीभवति आत्मनः सहजं स्वरूपम् । पश्चात् वयमपि विनाऽवरोधं मोक्षं गन्तुं समर्थाः भवामः ।
यथा प्रवाहिपदार्थेषु जलमतीव गुरु अस्ति । किन्तु यदा अग्निना सह तस्य संयोगो भवेत् तदा वैज्ञानिकदृष्ट्या जलस्थितानि कानिचिद् घटकतत्वानि दहन्ति, ततो घटकतत्वेषु दहत्सु जलमेव बाष्पीभूय उपरि गच्छति, लघुभवनात् । ___ अस्माकं जिनशासनेऽपि उदाहरणानि सन्ति । निरूपणं तेषां श्रीरत्नशेखरसूरिभिः कृतं श्रीगुणस्थानक्रमारोहसूत्रे
कुलालचक्रदोलेषु मुख्यानां हि यथा गतिः । पूर्वप्रयोगतः सिद्धा सिद्धस्योर्ध्वगतिस्तथा ॥
Page #71
--------------------------------------------------------------------------
________________
एरण्डफलबीजादे-बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेक्ष्यते ।। यथाधस्तिर्यगूर्वं च लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते तथोर्ध्वगतिरात्मनः ।। मृल्लेपसङ्गनिर्मोक्षा-द्यथा द्रष्टाऽप्स्वलाबुनः ।
कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धगतिः स्मृता ।। यथाऽलाबु लघु अस्ति, स सदा जलस्योपरि तरति । किन्तु यदा तस्योपरि मृत्तिकालेपः क्रियते तदा कियद् गुरु तदा भवति । एवं क्रमशः अष्टशः लेपे कुर्वति सति तदलाबु गुरूभूय अधोगत्वा जले निमज्जति । अथ क्रमशोऽष्टशो लेपो यः कृतः स लेपो यदा दूरीक्रियते तदा जलस्योपरि आगत्य तरति तदलाबु ।
एवं दुर्गुणैः तथाऽष्टभिः कर्मावरणैः बद्धः आत्मा यदा निरावृतो, मुक्तश्च भवेत्तदा आत्मा सहजतया शीघ्रमेवोर्ध्वं गच्छति ।
वयं तां दिशं प्रति प्रयतेमहीति शम् ।
गता वेदविद्या गतं धर्मशास्त्रं गतं रे ! गतं रे ! गतं रे ! गतं रे ! । इदानीन्तनानां जनानां प्रवृत्तिः सुबन्ते तिङन्ते कदाचित् कृदन्ते ॥
Page #72
--------------------------------------------------------------------------
________________
आख्यादः
हृदयप्रदीपः
- मुनिकल्याणकीर्तिविजयः
श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थ श्रमप्रजननो न तु मूलभारः ॥ (हृदयप्रदीपषट्त्रिंशिका - ३२)
ऐदंयुगीनो ह्यस्माकं समाजोऽर्थप्रधानः । यतः कुतोऽपि येन केनाऽपि प्रकारेण धनं कथं लभ्यत - इत्येतदेव चिन्तयन्ति जनाः । प्रायः तान्येव कार्याणि कुर्वन्ति ते यैरार्थिको लाभो भवेत् । तथाऽध्ययनादिकमपि तदेव कुर्वते यद् धनार्जने एव उपयोगि भवेत् । यद्यप्येतस्याः परिस्थितेरुत्तरदायित्वमस्माकमर्थप्रधानायाः समाजव्यवस्थाया एवाऽस्ति । यतो यत्र पश्यामस्तत्र धनस्यैव निर्बाधं साम्राज्यं विलसद् दृश्यते । अतः कारणादेवाऽस्माकं समाजे एतादृशोऽध्ययनस्य भूयान् महिमाऽस्ति ।
1
प्राचीने काले हि जनेभ्योऽर्थार्जनोपयोगिशास्त्रैः सह दार्शनिकाध्यात्मिकशास्त्राण्यपि बहु रोचते स्म, यतस्तेषां लक्ष्यं केवलं जीवननिर्वाहो नाऽऽसीत्, अपि तु चित्तशुद्धिः, उन्नतो जीवनव्यवहारः, गुणवृद्धिरित्यादिकमप्यासीत् ।
अद्यत्वे तु जनानां व्यावहारिक-सामाजिक- भौतिकशास्त्राणामध्ययनमेव प्रमाणं यस्य फलस्वरूपेण ते आर्थिक-सामाजिक-व्यावहारिकेषु क्षेत्रेषु महतीं पदवीं प्राप्नुयुः । अस्य लक्ष्यस्य सम्प्राप्त्यर्थं ते सर्वानपि नैतिक-धार्मिकसिद्धान्तान् मूल्यांश्च भस्मसात् कुर्वन्ति, यथाकथमपि च तत् प्राप्नुवन्ति । तेषां चित्तं भौतिकवस्तुषु तथा रतं भवति यथा तेऽन्यत् किमपि विचारयितुं सर्वथाऽक्षमा भवन्ति । तथाऽपि कदाचित् निजमहत्त्वादिवृद्ध्यर्थं तेऽन्यत्र शास्त्रेषु दृष्टिपातं कुर्वन्त्यपि, यदि कश्चित् समयोऽवशिष्यते । अतः चित्तशुद्धयादिकृते तु शास्त्रपठनस्य वार्ता दूरापास्तैव ।
I
ये केचिदपि शास्त्राणि पठन्त्यात्महिताय तदनुसारं च जीवनपथं यापियतुं यतन्ते, त एव सर्वं सामाजिकं व्यवहारं कुर्वन्तोऽपि इहाऽधिकृताः । शास्त्रकारमहर्षिस्तानेवमुपदिशति यन्निरर्थकं सर्वमपि परित्यज्य परमतत्त्वप्रापणे पथप्रदर्शकः श्लोक एकः पठितव्यो येन तदर्थचिन्तनादि
५९
Page #73
--------------------------------------------------------------------------
________________
I
कृत्वा तद्भावनया मनो भावयित्वा निजचैतन्यं च प्रकाशियत्वा परमतत्त्वप्राप्त्यै यत्नः क्रियेत प्रभूतानां ग्रन्थानां पठनं हि कदाचिद् व्यर्थमपि भवेत् यतस्तत्र जनमनोरञ्जनं कदाग्रहपुष्टि - रहङ्कारवृद्धिरित्यादयो दोषा अपि सम्भवेयुः ।
यद्यपि पठनमेतदतीवाऽऽवश्यकमुपयोगि च यदि तत् स्वान्यचित्तप्रकाशनाय स्वान्तः सुखाय दोषहानये च सहायकं भवेत् । तथा विविधशास्त्राणि पठतैव च परमतत्त्वप्राप्तिपथदर्शकः श्लोको वाक्यं वाऽपि प्राप्येत । यतो वयं न जानीमो यत् कुतोऽस्माकं स प्राप्येत ।
इदमेव प्रतिवस्तूपमया भावयति, यथा - इह जगति विविधरोगाणामुपचारकरणे समर्थानि बहूनि औषधानि विद्यन्ते किन्तु सञ्जीवनी नामौषधी त्वेकैव सर्वेषां रोगाणामुपचाराय समर्था । यदि सा लभ्येत तदाऽन्येषामौषधानां समुदायो वृथापरिश्रमजनक एव । यत एकयैवाऽनया सर्वेषामप्यौषधानां कार्यं क्रियते ।
किन्तु तस्याः प्राप्त्यर्थं भूरिपरिश्रमः कर्तव्यः । प्रथमं तु का सञ्जीवनी ? कानि तल्लक्षणानि ? इत्यादि सर्वं तत्सम्बिन्ध परिज्ञानमावश्यकम् । ततः सा कुत्र स्थानेऽरण्यादिके प्ररोहति कुतो वा प्राप्यते इत्यादि ज्ञातव्यम् । ततश्च तत्स्थानं प्राप्य तत्रस्थानि सहस्रशो मूलानि चित्वा परीक्ष्य च तेषु कतमत् सञ्जीवनीमूलमिति संशोधनीयम् । यदि कथमपि भाग्यवशात् सा प्राप्ता तदा सिद्धं न: समीहितम् !
एवं मुक्तिपथप्रकाशकश्लोकप्राप्तिरपि सञ्जीवनीप्राप्तितुल्यैव । तत्प्राप्त्यै हि प्रथमं मुमुक्षाऽऽवश्यकी । तदनन्तरं केषु केषु शास्त्रेषु मुक्तिप्राप्त्युपायाः सन्दर्शिता इति गवेषणीयम् । ततो निरर्थकं सर्वमपि प्रयत्नपूर्वं परिहृत्य विशेषतया तत्तच्छास्त्राणि परिशीलनीयानि । यद्यपि परोपकारप्रवणैः शास्त्रकारभगवद्भिर्बहूनि तादृशानि शास्त्राणि विरचितानि यानि पठतामन्तःकरणानि चेतियतुं सुसमर्थानि तथाऽपि "यस्य चित्तं यत्र स्थिरीभवेत् तस्मै तदेव हि रोचते” इति न्यायेन विविधग्रन्थानां परिशीलनेन कदाचित् तादृशः श्लोको लभ्येताऽपि येन चित्तं चेतितं भवति । तदनन्तरं हि नाऽऽवश्यकमन्यान्यशास्त्रपठनम् । केवलं श्लोकसन्दर्शितोपायानुसारं जीवनयात्रां निर्वोढुं प्रमादरहिततया प्रयत्नः कर्तव्यः । स एवाऽस्माकं परमतत्त्वप्रापको भविष्यतीति ।
101
६०
Page #74
--------------------------------------------------------------------------
________________
अलङ्कारविषयं किञ्चित्
स्वामी ब्रह्मानन्देन्द्रसरस्वती पो. कल्मने, मत्तीकोप्प - ५७७४०१
ता. सागर, जि. शिवमोग्ग, कर्णाटक. [I] भावापत्त्यलङ्कारो लक्षणोक्त्यलङ्कारश्च तथा च केषाञ्चिदलङ्काराणां स्वरचितदृष्टान्तश्लोकाः भावापत्त्यलङ्कारः
"भावापत्तिर्जडेऽप्यर्थे मानुषत्वप्रकल्पनम् ।
मत्पत्न्यै मेघ मे मित्र हर वाचो दयामय ॥" (यत्र मेघपर्वतादिस्थावरेषु जडेष्वपि मित्रता-भ्रातृत्वादि-बन्धुत्वं सहानुभूतिः करुणादयो मानुषसहजस्वभावाः आरोप्य अनुष्ठीयन्ते तथा च तथाहरणं तदर्थमपेक्षितानि पटुकरणानि, बुद्धिसामर्थ्य, यक्तायुक्तविवेचनं, प्रणयिवलासस्य परिज्ञानं, संभोग-विरहजनितवेदनानामनुभवः आपत्सु मग्नेभ्यः सुहृद्भ्यः सहायप्रदानञ्चेत्यादिमानुषव्यवहाराः प्रकल्प्य अनुष्ठीयन्ते तत्र भावापत्तिर्नाम अलङ्कारः । उदा. - मेघसंदेशे कविसार्वभौमकालिदासप्रणीते विरहसंतप्तो यक्षो मेघमुद्दिश्य, 'हे प्रियसख! दयामय ! विदूरस्मितायै विरहसंतप्तायै मत्पल्यै अचिरादेव प्रत्यागत्य त्वया "संगच्छामि तावत्पर्यन्तं कथंकथमपि जीवं धारय हताशा मा भूरि"तीमं मे संदेशं हर प्रापय एवं सोत्कण्ठं प्रार्थयते । अन्ते संदेशमुपसंहरन् सप्रेमोत्कण्ठं प्रियसखाय प्रेमाशिषो विधाय आत्मीयतया तमापृच्छति -
"एतत्कृत्वा प्रियमनुचितं प्रार्थनादात्मनो मे सौहार्दाद् वा विधुर इति वा मय्यनाक्रोशबुद्ध्या । इष्टान् देशान् जलद विहर प्रावृषा संभृतश्रीः ।
मा भूदेवं क्षणमपि च ते विद्युता संप्रयोगः ॥" अत्रेदमवधेयम् यत् भावापत्त्यलङ्कारस्य समासोत्त्यलङ्कारे नातिव्याप्तिः, यतो हि तत्र समासोक्तौ 'अयमैन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः' इत्यत्र चन्द्रोदयवर्णने प्रस्तुते रक्तादिविशेषणसाम्यात् तत्सामर्थ्याच्च नायिका-नायकवृत्तान्तस्य अप्रस्तुतस्य प्रतीतिः परिस्फूर्तिमात्रं
Page #75
--------------------------------------------------------------------------
________________
विवक्ष्यते । तथा हि-रक्तशब्दस्य श्लेषेण लोहितानुरक्तसाम्यात्, तथा च मुखशब्दस्य प्रारम्भभागेऽर्थात् प्राचीदिशि वदने च साम्यात्, चुम्बतीत्यस्य संस्पर्शवदनसंयोगसाम्यात् चन्द्रमाःशब्दगतपुंलिङ्गेन ऐन्द्रीशब्दगतस्त्रीलिङ्गेन तत्प्रतिपाद्य, इन्द्रसंबन्धेन परवनितासक्तकामुकवृत्तान्तस्य च प्रतीतिः परिस्फूर्तिमात्रं विवक्ष्यते । अत्र तु भावापत्त्यलङ्कारे न केवलं प्रतीतो, परिस्फूर्ती अलङ्कारः पर्यवस्यति किन्तु मानुषभावाः सुस्पष्टमारोप्य मानुषसहजव्यवहारा: - बुद्धिसामर्थ्ययुक्तायुक्तविवेचनादिपटुकरणमात्रसाध्याः- अनुष्ठीयन्ते इत्यस्ति विशेषः।।
किञ्च समासोक्तौ तदलङ्कारसिध्दये श्लेषोपकारकत्वमपेक्ष्यते अत्र तु भावापत्त्यलङ्कारे तदलङ्कारसिद्धयै श्लेषोपकारकत्वस्य अपेक्षा नास्तीत्यप्यस्ति विशेषः ।। ____ एवमेव भावापत्त्यलङ्कारस्य ‘वदनारविन्द' मित्याधुदाहरणवति रूपकालङ्कारेऽपि अतिव्याप्तिर्न संभवति । भावापत्त्यलङ्कारे यथा मानुषभावानामारोपः तथा च मानुषव्यवहाराणां अनुष्ठानं नियमेन अपेक्ष्येते तथा रूपकालङ्कारे नेति सुग्राह्यम् । (२) लक्षणोक्त्यलङ्कारः
"लक्षणोक्तिविशिष्टानां लक्षणानां समुच्चयः ।
काकानां वक्रदृष्टिश्च वञ्चनं सहभोजनम् ।। " (यत्र कस्मिंश्चित् विशिष्टवर्गे, विशिष्टसमुदाये, लक्षणानि विशिष्टतया भाव्यन्ते तत्र लक्षणोक्तिर्नाम अलङ्कारः । काकानां वक्रदृष्टिः वञ्चनं, तथा खाद्यमुपलभ्य स्वजातिबन्धून् सर्वतो समाकारियत्वा संभूय भोजनमिति लक्षणसमन्वयः । लक्षणोक्तेरपराण्युदाहरणानि -
"पौरुषञ्चाभिमानश्च वादे युद्धे जिगीषता। व्यवसायश्च वाणिज्ये ज्ञाने दाने च दक्षता ॥" "द्यूते स्त्रियां तथा मद्ये मादकेषु विलासिता ।
लौल्यं कुटुम्बिनिर्वाहे पुंसां सन्ति विशेषतः ॥" "मितव्ययो धृतिः सेवा दुःखितेषु दयार्द्रता । लज्जालङ्कारप्रीतिश्च गृहकार्ये च दक्षता ॥"
६२
Page #76
--------------------------------------------------------------------------
________________
“अतिमोहश्च चापल्यं धाष्टर्यं कलहशीलता ।
प्रजल्पः* पारतन्त्र्यञ्च स्त्रीणां सन्ति विशेषतः ॥ "
अत्रेदमवधेयम् यत् - लक्षणोक्त्यलङ्कारस्य स्वभावोक्त्यलङ्कारे नातिव्याप्तिः । यतो हि - तत्र स्वभावोक्तौ 'कुरङ्गैरुत्तरङ्गाक्षैः स्तब्धकर्णैरुदीक्ष्यते' इत्यद्युदाहरणवति स्वजातिस्थस्य स्वावयवभङ्गिविशेषस्य कादाचित्कस्य विवक्षास्ति । अत्र तु लक्षणोक्तौ न केवलं कादाचित्कस्य भङ्गिविशेषस्य, अपि तु यावज्जीवं तत्समुदाये विद्यमानेषु, सामाजिकसंबन्धेषु, वृत्तिव्यवहारेषु आचरणेषु विवक्षास्तीत्यस्ति विशेषः ।
अपि च तत्र स्वभावोक्तौ कस्यचिद् व्यक्तिगतस्य विशिष्टस्वभावस्य (Special Personal trait or mannerism) विवक्षाऽस्ति । अत्र तु लक्षणोक्तौ बहूनां लक्षणानां समुदायविशिष्टानां गुम्फनमित्यप्यस्ति विशेषः ।
[II ] केषाञ्चित् प्रधानालङ्काराणां स्वरचितानि रसवन्ति सुभाषितस्थानीयानि नीतिसच्चारित्र्यबोधकानि उदाहरणानि
(१) रूपकालङ्कार : “भावोन्मादैर्विलासैर्नवमधुरसामोदमत्तैः कटाक्षैः
पर्यायोक्त्या समाध्या सपरिकरसमासोक्तिभिश्चाङ्गरागैः । श्लेषोत्प्रेक्षादुकूलैः सुललितकलितैः चारुमुक्ताकलापैः मालाभूषैर्विचित्रैर्विलुलितयमकैर्भाव्यते काव्यलक्ष्मीः ॥” (वृत्तं स्रग्धरा)
(२) परिकरालङ्कारः
"भवाब्धिमग्नं परिपाहि सद्यः प्रपन्नबन्धो भव पार्वतीश ! ।
अगाधभक्त्या महतोडुपेन महेश ! कैवर्तक ! तारयस्व ॥" (वृत्तं उपेन्दवज्रा) "बालकृष्ण नवनीतमोषक क्षुद्रजाऽथ बहुपीडितोऽस्मि भोः ।
तन्निवार्य शयनाय कल्पय क्षीरवारिनिधितल्प श्रीहरे ! ॥ " ( वृत्तं रथोद्धता )
* प्रजल्पः - क्षुद्रप्रलापः (Gossip, Fribolous talk)
६३
Page #77
--------------------------------------------------------------------------
________________
"खण्डपरशुना तूर्णं जामदग्ने ! सुधीर ! मे ।
दुर्विदग्धमहामोहक्षत्रयूथान् विनाशय ॥" (वृत्तं अनुष्टुप्) (३) दृष्टान्तालङ्कारः
"नारीणां काञ्चनं हृद्यं गानं हृद्यं कलासु च !
पाके च लवणं हृद्यं काव्ये हृद्यं सुभाषितम् ।।" (वृत्तं अनुष्टुप्) (४) अर्थान्तरन्यासालङ्कारः
१. सामान्यार्थान्तरन्यासालङ्कार : (सामान्यस्य) प्रसिद्धस्य पक्षेषु अन्वयः"स गाधिपुत्रः पिशिताशनोऽभूदथाप्यहल्या कुलटा विपन्ना ।
शरीरपीडा महती हि लोके अपत्यमप्यत्ति जिजीविषुः श्वा ।" "अहो नवोढां विजहौ स बुद्धो भुवं हरिश्चन्द्रपवित्रनामा। जितेन्द्रियाणां विदितं हि तेजः यतिविवेको जगतां विजेता ॥" २. विशेषार्थान्त रन्यासालङ्कारः (पक्षेषु दृष्टेभ्यः सामान्यस्य निष्पादनम् -
Inductive reasoning) "पयो भुजङ्गेऽम्बुनिधौ सरिच्च विषं तथा क्षारदशामुपैति । अतो विनाशः सहवासदोषे यथा च वंशैर्हरिचन्दनस्य ॥" "सुमैश्च सूत्रं यवसं च धेन्वा महार्हणं दुग्धदशामुपैति ।
सता हि सङ्गे महिमानमेति यथाऽऽखुराराध्यगणाधिपेन ।" (वृत्तं उपेन्द्रवज्रा) (५) विरोधाभासालङ्कारः (६) असम्भवालङ्कारश्च
"प्रचण्डसेनाबलसज्जिताङ्ग्लान् को वेद नूनं नियतोपवासी।
जेतेति गान्धी निखिलन्निरस्य - निरायुधोऽसौ जगदेकवीरः ॥" सत्याग्रहसंकल्पशक्तियुतेन तपोबलेनेति विरोधपरिहारः। (वृत्तं उपेन्दवज्रा)
६४
Page #78
--------------------------------------------------------------------------
________________
(७) पर्यायोक्त्यलङ्कारः
“सौदामन्या पथि कनकाङ्गी मत्तापाङ्गा घोनरवघोषैः ।
पर्यायोक्तं बहुकृतवृष्ट्या मुञ्चत्येतन्नहि नहि चित्रम् ॥" - ( वृत्तं मत्ता)
( हन्त, भार्या मे कान्तिमती, सुलभकोपना दुर्वादिनी चेति विवक्षया तटस्थसखायं प्रति कस्यचिद् हतभाग्यस्य निवेदनेयं भङ्गयन्तरेण कृतेति पर्यायोक्त्यलङ्कारस्योदाहरणम् । 'मत्ता' इत्यत्र 'मदघूर्णिता, मत्ता नामवृत्तमिति श्लेषः ।
(८) तद्गुणालङ्कारः
“छद्मवेषधृतदुष्टमानसाः सद्य एव कृतशुद्धचेतसः । क्षुद्रकाच इव पद्मरागतः तदुणेन बसवेश्वरेण ते ।" (वृत्तं रथोद्धता । ददेति वृत्त्यनुप्रासः)
(९) पिहितालङ्कारः
"आपन्नसत्त्वां सरसीरुहाक्षीं दृष्ट्वैव भर्ता नितरां ननन्द । दोलां दुकूलं पिहितं सुदत्यै मिष्टं च हृष्टः समुपाजहार ॥" (वृत्तं उपेन्द्रवज्रा – ‘पिहितं' - गोपायितं, पिहितं नाम अलङ्कारश्चेति श्लेषः) पायसं कृष्णगीतम्
" दग्धं दग्धं त्यजतविरसं शब्दविभ्रंशपातं दुग्धं दुग्धं पुनरुपनिषद्वाक्यमेवाश्रयध्वम् । गायं गायं पिबत मधुरं सन्ततं साधुपीतं
पायं पायं भवत सुखिनः पायसं कृष्णगीतम् " (वृत्तं मन्दाक्रान्ता)
101
अत्याचारमनाचार-मत्यार्जवमनाजर्वम् । अतिशौचमशौचं च, षड्विधं कूटलक्षणम् ॥
६५
Page #79
--------------------------------------------------------------------------
________________
ग्रन्थसमीक्षिाभारतविजयम्"
समीक्षकः - डॉ.रूपनारायणपाण्डेयः एस्. २/३३०, राज्यशिक्षासंस्थानकालोनी,
एलनगञ्जः, प्रयागः, उ.प्र. २११००२ रचियता - आचार्यराधामोहनोपाध्यायः । 'विश्वम्भरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनीः', 'माता भूमिः पुत्रोऽहं पृथिव्याः ।' 'भूमेर्मातनिधेहि मा भद्रया सुप्रतिष्ठितम् ।' (अथर्व. १२/१/६, १२/१/१२, १२/१/६३) - इत्यादिवेदवचनेषु या राष्ट्रभक्तिभावना विद्यते, तामाश्रित्य बुधजनैः रामायण-महाभारत-रघुवंशशिवराजविजय-स्वराज्यविजय-विभूतिवन्दनास्तोत्र-भारतशतक-मातृभूलहरीस्वातन्त्र्यवीरशतक-श्रीगान्धिचरित-जवाहरतरङ्गिणी-इन्दिराकीर्तिशतक-शिवप्रतापबिरुदावली-कूहा-इन्दिराशतक-वीरतरङ्गिणीप्रभृतीनि बहूनि राष्ट्रियानि काव्यानि प्रणीतानि, प्रणीयन्ते च । तामेवोदात्तपरम्परामाश्रित्य कविवरेण राधामोहनोपाध्यायेन 'भारतविजयम्' इति महाकाव्यं व्यरच्यत। ___ महाकाव्येऽस्मिन् खण्डचतुष्टयं शोभते । प्रथमे 'इतिहासखण्डे' एकोनविंशतिःसर्गाः सन्ति, यत्र सरस्वतीवन्दना, दुर्गास्तुतिः, भारतवन्दना, जागरणगीतम्, तुलसीदासवन्दनम्, भारतवर्षः, बुद्धदर्शनम्, पोरसविजयः, चन्द्रगुप्तवर्णनम्, शुङ्गवंशविकासः, गुप्तकालः, उत्तरस्वर्णकालः, इस्लामस्य उत्पत्तिः, विकासः, सिन्धविजयः, भारत-महाभारतविस्तारवर्णनम्, कालिदासः, पाणिनिः, व्यासः, विश्वकर्मा, कुतुबुद्दीन ऐबक: अलाउद्दीनः, पद्मिनी, तैमूरः, सैयदः, बाबर:, हुमायूँः, अकबरः, जहाँगीर:, शाहजहाँ, औरङ्गजेबः, शिवराजवीरः, महाराणाप्रतापः, महाराज्ञी लक्ष्मीः, प्रथमस्वतन्त्रतायुद्धम्, मङ्गलपाण्डेयः, जालियाँवालाबागप्रसङ्गः, ऊधमसिंहः, स्वतन्त्रतासंघर्षः, चीतूपाण्डेयः, स्वतन्त्रताप्राप्तिः, कश्मीरसमस्यासंघर्षः गान्धिहत्या, चीनयुद्धम्, पाकयुद्धम्, लालबहादुरशास्त्रिविजयम्, बँगलादेशनिर्माणम् - इत्यादयो विषया मनोज्ञतया वर्ण्यन्ते । द्वितीये 'भक्तिखण्डे' (२०-२९ सर्गेषु) जैनधर्मः, शङ्कराचार्यः, रामानुजाचार्यः,
Page #80
--------------------------------------------------------------------------
________________
वल्लभाचार्यः, गौराङ्गः, तुलसिदासः, स्वामिदयानन्दः, अरविन्दः, श्रीरामशर्मा, आठवलेसिरडीसांई-हनुमानप्रसाद-करपात्र-अखण्डानन्द-रामकिङ्कर-रामसुखदास-आशारामश्रीमन्नारायणादयश्च सश्रद्धं प्रतिपाद्यन्ते । तृतीये 'प्रभक्तिखण्डे (३१-३७ सर्गेषु) गुरुनानकः, गुरुतेगबहादुरः, गुरुगोविन्दसिंहः, रामकृष्णपरमहंसः, विवेकान्दः, सत्यानन्दः, महात्मा गांधी, केशवहेडगेवारः, तिलकः, मालवीयः, सुरेन्द्रनाथवन्द्योपाध्यायः, दादाभाईनैरोजी:,गोपालकृष्णः, सावरकरः, खुदीरामबोसः, चन्द्रशेखर आजादः, भगतसिंहः, विनोबाः, सुभाषचन्द्रवसुश्च राष्ट्रसेवाभावनया कृतज्ञतया च चारुतरं चित्र्यन्ते । चतुर्थे 'विजयखण्डे' (३८-४१ सर्गेषु) नेतृणामध:पतनम्, अटलागमनम्, पोखरणपरीक्षणम्, कारगिलविजयः, सैनिकगीतम्, श्रद्धाञ्जलिः, जागरणगीतम्, भारतदर्शनम्, राष्ट्रवन्दनम्, कविकामना, नीराजनगीतम्, संस्कृतं कथं पठनीयं च प्रस्तूयन्ते । ग्रन्थादौ डा.राममूर्तिशर्मणः शुभा वाक्, प्रो.रमारञ्जनमुकर्जीमहोदयस्य प्राक्कथनमाङग्लभाषया, प्रकाशकीयं च विलसन्ति । ___ काव्यग्रन्थेऽस्मिन् नागरिककृपाचार्यसंवादरूपेणेतिवृत्तवर्णनेन प्राचीनकालतोऽद्यपर्यन्तं भारते ये विश्रुता वीराः, विद्वांसः, आचार्याः, कवयः साधवो राष्ट्रभक्ताश्च जाताः, तेषां मार्मिकं चित्रणं सरलया संस्कृतभाषया रम्यतया प्रस्तूयते । यत्र तत्र नववृत्तेषु मनोहराणि गीतानि खल्वस्य राष्ट्रियकाव्यस्य सरसतां संवर्धयन्ति । कवे राष्ट्रभक्तिभावना सर्वत्र हृदयं प्रसादयति। विलोक्यताम्,
"लखति कलामोऽटलसहायः भारतगौरवमम्बरे । पोखरणस्य प्रतिकणं शंसति भारतशौर्यमनागसम् । आगच्छतु आगच्छतु भ्रातः पश्यतु भारतमातरम् ।
मृत्तिकयास्याः तिलकं कार्यम् सैषा मृद् बलिदानिनाम् ।। ' (भा.पृ.४०३) स्वतन्त्रे भारते राष्ट्रभक्तिं विहाय नेतृषु या पदलिप्सा समजायत, सा कविं व्यथयति । भ्रष्टाचारेण सोऽतीव चिन्तितोऽस्ति।
'राष्ट्रेऽस्मिन् राष्ट्रभक्तिर्वे पदभक्त्या पदाहता। क्षुद्रस्वार्थाय नेतारः क्षुद्रकर्मपरायणाः ॥
Page #81
--------------------------------------------------------------------------
________________
राजकोषस्य लुण्ठनं चचाल भारते वर्षे । रक्षका भक्षका जाता: चाटुकाराश्च शिक्षकाः ।। नक्षत्राणां तु गगने गणना खलु संभवा । भ्रष्टाचारविलिप्तानां गणना नैव सभ्भवा ॥' (भा.पृ.३६३-६४)
भारतराष्ट्रस्य संरचनायां संरक्षणे संवर्धने च येषां महापुरुषाणां सपर्या विद्यते, तेषां सर्वथा निरपेक्षभावेन कीर्तनमस्य काव्यस्य गौरवं वितनोति । काव्यग्रन्थेऽस्मिन् महनीयकवीनां काव्यानामनुकरणं सहजतया द्रष्टुं शक्यते । दृश्यतां गीतगोविन्दकारस्य प्रभावः - 'चीनानुद्धरते भुवं निवहतेऽस्पृश्यान् समुद्विभ्रते। दुःखं दारयते कलिं छलयते शोकक्षयं कुर्वते। श्रीलङ्कां दयते सुखं वितरते कारुण्यमातन्वते । हिंस्रान् मूर्छयते दयाकृतिकृते बुद्धाय तस्मै नमः ॥' (भा.पृ.२४)
राष्ट्रभक्त्या साकं कवेः संस्कृतानुरागोऽपि नितरां प्रशंसनीयोऽस्ति । पठितव्यः संस्कृतस्य महिमा कवेर्वाण्याम् -
'माता पुत्रवती तस्य पत्नी च सधवा स्मृता ।
स्वसा भ्रातृवतस्य या वै पठति संस्कृतम् ॥' (भा.पृ.४०९) अत्र 'श्रेयावुभावुभौ.' (पृ.२३८) 'चढूंष्युन्मीलनाय' (पृ.३००), 'स्वपातयेच्छिर:' (पृ.३४३) इत्यादयो व्याकरणदृष्ट्या मुद्रणदृष्ट्या च चिन्तनीयाः । ग्रन्थोऽयं सर्वैः संस्कृतज्ञैः संग्राह्योऽस्ति ।
* प्रकाशकः - अनुरागप्रकाशन, ८२, रामकृष्णपुरलेन, शिवपुर, हावडा, ९१११०२ प्र. व. - रामनवमी, वि.सं. २०५८। पृ. सं. १० + ४१० । मूल्यम् - २५०/
६८
Page #82
--------------------------------------------------------------------------
________________
पत्रम्
आत्मीयबन्धो ! चेतन !
नमो नमः श्रीगुरुनेमिसूरये ॥
-मुनिधर्मकीर्तिविजयः
धर्मलाभोऽस्तु ।
अत्र सर्वेऽपि पूज्याः गुरुभगवन्त: मुनिवराश्च कुशलाः सन्ति । तत्राऽपि सर्वेषां देहे आनुकूल्यं वर्तेत एवेत्याशासे ।
अद्यावधि पत्रचर्चया "मनः एव संसारनिबन्धनं मोक्षकारणं च तथा मनसो लाभोऽलाभश्च तथैव कृतस्य सुकृतस्य दुष्कृतस्य वाऽनुमोदना गर्हा च करणीया" इत्यादिकं ज्ञातमेव त्वया । अद्य चित्तस्योपर्येव विमर्शस्य चिकीर्षुरहमस्मि ।
इदानीं "कर्मणा शुद्धिः" इति वाक्यं श्रीमद्भगवद्गीतायाः पठितम् । ननु वाक्यमेतद् गम्भीरार्थान्वितमतीव सुन्दरं चाऽस्ति ।
अस्ति कर्म-कार्यमेव चेतसो विशुद्धेः प्रधानं कारणम् । प्रतिक्षणं स्त्रीर्वा पुरुषो वा, बालको युवा वृद्धो वा, साधुजनो दुर्जनश्चेति निःशेषा जना: कर्म कार्यं प्रवृत्तिं वा कुर्वन्त्येव । कदाचित् कायेन देहेन च कर्माऽकुर्वन्नपि मनसा तु कर्म कुर्वते एव । न कोऽपि जीवः क्षणमपि कार्यं विना स्थातुमलम् । अस्त्वेतद् यद् निखिलमपि कर्म न चित्तशुद्धेः निमित्तम्, किन्तु कर्मयोगस्य भावनया यत्क्रियते यच्च क्रियमाणे सति चेतसि भावना अध्यवसायः परिणतिश्च निर्मला भवति तर्हि तत्कर्म चित्तविशुद्धेः कारणं भवति ।
भ्रातः ! चित्तं तु वेत्रयष्टिनिभं वर्तते । यथा वेत्रयष्टिः यथेच्छं वालयितुं शक्या तथैव चित्तमपि । प्रतिसमयमस्माकं प्रत्यक्षं शुभानि अशुभानि वा निमित्तान्यागच्छन्ति । न तैः दुष्टनिमित्तै: निजं रक्षितुमेकमपि स्थानमवशिष्टम् । शुभस्थानेष्वपि तेषां अशुभनिमित्तानां पादप्रसारणं प्रारब्धं एव । अद्य समस्तानि शुभानि स्थानान्यपि प्रपञ्च-अहङ्कार-ईर्ष्या-सत्तालालसा -असत्याक्षेप
६९
Page #83
--------------------------------------------------------------------------
________________
विकार-कामवासनादिभ्यो निमित्तेभ्यो मलिनानि कलङ्कीभूतानि च जानन्ति । तथाऽपि आपतति तस्मिन् काले मनसः कथं कीदृकीत्या वा वलनमस्माभिः विधीयते तस्योपर्येवाऽवलम्बते नो भाविकालः । ___ अथ यदि चेत् तस्मिन् काले तैरालम्बनैः नो मनो व्याकुलं भवेत्, मनसि सङ्कल्पा विकल्पाश्च प्रादुर्भवेयुः तथा घृणा द्वेषोऽरुचिश्च प्रजायेत तर्हि वयं च्युताः इति ज्ञेयम् । यदि चेन्मानसे दुर्भावः उत्पद्येत तदा "एतादृशः एवाऽयं संसार:, एतादृशि दुर्बलकाले दुष्टनिमित्तानां जाले बुधजन-साधुजन-शिष्टजना अपि पतिताः, अतो न काऽपि चमत्कृतिरत्र जीवानां पतने, किन्तु आश्चर्यमेतद् यदद्याऽपि पतनशीलकालेऽपि केऽपि जीवाः विशुद्धाहारविहारनीत्या संशुद्धाचारविचारपालनया च जीवनं गमयन्ति।" इति मत्वा चेतसि शुभभावना विशुद्धाध्यवसायो वैव धर्तव्यः । किन्तु कुत्राऽपि न करणीयो दुर्भावो द्वेषश्च कमपि प्रति, तथा एवमस्माकं स्वान्तं दुष्टनिमितैः कलङ्कितं यदि न भवेत् तद्देव मनसो निर्मलतां अवाप्तुं शक्यम् । अतः एव यदा यदा किमपि कार्यमारभ्यते तदा तदा दुष्टनिमित्तेषु आपतत्स्वपि चेतोऽमलीमसं कृत्वा शुभभावनामनुसृत्यैव स्वकार्यं विधेयम् । अन्यथा यदि नाम कार्यकरणकाले लेशोऽपि दुराशयः दुर्भावश्च सञ्जातस्तर्हि सर्वं कृतं शुभकार्यमपि मोघं निरर्थकं वा ज्ञेयम् ।
पूज्यपादैः श्रीसिद्धसेनदिवाकरसूरीश्वरैः कल्याणमन्दिराभिधाने स्तोत्रे निरूपितम् - "यस्मात् क्रियाः प्रतिफलन्ति न भावशून्याः ॥" शीलोपदेशमालायाः टीकायां श्रीसोमतिलकसूरीशः आह"अल्पा हि क्रिया भावसहिता स्यात् फलेग्रही।" महोपाध्यायश्रीयशोविजयवाचकैः ज्ञानसारप्रकरणे वर्णितम् - अन्तर्गतं महाशल्यमस्थैर्य यदि नोद्धृतम् ।। क्रियौषधस्य को दोषस्तदा गुणमयच्छतः ।।
न “कर्मणा शुद्धिः" इति सूत्रस्य तात्पर्य "सदा कर्म कुर्वन्तु, ततः एव च चित्तस्य शुद्धिः भविष्यतीति तु न, अपि तु यस्य कस्याऽपि कार्यस्य करणात् मानसे शुभभावाः उद्भवेयुः तथा निर्मूलाश्च भवेयुः दुष्टभावाः" तत्कार्यम् । नास्त्यत्राऽधिकं महत्त्वं कार्यस्य किन्तु
Page #84
--------------------------------------------------------------------------
________________
तत्कालीनभावस्यैव।
यथा-कोऽपि वणिक् धान्यादिकं विक्रीणाति । तदा यदि चेत् खलु आपणागतैः बालैः वृद्धैः वा सह नीतिपूर्वकं तुल्यतया व्यवहरेत् सः, न कानपि वञ्चयेत् तर्हि सा क्रियाऽपि तदर्थं चित्तशुद्धः कारणं भवति । यतः तस्य चित्ते तत्कार्यात् समता प्रादुर्भूताऽस्ति ।
तथैव नापितस्य क्रिया तु अधमाऽस्ति, वयं सर्वेऽपि तं नापितं तिरस्कुर्मः । तथाऽपि यदि नाम सः अन्येषां केशलुञ्चनकाले विमृशेत् "सदाऽहमन्येषां विशुद्धिं करोमि, किन्तु मच्चित्ते नीरन्ध्र वर्तमानान् काम-क्रोध-गर्व-विकृति-वासनादीन् दुर्गुणान् अपाकर्तुं कदा समर्थो भवेयमि"ति । तर्हि बाह्यदृष्ट्या तुच्छयाऽपि क्रियया चित्तशुद्धिः भवेत् यतो मानसे विशुद्धभावः संजातः । इत्युक्तम् महाभारतेऽपि।
पूज्यपादैः चतुर्दशशतग्रन्थप्रणेतृभिः श्रीहरिभद्रसूरिभिरपि गदितम्नार्या यथाऽन्यसक्तायास्तत्र भावे सदा स्थिते । तद्योगः पापबन्धश्च, तथा मोक्षेऽस्य दृश्यताम् ॥ (योगबिन्दुसूत्रम् - २०४)
अतः एव न केवलमस्माकं शासने किन्तु सर्वत्रैव न केवलं बाह्यक्रियायाः प्राधान्यं, अपि तु अन्तर्गतस्य भावस्यापि तावत्येव महत्ताऽस्ति । ततः एव शुभभावपूर्वकं विहितं दानादिकं धर्मकार्यमेव शोभनं-सफलं वा भवति । भावशून्यं दानादिकं कर्म केवलं क्रियामात्रमेव भवति, तेन न कोऽपि आभ्यन्तरो लाभः ।
श्रीपालचरित्रे श्रीरत्नशेखरसूरी आह - तत्थ वि भावेण विणा दाणं न हु सिद्धिसाहणं होइ। सीलं पि भाववियलं विहलं चिय होइ लोगंमि ।। भावं विणा तवो वि हु भवोहवित्थारकारणं चेव । तम्हा नियभावुच्चिय सुविसुद्धो होइ कायव्वो ।
ततो बन्धो! इदानीं लोके समाजे च तीर्थयात्रा-पदप्रवास-संङ्घ-प्रतिष्ठा-महोत्सवरूपायाः बाह्यप्रवृत्याः आडम्बरस्य चौरभ्रीयप्रवाहो यः प्रवर्तते सर्वतः, तस्मात् प्रवाहात् सुरक्षितान्तरेण गतिः कार्या, कदाऽपि कुत्राऽपि कथमपि तत्र बाह्यधर्मे मा मुह्येः । त्वं तु आत्मविशुद्धिमात्रं
Page #85
--------------------------------------------------------------------------
________________
संलक्ष्यैव सदा वर्तेथाः । एतेन न खलु विरोधो बाह्यक्रियायाः, परंतु यदृष्ट्या यद्रीत्या च भावविहीना आत्मशुद्धिरहिता या सम्मूच्छिमतुल्या क्रिया क्रियते तेन सहैव विरोधोऽस्ति ।
न खलु बाह्यधर्मस्याऽऽचरणमात्रेण कल्याणं, अपि तु तत्क्रियाकाले स्वान्ते वर्तमानपरिणत्यैव कल्याणं भवति। तथैव बाह्यसंसारं विहाय संन्यासग्रहणमात्रेण दीक्षाग्रहणमात्रेण वा न धर्माराधना, किन्तु मनसि रममाणा वस्तुनोऽभीष्टव्यक्तेश्च याऽऽसक्तिः ममता वा, तस्याः त्यागः एव धर्माराधना, तथा स एव वस्तुतो दीक्षा-संन्यासो वाऽस्ति । एष एव निष्कर्षः 'कर्मणा शुद्धिः' इत्यस्य सूत्रस्य।
अन्यथा कदाचिदेवं भवेत् यद् संसारं निराकृत्य संन्यासमादाय सोत्साहमानन्दं च नवीनमपरिमितं संसारं सृजेत् । वञ्चयेत् निराबाधं माया-असत्यभाषण-प्रपञ्च-कूटराजनीतिरूपं आयुधं संगृह्य मुग्धजनान् स्वरचितमायाजालेन । विकारवासनायाः तु महोदधिः उच्छलेत् हृदये। कल्पनाऽप्यशक्या यस्य परिग्रहस्य, तादृशः परिग्रहो धरेत् । एतादृशं वर्तनं यदा दृष्टिपथमायाति तदा विमर्शः जागति 'अस्मात् संसारी जीवोऽपि श्रेष्ठः' इति । __ वस्तुतो वने वसनं, गुहायां वर्तनं, कुटुम्ब-स्त्री-सुखसाधनस्य त्यजनं, उत्कृष्टतपसः करणम्, उग्रविहारस्य आचरणं, इत्यादिबाह्यक्रियामात्रेण भावशून्यधर्मानुष्ठानकलापेन च न संसारान्मुक्तिर्भवेत्, न च चित्तशुद्धिर्भवेत्; किन्तु मनसि संलग्नाऽऽसक्तिः अतृप्तिः आकाङ्क्षा च यदा दूरीक्रियेत तदैव ताः ताः क्रियाः सफलाः भवेयुः । तत्क्रियायाः सफलत्वादेव चित्तं निर्मलं भवेत्, ततः एव संसारात् विमुक्तिः भवेत्, नाऽन्यथा ।
एकः प्रसङ्गः स्मर्यते -
आसीदेकः संन्यासी। 'यो द्वादशवर्षपर्यन्तं मौनं बिभृयात् स वचनसिद्धिमवाप्तुं शक्नुयात्' इत्याकर्णितं तेन । ततोऽजनिष्ट तस्य वचनसिद्धेरभीप्सा ।
एकदा स्वस्पृहापूर्त्यर्थं गिरिं जगाम । तत्रैकाकी एव एकस्यां गुहायां गत्वा स्थितवान् । एवं वाग्व्यापारमृते द्वादशवर्षं वीतम् ।
अथ स्वावधि पूर्णमिति ज्ञातम् । 'मया वचनसिद्धिः प्राप्ता' इति मन्वानः स स्वस्थानं गन्तुं प्रवृत्तः । तस्मिन्नेव काले कोऽपि जनः सन्मुखमागतवान् । तेन किमपि पृष्टम् । ततोऽपशकुनं
Page #86
--------------------------------------------------------------------------
________________
भूतं इति मत्वा तस्य चित्ते क्रोधाग्निः प्रदीप्तः । कृतोत्कृष्टसाधनः स संन्यासी उवाच"अशुभं ते भवतु " इति ।
किं ननु संभवेत् द्वादशवर्षपर्यन्तं कृतायाः साधनायाः फलमेतत् ? न हि कदाऽपि । तथाऽपि केन कारणेन एवं भूतम् ? एकमेव कारणमत्र यन्न खलु सदा बाह्यतपसः आराधनया, उत्कृष्टविहारयात्रया, दिनपर्यन्तं पठन-पाठनमात्रेण, निरन्तरं बाह्यक्रियाचरणेन च चित्तशुद्धिर्भवति, किन्तु तत्तत्कार्यकरणकाले यावती मनसः परिणतिः निर्मला भवेत् यावान् च तत्क्रियां प्रति आदरो बहुमानोऽहोभावश्च जागृयात्, तावत्येव चित्तविशुद्धिः भवेत् । एतादृशी चित्तशुद्धिरेव मोक्षमार्गस्य कारणमस्ति । __ "समस्तक्रियायाः योगेऽपि तथा चारित्रादिरूपबाह्यानुष्ठानेषु सत्स्वपि शुभपरिणामाभावे न मोक्षो भवति । अर्थात् विशुद्धाध्यवसायः एव तत्र (मोक्षे) कारणमस्ति।" इति श्रीधर्मबिन्दुग्रन्थेऽपि कथितमस्ति। __ अधुनाऽऽवश्यकक्रियायाः कालः प्राप्तो भवति, ततः 'कर्मणा शुद्धिः' इति सूत्रात् विधेयात्मकस्य कर्मणः फलं दर्शितम् । अथाऽऽगामिनि पत्रे एतत्सूत्रानुसारेणैव निषेधात्मकेन कर्मणा किं भवेत्, तस्य फलं किं ? तथाऽन्यदपि किञ्चिद् लेखिष्यामि, इति शम्।
नीतिज्ञा नियतिज्ञा ब्रह्मज्ञा अपि भवन्ति शास्त्रज्ञाः । वेदज्ञा अपि लभ्याः स्वाज्ञानज्ञानिनो विरलाः ॥ (अप्पय्यदीक्षितः)
७३
Page #87
--------------------------------------------------------------------------
________________
STAGE
-
अनुवादव
अमरत्वाभीप्सा
33.
66
3030826038888
-मुनिजिनसेनविजयः ऋषभाञ्चलशिखरमारूढोऽहमेव समस्तभूमण्डलस्य प्रथमश्चक्रवर्ती इति मन्यते स्म चक्रवर्ती सम्राड् भरतः। स च गिरिशिखरे स्वस्य नामाङ्कनं कर्तुमैच्छत् । तस्य चित्ते मिथ्याभिमान आसीत् यत् “तत्र मम नामैव प्रथमं भविष्यति।" अतस्तत्र गत्वा तेन स पर्वतः आशिखरं सर्वतः सूक्ष्मदृष्ट्या विलोकितः, किन्तु तत्रत्यां स्थितिं दृष्ट्वा स स्तब्यो बभूव । पूर्वमेव तत्र पर्वतशिखरे बहूनि नामानि लिखितानि आसन् । तानि सर्वाण्यपि नामानि चक्रवर्तिनां नामान्येवासन् । तत्र एकमपि स्थानं नावशिष्टम् यत्र स स्वनाम लेखितुं शक्तो भवेत्, तेन भरतः खिन्नोऽभूत् । तदा तेन ज्ञातं यद् 'मे अभिमानो मिथ्याऽस्ति' इति । तत्पश्चात् विवशतया भरतेन अन्यस्य चक्रवर्तिनो नाम उत्कीर्णं, तदनु तत्र आत्मनो नाम लिलिखे। अथ यदा स नगर्यामागतस्तदा राजपुरोहितेन उक्तं "हे राजन् ! अपरस्य नाम उत्कीर्य स्वनाम्नः स्थापनस्य परम्परायाः भवानेवाद्यप्रवर्तकोऽभवत् ।" "को जानाति यद् भवन्नामापि केन कदा उत्कीर्येत? " इति । तदा अमरत्वं प्रति विचाराणां वैयर्थ्यमेव स्पष्टतया भरतेन ज्ञातम् ।
(अनूदितम्)
-
-
Page #88
--------------------------------------------------------------------------
________________
अनुवादन
ईया
oices
2303
ANSAR
01
.88688003800msoot
anRRRRREE
-मुनिधर्मकीर्तिवजयः केन क्रियते ईर्ष्या? भवति यो दुर्बलः कापुरुषो वा स एवेल् करोति किन्तु न वीर्यवान् कदाऽपीढ़ें करोति ।
यो वीर्यवान् उत्साही पराक्रमी च स स्पर्धां कुरुते । यो दुर्बलो निरुत्साही जश्च स ईष्यां विधत्ते । । एतादृशो निरुत्साहीामृते न किमपि कर्तुं समर्थः । तस्य चित्ते न किमपि कर्तुं जिज्ञासा भवेत्, न च किमपि सुन्दरं कार्यं कर्तुमुत्साहो भवेत् । ततो हन्त ! नेदृग्जनानां घृणा, किन्तु करुणैव चिन्तनीया। * अस्माभिः तादृशं सुन्दरं कार्यं करणीयं यद्विस्मितः सन्तोऽन्ये सहजभावेन वर्णयन्ति । किन्तु किं क्रियतेऽस्माभिः ? एतदेव यदन्येषां प्रशंसनीय कार्य दृश्यते उत केनाऽपि वर्ण्यते तदा तं कार्यं संदृश्य मनसि ईर्ष्याग्निरुद्भवति । पश्चात् स तस्य गुह्यदोषान् दुर्गुणान् चैव मृगयते । ततस्तान् दोषान् मार्गयित्वा तस्य शुभगुणानपि दोषदृष्ट्यैव पश्यति, तथा खलु तत्रैव तस्याऽऽनन्दोऽपि जायते । तं विकृतानन्दं प्राप्य तदा तस्य चित्ते एवं भवति यत् "सर्वे जनाः तमाह्वयन्ति तं प्रशंसन्ते" किन्तु स कीदृशोऽस्ति तत्तु अहमेव जानामीति तथाऽपि केवलमेतादृक् चिन्तनं विकृतस्य रुग्णस्य च चित्तस्यैव लक्षणमस्ति । एतादृशी विचारधाराऽस्मान् रोगिष्ठान् तुच्छचित्तस्य स्वामिनश्च करोति ।
अस्माकं चित्ते न सुन्दरकार्यकरणस्य रुचिः शक्तिः वृत्तिश्चाऽपि भवति, किन्तु जाड्यमालस्यमचातुर्यं चाऽस्माभिरेवाऽस्माकं मानसे प्रबलीक्रियते तदाऽस्माकं वीर्योल्लासः इच्छाशक्तिश्च नश्यति । तत्पश्चात् मनसि या मलिना विचारश्रेणिः संजायते सैवेणूं।
NRN
Page #89
--------------------------------------------------------------------------
________________
एकदाऽपि चित्ते यदीर्ध्या प्रादुर्भवेत्तदा कार्यमेकमेवाऽवशिष्यते यदन्यस्य शुभकार्यं वीक्ष्य मनस्येवाऽनुतपनं, तथा तस्य दोष.णां चिन्तनेनैव मनसः सान्त्वनम् । किन्तु न स्वयमुत्साहदर्शकं श्लाघनीयं रचनात्मकं पुरुषार्थान्वितं च किमपि कार्यं कर्तुं शक्तो भवति ।
एकदैषा जातेा पश्चात् यदि चेत् न भवेत् सावधानः तहि सा शीघ्रगत्या वर्धतेऽन्ते निरङ्कुशीभूतेान्वितस्य जीवस्य न शक्यो विकासः ।। - इच्छेत् यदि जीवने विकासः तर्हि द्वे कार्ये करणीये - ईर्ष्या समूलमुत्क्षेपणीया तथा तीव्रोत्साहेनाऽऽनन्देनाऽपूर्ववीर्योल्लासेन च यथाशक्ति शुभकार्यं करणीयम्। तथा च तेन सह केषाञ्चिदपि गुणाः यदि दृश्येरन् श्रूयेरन् वाऽपि तर्हि निर्दभं निर्देशं च प्रशंसा कार्या। तत्पश्चात् कीदृशः चमत्कारो भवेत् तत्तु तदैव ज्ञास्यति ।
(अनूदितम्)
-
0
प्रवचनकारः - श्रीयशवन्तसिंह: विषयः . - 'यशःशिरसि पादुका
अत्र प्रवचनं प्रचलति उत प्रयोगः?
Page #90
--------------------------------------------------------------------------
________________
* काव्यानुवादः ।
HUMAN NEEDS Some Food
Some Sun
Some Work
Some Fun
and
Some One!
- E. M. Walker
अस्माकं अपेक्षा
कियदपि अन्नं
कियान् प्रकाशः कियदपि कार्यं
कियांश्च प्रसादः
किमपि च द्रव्यम् !"
“ तत् तस्य किमपि द्रव्यं यो हि यस्य प्रियो जनः "
-शी.
७७
Page #91
--------------------------------------------------------------------------
________________
काव्यानुवादः।
હું કોઈના ઉદયમાં થઈ જાઉં અસ્ત એવું સદ્ભાગ્ય હોય ક્યાંથી? પામે ન અસ્ત કોઈ મારા ઉદયના ટાણે, બસ એટલું જ ચાહું
-વિશ્વરથ
अस्तं व्रजामि परकीयसमुन्नतौ हे ! सौभाग्यमीदृशमहो ! कुत एव मेऽस्ति ? नाउरतं व्रजेदपि तु मेऽभ्युदयस्य काले - ऽन्यः कोऽपि, केवलमिदं जगदीश ! याचे ॥
-शी.
-
0
Page #92
--------------------------------------------------------------------------
________________
L
.....MARIABARAMAYAWAAAMANAYAMAN Grewane
ogramme
८
व्यानव
गुरु संग कपट, मित्र संग चोरी की होइ निर्धन, की होड़ कोढी ॥
(लोकोक्तिः) कपटं गुरुणा साकं मित्रादपि च चौरिकाम् ।
कृर्वन् निर्धनतां याति कुष्ठरोगं हि सोऽथवा ॥
-शी.
Page #93
--------------------------------------------------------------------------
________________
काव्यानुवादः ।
पच॥प
આજે ચગદાઈ ગઈ
स्मृतम् . दिनद्वयपूर्वमेव
भारा हाथनी खेड जांगणी... લોહી નીકળ્યું,
घशी बेहना थ...
સહસા
या खाव्यं ...
બે દિવસ પહેલાં
મેં જ્યારે પેલા વૃક્ષની ડાળી કાપી ત્યારે
वृक्ष सहे४ प्रून ठ्युं हतुं ...
अद्य
निष्पीलिता हस्तस्य मे एकाङगुलीः रक्तं निःसृतम्, सञ्जाता बहवी वेदना .
...
सहसा
***
- पराग भ. त्रिवेही
८०
पश्चात्तापः
यदा मयाऽमुष्य वृक्षस्य शाखा विच्छिन्ना
तदा
महीरुहः स किञ्चित् कम्पितोऽभूत् ...
- मुनिधर्मकीर्तिविजयः
Page #94
--------------------------------------------------------------------------
________________
झेन-कथाः ॥
प्रस्तुतिः -शी.
त्सेग त्सानः अवोचत् - आसीन्ममैकं मित्रं 'येन हुई' इत्यभिधः । स बहुज्ञः सन्नपि निजज्ञानसंवर्धनार्थं अल्पज्ञमपि पृच्छति स्म । स धनिकोऽपि भूत्वा अकिञ्चन इव वर्तते स्म। स गुणपरिपूर्णोऽपि सन् स्वं निर्गुणत्वेन प्रस्तौति स्म। तेन समं यदि कोऽपि दुर्व्यवहारं कुर्यात्, तदापि स सस्मितं मौनभावेनैव तं तितिक्षते स्म।
(२) आसीदेको गुरुः। स संस्थापितस्य धर्मस्य भयस्थानानि प्रति सवाधानीभूय वर्तितुं सदैव स्वशिष्यान् शिक्षयति स्म । सोऽकथयत् - मया एक एतादृशो महान् गुरुरदर्शि, यो नित्यं प्रज्वलितमलातं हस्ते गृहीत्वा पर्यभ्रमत्, अकथयच्च यद् "अहं सर्वाणि मन्दिराणि धक्ष्यामि, यतो जनास्तदनन्तरमेव मन्दिरं हित्वा भगवति मनांसि प्रणिदधीरन् ।"
Cine
O
(३) सततं ईशतत्वं प्रार्थयमानः शिष्यस्तजितो गुरुणा - 'त्वं भगवत आधारं हित्वा स्वपादनिर्भरः कदा भविष्यसि रे!? '। शिष्यश्चकितः । तेन पृष्टम् - परन्तु भवद्भिरेव शिक्षितोऽहं यदीश्वर
Page #95
--------------------------------------------------------------------------
________________
एवाऽस्माकं परमपिता, आश्रयणीयः, कर्ता, धर्ता, भर्ताऽपि च । अधुना
कथमित्थं कथयथ ननु ? |
'अरे मूढ ?' गुरुणा पुनस्तर्जितः सः बोधसि ?'
यस्तुभ्यमाधारं प्रदत्ते, आधारावलम्बनेनैव च जीवितुं तरीतुं च शिक्षयति, स न पिता । पिता तु स नाम, यस्त्वां परावलम्बित्वं त्यक्तुं समर्थं करोति । यन्मात्रमपि पाठं त्वं कदा शिक्षिष्यसे भोः ! ? । '
उdi प्रति प्रश्न उपस्थितः
भवान् कीदृग् अनुभवति ? ।
सोऽवक्,
-
+
(४)
अधुनातन वैज्ञानिकीमभ्युन्नतिं सादरं स्वीकरोति गुरुः । किन्तु स तदीयां मर्यादामपि सुतरां जानाति । स वदति -
'वस्तुतो जीवनस्य लक्ष्यं मानवस्य परिपूर्णो विकास आसीत् । किन्तु अद्यत्वे जनाः भौतपदार्थानां पूर्णविकासकरणे लग्ना मग्नाश्च । अहो ! कीदृशोऽयं व्यत्यासः ! ।'
101
'पिता नाम किम् इत्येतावदपि न
+
८२
(५)
' स मनुज इव, यः प्रातरुत्थितवानप्यहं सन्ध्यावधि जीविष्यामि नवेति ज्ञातुमसमर्थो भवेत्।'
पुनः प्रश्नः
किन्तु इयं तु सर्वेषामेव मनुजानामवस्था ऽस्ति ननु ! |
‘ओम्,' उवेसेन प्रत्युक्तम्, 'परन्तु तामवस्थामनुभवन्ति कति जनाः खलु ?'
Page #96
--------------------------------------------------------------------------
________________
सत्या बाधः कथा।
-मुनिरत्नकीर्तिविजयः ।। आसीदेकश्चित्रकारः । स्वकीयेन कलाकौशलेन स समग्रेऽपि देशे विख्यात आसीत् । तस्याऽऽलेखितानि चित्राणि तु जीवन्ति इव प्रतिभान्ति स्म । तच्चित्राणि च दृष्ट्वा जना अपि मन्त्रमुग्धा इव जायन्ते स्म ।
एकः पुत्रस्तस्याऽऽसीत् । तस्याऽपि लघुवयसैव चित्रकार्ये रुचिरासीत् । तदनुरूपं च सोऽपि यथा तथा चित्रकरणे प्रयत्नान् करोति स्म । एवं च पितुः प्रेरणया स्वस्य च रुचिबलेन शनैः शनैः स चित्रकार्ये नैपुण्यं प्रत्यग्रेसरोऽभवत् ।
एकदा तेनैकं चित्रमालेखितम्। तच्च गृहीत्वा सोत्साहं दिदर्शयिषया पितुः समीपं गतवान् । पिताऽपि तत् सानन्दं क्षणं निरैक्षत । पश्चात् तच्चित्रगताः पञ्च क्षतीन् तस्मै अदर्शयत् । सोऽपि तच्चित्रं यथानीतं गृहीत्वा पुनर्गतवान् । अपरस्मिश्च दिने दर्शितानां क्षतीनां सम्मार्जनं कृत्वा चित्रं तेन पितुः समक्ष प्रस्तुतम् । पित्राऽपि ध्यानेन तन्निरीक्ष्याऽन्याश्च पञ्च क्षतयः दर्शिताः । पुनरपि सविनयं स चित्रं नीत्वा गतवान् । तृतीये दिनेऽपि पुनश्चित्रं संशुद्ध्य पितृसमीपमुपस्थितः सः । तत्रापि दिने पिता तं पञ्च क्षतीन् दर्शितवान् । तेनाऽपि पुनः क्षतिरहितं चित्रमालेखितम् । एवं पुनः क्षतिदर्शनं पुनः सम्मार्जनं इति कृत्वा विंशतिदिनानि व्यतीतानि । पिता सप्रेम तं क्षतीन् दर्शयति सोऽपि चाऽ श्रान्ततया ताः परिमृजति । ___ एवं च यदैकविंशतितमे दिवसे तेन पितृसमक्षं चित्रं प्रस्तुतं पित्राऽपि च यदा पुनः क्षतिदर्शनं कारितं तदा तस्य धैर्यमुत्साहं च नष्टे । आवेशपूर्वकं स उक्तवान् पितरं प्रति यद् - 'भवान् प्रत्यहं मम क्षतीनेव पश्यति । किं न कञ्चिदपि शोभनं विद्यतेऽस्मिन् चित्रे यन्नित्यं क्षतीनेव दर्शयति ? नाऽहमितः परं चित्रमिदं पुनरालेखिष्यामि' इति ।
पिताऽपि तस्य तादृशं स्वरूपं व्यवहारं च संलक्ष्य चकितोऽभूत् । चित्ते दुःखितोऽपि बहिः स्वास्थ्यं संरक्ष्य पुत्रं प्रत्युवाच - "वत्स ! मैवमधृति कुरु । त्वं श्रेष्ठो भूया इत्येव मे मतिरस्ति क्षतिदर्शनेऽपि न किन्तु कोऽपि दुराशयः । त्वमेकं कार्यं कुरु यत् इतो गत्वा प्रथमदिनालेखितेन
८३
Page #97
--------------------------------------------------------------------------
________________
चित्रेण सहाऽद्य कृतं चित्रं परीक्षस्व । प्रत्येकं चित्रं क्रमशो भूमौ स्थापयित्वा तेषु मध्ये कियत्तारतम्यं वर्तत इति च निरीक्षस्व।" ___ पुत्रस्ततो निर्गत्य स्वस्थानं गतवान् । पश्चात् शान्तं भूत्वा पितृवचनानुसारेण तेन चित्राणि स्थापितानि । यदा तेन क्रमेण सर्वाणि चित्राणि दृष्टानि, दृष्ट्वा च यदाऽन्तिमं चित्रं दृष्टं तदा तद्गतं महत्तारतम्यं समीक्ष्य तस्य नेत्रे स्फारितेऽभूताम्। 'मयाऽपराध आचरितः पितृपादाना'मिति विचिन्त्य साश्रुलोचनः पितृसमीपं गत्वा पादयोः पतित्वा क्षमामयाचत । पिताऽपि तस्य मस्तके वात्सल्यपूर्ण हस्तं प्रसार्य एकमेव वाक्यमुवाच - "यस्मै गुरुजनाः क्षति न दर्शयति, दर्शिते सति च यो न सहते तस्मै तु जगत् समग्रमपि क्षतिं दर्शयति यच्चाधिकमसह्यं भवति ।।
"वृक्षान् रक्षन्तु, वर्षामानयन्तु ॥"
GOVT. OF INDIA
JABIR
८४
Page #98
--------------------------------------------------------------------------
________________
आत्मवत् सर्वभूतेषु - मुनिधर्मकीर्तिविजयः
कथा
आसीदेको नामदेवो नाम महाराष्ट्रस्याऽऽध्यात्मिकः साधुपुरुषः । एकदा तस्य माता रोगेण ग्रस्ताऽभूत् । तदाऽद्यतनः औषधः नाऽऽसीत् । तदा रोगस्य प्रतिक्रियार्थं विविधानां वृक्षाणां छल्ले: उपयोगः औषधरूपेण जनाः कुर्वन्तः आसन्। एवमधुना पलाशनामवृक्षस्य छल्लिरावश्यकी।
सा छल्लि: कुतः कथं चानीयते? नामदेवस्तु बालकः आसीत् । स कथं आनेतुं शक्तो भवेत् ? गृहे अन्यस्तु न कोऽपि आसीत् । तथाऽपि बालकस्य चातुर्यं वीक्ष्य तस्य हस्ते कुठारं दत्त्वा मात्रा कथितं - वत्स ! वनं गत्वा मदीयार्थं पलाशवृक्षस्य छल्लिमानय ।
वनं जगाम स नामदेवः । पलाशस्य छल्लिं आनीय मात्रेऽयच्छत् । किन्तु तस्य मुखे ग्लानिरासीत् । मातुः मनसि चिन्ता जाता।
अन्यदिने माता तस्य समीपमागता। तदा नामदेवस्य अधोवस्त्रं रक्तरंजितं दृष्ट्वा सा भीता। त्वरितमेव पृष्टम् - वत्स ! कथं एतदधोवस्त्रं रक्तरंजितं जातं? किं वृक्षात् पतितस्त्वम् ? नामदेव आह -न हि न हि ! मातः किमपि न भूतं, किन्तु तदा मया तेन कुठारेण ..... भीत्या मात्रा पुनः पृष्टं - किं कुठारेण? नामदेवेन उक्तं - तदा कुठारेण मया काचित्त्वग् उच्छिन्ना !
सहसैव तं नामदेवमाकृष्य आलिङ्गिता सा। अधोवस्त्रं ऊर्वीकृतं यदा तदा जवायाः उच्छिद्या त्वग् दृष्टा, तत्र केवलमामिषमेव दृश्यते स्म तथा तस्याः जवायाः रक्तं शनैः शनैः निःसरति स्म।
माता आह - कथं स्वयं एवं कृतम् ?
नामदेवेन सहजतया गदितं - मातः ! यदा त्वया पलाशस्य छल्लिमानेतुं कथितं तदा अहं तां विच्छिद्य आनयम् । किन्तु मया चिन्तितं - एषा छल्लिरपि पलाशस्य त्वगेवाऽभिधीयते ततो
Page #99
--------------------------------------------------------------------------
________________
यदि सा छिद्यते तदा किं तस्य वृक्षस्य दुःखं न भवेत् ? कीदृशी वेदना भवेत् ? इति ज्ञातुं मया मम त्वक् उच्छिन्ना । मातर् ! मातर् ! तदा तीव्रा असह्या वेदना भवति । __इति श्रुत्वा माता निर्निमेषं देवतुल्यं तं बालकं अपश्यत् । कियत्कालात् पश्चात् माता आहएकस्य मूकस्य वृक्षस्य वेदनार्थं यः एतादृशो व्याकुलो जातः स भविष्यति काले पूज्यः साधुपुरुषो वा भविष्यति तदा न कोऽपि आश्चर्यम् ।
एवं यदि सर्वेऽपि जनाः परस्परं मानवीयवेदनां चिन्तयेयुः तहि अस्मिन् देशे न नाम दुःखं भवेत्, सर्वेऽपि जनाः सुखिनः एव भवेयुः ।
-०
निःशुल्कं 'एक्युप्रेशर' केन्द्रम्।
निर्माता - श्रीकारः (GOVERNMENT)|
R
८६
Page #100
--------------------------------------------------------------------------
________________
कथा.
न्याय:
ईरानदेशः । 'तेहमुरस्प' नाम राजा ।
सर्वासां प्रजानां न्यायनीतिपूर्वकं राज्यपालनं चकार सः ।
एकदा एकमपराधिनं गृहीत्वा राजभटाः सभामध्ये आनयन् । राजा न्यायपालनार्थं विविधयुक्त्या प्रश्नान् अपृच्छत् ।
तस्य केषांचित् प्रश्नानां प्रत्युत्तरं श्रुत्वा निर्णीतवान् यद्, एष एवाऽपराधीति । ततस्तं राजमार्गं नीत्वा चत्वरे एव शतानि दण्डानि मारयन्तु' इति आज्ञापितवान् राजा ।
एवं श्रुत्वैव अपराधी क्रुद्धोऽभूत् । तं राजानं दुष्टा गालि: अददत् । सहसैव तत्र स्थिताः सर्वेऽपि प्रजाजनाः आसनादुत्तिष्ठा: रोषाकुलाश्च जाताः ।
'अधुनैव तं दुष्टं मृत्युदण्डो भवेत्' इति श्रोतुमेव उत्कण्ठिताः ते सर्वेऽपि जनाः राजानं प्रति कुर्वन्तः उत्थिताः ।
तदैव राजा आह - अपराधिनं बन्धनात् मुक्तिं ददतु ।
एतच्छ्रुत्वा अहो ! एतत् किं ? इति वचनं निःसृतं जनमुखेभ्यः ।
एतादृशं कुतूलहमिश्रं लोकमानसात् विपरीतं च वर्तनं दृष्ट्वा जनानां चित्ते आश्चर्यं जातं इति ज्ञातं तेन राज्ञा । तत: तेन प्रोक्तं - एतद्रूपेण मेऽवमाननं कृत्वा तेन मदीयः क्रोधो द्विगुणोऽकारि । ततो यदि चेदहं इतोऽपि अधिकं अनुशासनं कुर्यां तर्हि "मया ममाऽपमानस्य प्रतीकारः कृतो भविष्यति, तच्च न न्याय्यम्” इति मन्ये ।
क्रोधं कारयन्तं प्रति क्रोधस्याऽकरणे एव मनुष्यत्वमौदार्यं चाऽस्ति ।
-मुनिधर्मकीर्तिविजयः
101
८७
Page #101
--------------------------------------------------------------------------
________________
त्यम् - मुनिकल्याणकीर्तिविजयः कथा।
अस्मिन् जगति ईदृशा अपि जनाः सन्ति ये तथाविधविधिविडम्बनावशात् सर्वथा मूढतान्विता महामूर्खतया निर्भागधेयपङ्क्तिप्रथमनामधेयतया च लोके प्रसिद्धाः सन्तोऽपि कदाचित् तस्या एव वक्रायाः विधेः कृपाकटाक्षैर्विद्धाः सन्तो समृद्धिशालिनो यशःपुञ्जभाजनं सर्वजनपूजास्पदं च भवन्ति ।
इहाऽपि तादृशस्यैवैकस्य विप्रतनयस्य कथा प्रस्तुताऽस्ति । तथा हि - __ अस्तीह विशाले भरतखण्डे पृथ्वीवध्वा नूपुरोपमं जनानां हृदयानन्दकरमानन्दपुरं नाम नगरम् । स्वयमेवाऽनुशासनपालकत्वाज्जनानामत्र नाऽऽसीदावश्यकता नृपस्य, तथाऽपि अराजकतां केवलं निवारयितुमेव राजाऽऽनन्दवर्धनस्तत्र शास्ति स्म । अथ तस्मान्नगरादनतिदूर एव दक्षिणस्यां दिशि एक: कर्पूरपुरं नाम ग्रामः समस्ति स्म। अत्रत्या अपि जनाः सरलस्वभावा भावनाशीलहृदया दयावन्तश्चाऽऽसन् । ग्रामे तत्रैव ब्राह्मणानां वसतौ विप्र एकोऽवसत् । गौरीशङ्कर इति तन्नाम । आबाल्याद् दारिद्योपहतत्वात् सोऽधिकं पठितुं न शेके। अतो भिक्षावृत्त्यैवाऽऽजीविकां निरवहत् । किन्तु तन्मनसि सततमेषाऽऽजीविकाऽयोग्या - इति चिन्ता प्रचलति स्म । एतावता कुत्रचित् कञ्चिदारोग्यशास्त्रं पठता तेन विविधरोगाणामुपचारकारकाणि हिङ्गलाष्टक-त्रिफलारास्नादियोगनिर्मितानि कानिचिदौषधानि ज्ञातानि । अतस्तेन चिन्तितं यद् - यदि अहमेतानि विविधयोगनिर्मितान्यौषधानि प्रगुणीकृत्य रोगिभ्यो दद्यां तर्हि तत्प्रतिदानरूपेण लब्धेन धनेन मम वृत्तिनिर्विघ्नतया प्रचलेत् । तथा भिक्षोपजीवित्वमपि त्यक्तुं शक्येत ।
ततः स यथाशीघ्रमेतान् योगान् विनिर्माय विविधानौषधान् प्रगुणीकृतवान्, विविधासु स्थालीषु च तच्चूर्णानि स्थापयामास । ततश्च ये ये व्याधिग्रस्तास्तत्समीपं चिकित्सार्थमागच्छन्ति स्म तेभ्यः स तत्तद्रोगार्थमुपयुक्तमौषधमेव केवलं ग्रन्थानुसारेण ददाति स्म । न तु तद्देहं पर्येक्षत नाऽपि पथ्यादिकं वाऽकारयत् । एवं घुणाक्षरन्यायेन दत्ते औषधे यो निरामयो भवति स्म स तस्मै विप्राय धनधान्यादिकमार्पयत् । यस्य च व्याधिर्न शाम्यति स्म यो वा म्रियते स्म स
Page #102
--------------------------------------------------------------------------
________________
स्वभाग्यवशान्मृतो रुग्णो वेति जना मन्यन्ते स्म । एवमेव जनेभ्यो लब्धेन धनेन स निजजीवनं यापयामास।
इतस्तस्य विप्रस्यैकः पुत्र आसीत् । स तु बाल्यादेव तथाविधप्रज्ञाविकलः, पशुवन बहुभोजी, किंकर्तव्यविमूढश्चाऽऽसीत् । अतो न किञ्चिदप्यधीतवान् नाऽपि काञ्चित् कलां शिशिक्षे। अथ तस्मिन् द्वादशवर्षे जाते गौरीशङ्करोऽयं कदाचिद् हृदयाघातादमृत । किन्तु मृतेऽपि तस्मिन् व्याधिग्रस्ता जना औषधानि ग्रहीतुं तद्गृहे आगच्छन्ति स्म । अयं तु न किमप्यौषधं वेत्ति स्म । अतस्तेनैतदर्थं निजमाता पृष्टा । साऽपि सर्वाः स्थालीविलोक्यैकस्यां हरीतकीचूर्णं ददर्श कथितवती च पुत्रं - 'वत्स ! तव पिता प्राय इदमेव चूर्णं सर्वेभ्योऽर्पयामास । अतस्त्वमपि सर्वेभ्य एतदेव दद्याः।' इति ।
सोऽपि मातृवचननिष्ठतया यो यो रुग्णो रोगनिवारणार्थं तत्समीपमागच्छत् तस्मै हरीतकीचूर्णमेव दत्ते स्म । तस्य च भाग्यवशात् सर्वेषामपि प्रस्तुतरोगोपशमनमजायत । अतो हृष्टा जनास्तस्मै विपुलं धनमयच्छन् । एवं च कतिपयदिनैरेव स धनिको जातः ।
अथैकदा ग्रामाध्यक्षस्य वडवा केनचिच्चौरेणऽपहृता । अत्र तत्र सर्वत्र मृगिता अपि नैव प्राप्ता । तदा केनिचज्जनेन ग्रामाध्यक्षायाऽस्य वैद्यपुत्रस्य साहाय्यमादातुं सूचितम् । अतस्तेन ग्रामाध्यक्षेण निजपुत्रस्तद्गृहे प्रेषितः । सोऽपि ग्रामणीपुत्रः वैद्यगृहं गत्वा तं बालं पप्रच्छ - 'भोः ! क्व मेऽश्वा लप्स्यते?' इति । सोऽपि तस्मै हरीतकीचूर्णं दत्त्वा उवाच - ‘भोः ! भक्षयेदं चूर्णम् । तत्प्रभावेन निजाश्वां लप्स्यसे।'
सोऽपि गृहं गत्वा तच्चूर्णं भक्षयामास । तेन तस्य तीव्र विरेचनं लग्नम् । अतः स झटिति शौचार्थं ग्रामाद् बहिर्धावितः । यावत् स सरसोऽन्तिकं प्राप्तस्तावत् केनचिद् वृक्षेण बद्धा निजवडवा तेन विलोकिता। अतो हृष्टः स शौचादिकं समाप्य तां गृहमानीतवान् । ततः स तस्मै विप्रतनयाय बहु धनं दत्त्वा सर्वत्र ग्रामे घोषयामास यद् - 'अहो ! विप्रपुत्रोऽयं महाज्ञानी वैद्योत्तमश्च । सर्वैरपि बहुमान्योऽयम् ' इति । ततः परं सर्वत्र तस्य यशःप्रसरः प्रससार ।
इत आनन्दपुरे राज्ञ आनन्दवर्धनस्य बढ्यो राज्य आसन् । तासु एका केनचित् कारणजातेन तस्मै न रोचते स्म । अतः स तया सह न भाषते स्म, तस्याः प्रासादे न गच्छति स्म, न च तां
८९
Page #103
--------------------------------------------------------------------------
________________
विलोकयति स्माऽपि । एतेन साऽप्यतीव दुःखिताऽऽसीत् । अतो राजानं वशीकर्तुं बहून् कार्मणाद्युपायान् करोति स्म विविधाश्च योगिनीः सेवते स्म । किन्तु न केनाऽपि किञ्चिदपि सिद्धम् । अतः सा नित्यं चिन्ताग्रस्ता वर्तते स्म । ___ अथैकदा तस्या राज्या दास्येका कर्पूरीनाम्नी कुतोऽपि ज्ञातवती यत् 'कर्पूरपुरग्रामे विप्रतनय एको बहुज्ञानी विद्यते' । अतः सा राज्ञीमापृच्छय तद्गृहं गतवती । तं च भृशं प्रसाद्य निजस्वामिनीगृहमानीतवती । राज्यपि तं प्रणम्य राजवशीकारमौषधं याचितवती । सोऽपि किञ्चिद् विचिन्त्य तदेव हरीतकीचूर्णं दत्तवान् कथितवांश्च यद् 'भक्षयेदं चूर्णं, अनेन तव स्वामी सुतरां वशीभविष्यति' । राज्यपि श्रद्धया तच्चूर्णं खादितवती।
कियत्कालानन्तरं तस्या अतिशयेन तथा विरेकश्चलितः यथा दिनान्ते एव स्थगितः । अनेनाऽतीसारवशेन साऽतीव कृशोदरी कण्ठगतप्राणप्राया च सञ्जाता। अतः किंकर्तव्यविमूढया दास्याऽपि धावित्वा राज्ञे विज्ञप्तं - 'प्रभो ! मत्स्वामिनी रोगवशात् प्राणसन्देहवती वर्तते, एकदा च भवन्तं दिदृक्षति । कृपयाऽऽगच्छतु' इति । राजाऽप्येतच्छ्रुत्वा झटिति तत्र गतः ।
इतः साऽपि राज्ञी निवृत्तविरेका सुगन्धिजलेन स्नात्वा श्रेष्ठवस्त्रालङ्कारादीन् परिधाय चोपविष्टा आसीत् । क्षणार्धेनैव राजा तत्राऽऽगच्छत् । तां प्रत्यग्रपाटलपुष्पमिव सुरूपां कृशोदरी च दृष्ट्वाऽतिप्रसन्नो राजा निजप्रमादमस्थानद्वेषं च धिक्कृत्य तामेव पट्टमहिषीपदे प्रातिष्ठिपत् ।
अनेन चित्तेऽतीव चमत्कृता साऽपि तं द्विजतनयं पुनरप्याकार्य सिंहासने उपवेशितवती । ततः कनकपुष्पादिभिस्तं प्रपूज्य कथितवती साञ्जलिः - 'प्रभो ! भवतः प्रभावेनाऽहमेतावती महती पदवी प्राप्तवती। अतः इतः परमहं भवन्तमेवाऽऽश्रितवती । कृपयाऽऽशीभिमामनुगृह्णातु यदृच्छया च धनादिकं गृह्णातु' इत्युक्त्वा महती विभूतिं दत्तवती तस्मै।
एवं च स विप्रतनयो महामूर्यो निर्भाग्यशेखरोऽपि च दैवदुर्लालित्येन महासमृद्धिशाली यशःपात्रं जनार्चास्पदं चाऽभवत् ।
-०
९०
Page #104
--------------------------------------------------------------------------
________________
मङ्गलोऽश्वः ॥
- सा. अमीझराश्रीः वसन्तपुरं नाम नगरमासीत् । पराक्रमी प्रतापवांश्च राजा जितशत्रुस्तन्नगरमनुशास्ति । देशे विदेशे च सर्वत्र तस्य जयजयारवः प्रवर्तते । राज्ञो हस्तिशालायमश्वशालायां च अनेके हस्तिनोऽश्वाश्च विद्यन्ते । सल्लक्षणा हस्तिनोऽश्वाश्चाऽपि तत्राऽनेके सन्ति ।
एकदाऽन्यदेशीयो जनो राज्ञः समीपमुपस्थायोक्तवान् - 'राजन् ! अश्वानां लक्षणानां परीक्षकोऽस्म्यहम् । सेवाकार्यार्थं चोपस्थितोऽस्मि ।' 'अवश्यं, दास्ये तुभ्यं सेवाकार्यं किन्तु प्रथमं दर्शयतु चमत्कृति' - इत्यकथयद् राजा ।
आगन्तुक उवाच - 'भवतु । अश्वाशालां गन्तव्यमस्माभिः ।' राजा प्रधानः सैनिकाश्चाऽश्वशालामागताः। एकैकं कृत्वा स आगन्तुको हयान् परीक्षते । कतिचिदश्वान् परीक्ष्य तेभ्य एकमश्वं बहिरानीय - 'राजन् ! अधुना भवदिच्छामनुसृत्य मम विद्यासामर्थ्यमहं दर्शयामि । आज्ञापयतु भवानेकं सैनिकं यद् सोऽश्वमारोहतु'-इत्यवदत् ।
अश्वश्च स दर्शनीयो मनोहरश्चाऽऽसीत् । राज्ञाऽऽज्ञप्त एकः सैनिकस्तमश्वमारूढवान् । राजाऽचीकथत् - 'एनमश्वं नीत्वा नगरस्य चतुर्वपि दिक्षु भ्रामयित्वाऽऽनयतु' । आज्ञां तां शिरस्यवधार्य स ततो निर्गतः। किञ्चिद् विहस्य स आगन्तुको राजामजल्पत् - 'स्वामिन् ! यः कश्चिदपि एनमश्वमारोहित स झटिति दुःखभाग् भवति। सत्यमेतत्तु भवानधुनैव प्रत्यक्षं द्रक्ष्यति ।' आकण्यैतद् राजा प्रधानश्चोभावपि स्तब्धावभवताम् ।
किञ्चित्कालो व्यतीतः । तावद् दूरतः तं सैनिकं प्रत्यागच्छन्तं दृष्टवान् राजा ! यदा च स समीपमागतः तदा तमाकुलव्याकुलं दृष्ट्वा - 'किं सञ्जातम् ? कथं झटिति प्रत्यागतः ?' - इत्यपृच्छद् राजा । सोऽपि - 'प्रभो ! अकल्प्यं घटितम् । मार्गे केनाऽपि मया ज्ञातं यद् मम गृहादाभूषणानि लुण्टितानि । तथाऽपि धैर्यं धृत्वाऽहमग्रे प्राचलम्, तावत् सम्मुखमागच्छन्
Page #105
--------------------------------------------------------------------------
________________
जनो मां संरुध्योक्तवान् यद् –' तव श्वसुरस्याऽवसानं सञ्जातमस्ति । स्वामिन् ! मामनुमन्यताम् । अहं गृहं गन्तुमिच्छामि । एतादृशं वृतान्तं श्रुत्वा स्वास्थ्यमपि नाऽनुभवामि, अतः कृपां विधातु । एतादृश्यां स्थितौ यद्यहमश्वं निर्वक्ष्यामि तर्हि निश्चितं पतिष्यामि, अतः मां क्षम्यताम् ' - इति सर्वं व्यतिकरमुक्तवान् । राजाऽपि तं स्वगृहं प्रैषीत् । राजा प्रधानोऽन्येऽपि च तमश्वं साश्चर्यं द्रष्टं लग्नाः । तदाऽऽगन्तुकोऽवदत् - 'राजन् ! एष एव विशेषोऽश्वस्य यद् य एवं वाहयिष्यति स दुःखी भविष्यति' - इति ।
अथ तमश्वं तत्स्थाने बद्ध्वाऽन्यमेकं रक्तमश्वं स अश्वशालातो बहिरानयत् । आनीय च भूपतिमभ्याहरत् – 'राजन् ! इदानीमन्यमेकं सैनिकं भवानाज्ञापयतु यद् स एनमश्वं वाहयेत्' इति । राज्ञ आज्ञया स सैनिकस्तमारूह्य ततो निर्गतः । तदाऽऽगन्तुक उवाच - ‘य एनमश्वमारोहति स आनन्दरूपान् मङ्गलकारकांश्चैवोदन्तान् प्राप्नोति'। सर्वेऽपि तस्य सत्यस्य प्रत्यक्षं दिदृक्षयोत्कण्ठिता अभवन् ।
तावदल्पीयसैव कालेन सोऽपि प्रत्यागतवान् किन्तु स प्रसन्नवदन आसीत् । राज्ञा पृष्टः सोऽकथयत् - "स्वामिन् ! क्षम्यतां मेऽविनयम् । अहमनतिदूरं गत्वैव प्रत्यागतोऽस्मि । मार्गे वर्धापितोऽहं मम मित्रेण यद् 'तव गृहे पुत्रो जातः'। अपरं मम भ्राता विदेशात् प्रचुरं धनमुपाया॑ऽधुनैवाऽऽगतोऽस्ति । विधिस्तु ममाऽनुकूलो वर्तत इत्यनुभवामि । अस्यां चाऽऽनन्दमयस्थितौ नाऽश्वारोहणे मम चित्तं स्थैर्यं भजते । अतो मां गृहं गन्तुमनुमन्यताम् ।" राजा सतोषं तमागन्तुकं निरैक्षीष्ट ।
'प्रभो ! किं सन्तुष्टा भवतो जिज्ञासा? यद्येवं तर्हि सेवाकार्यार्थं मां नियोजयतु । अन्यानामश्वानां स्वरूपमपि शनैः शनैः दर्शयिष्याम्येव' इति राज्ञे स विज्ञप्तिं कृतवान् । राजाऽपि तं अश्वशालाया अधिकारित्वेन न्ययुङ्।
एवं तत्र स्थितः स नित्यं अश्वान् परीक्षते राज्ञःसमक्षं च तल्लक्षणानि व्यावर्णयति । व्यतीतेषु कतिपयदिनेषु तेनैकदा राज्ञः समक्षमेकोऽश्वः प्रस्तुतः । अश्वस्त्वेष किञ्चिज्जरायुक्तोऽपि स्वस्थः स्फूर्तिमांश्चाऽऽसीत् । अधिकारित्वेन नियुक्तः स आगन्तुको राजानमुद्दिश्यैवं समवदत् - 'राजन् ! भवतः सहस्रेष्वप्यश्वेषु एषोऽश्वः शिरोमणितुल्योऽस्ति । अस्याऽस्तित्वेनैवाऽन्येषां सर्वेषामप्यश्वानां
Page #106
--------------------------------------------------------------------------
________________
मूल्यमस्ति । अस्याऽभावे तु तेषां विद्यमानताऽपि शङ्कास्पदा '- इति ।
राजाऽप्येतदाकर्ण्य विचारयितुं प्रवृत्तो यद् – 'ईदृशः कीदृशोऽयमश्वः?' – एवं विचिन्त्य स तमधिकारिणं प्रत्युवाच - कथमेतावती प्रशंसां त्वमस्य करोषि ? मां त्वेष सामान्यमेव प्रतिभाति' इति । किञ्चिद् हसित्वा स उक्तवान् – 'राजन् ! अस्य विद्यमानत्वेनैव भवतो राज्यं सुरक्षितमस्ति । अस्याऽश्वस्यैतदेव वैशिष्ट्यं यदेष यत्राऽपि विद्येत यत्र च विहरेत् तद्राज्यस्याऽधिपती राजा अजेयो भवेत् । तस्य च सर्वेऽपि शत्रवः पराङ्मुखाः पराजिताश्च भवन्ति । राज्येऽपि तदीये सर्वत्र सौख्यं समृद्धयश्च विद्येरन्' इति ।। ___ संश्रुत्यैतद् यजा प्रसन्नश्चाऽभवदेव किन्तु चिन्तालेशेनाऽपि तच्चित्तमाक्रान्तमभूत् यद् - 'अस्याऽश्वस्याऽनुपस्थितौ किं भविष्यति । अस्य च रक्षणार्थं किं कर्तव्यम् ?' इति । तदर्थं तु राजा प्रधानेन सह मन्त्रणामकुर्वत् । तदा प्रधानोऽवदत् - 'स्वामिन् ! न मोक्तव्य एषोऽश्वः सर्वसामान्याश्वैः सहाऽश्वशालायाम् । अस्य प्रभावादिगुणकथाऽपि न यस्य कस्याऽप्यग्रे कथयितव्या, अन्यथा कोऽपि शत्रुनृपतिरस्य चौर्यकार्यमपि कारयेत् । अतोऽश्वोऽयमन्यत्र कुत्राऽपि रक्षितव्यः ।' स्वप्रधानवचनं श्रुत्वा भूपतिरुपायप्रवृत्तोऽभवत् ।
नगरे च तस्मिन् जिनदासनामकः श्रेष्ठी वसति स्म । स च परमधार्मिकवृत्तिरासीत् । यदा कदाऽपि विपत्तिकाले राजा तस्याऽभिप्रायमपि पृच्छति स्म । राज्ञः पितृकालात् तस्य ख्यातिरासीत् । अनुभवित्वेन वृद्धत्वेन च तस्य सम्माननमपि सर्वत्राऽऽसीत् । अपरं च व्यापारादिकार्यान्निवृत्तः सन् धर्मकार्ये एव सततं प्रवृत्त आसीत् । नागरा अपि सर्वे न कदापि तस्य मर्यादामतिकमन्ति स्म । अतो विश्वासास्पदत्वेन राजा तमाह्वयत् । आहूय च सर्वं पूर्वव्यतिकरमुक्त्वा - ‘अस्माकं सर्वेषां राज्यस्य च मङ्गलस्य शुभस्य च हेतुभूतोऽयमश्वो भवतः सकाशमेव रक्षणीयः । अस्य गुणकथाऽपि निधिरिव गोप्तव्या' इत्यकथयत्। जिनदासोऽपि तमश्वं गृहीत्वा स्वगृहमागतवान् । जना अपि - वृद्धत्वेन नैष पादाभ्यां गन्तुं शक्तोऽतो राज्ञोपदीकृतोऽयमश्वः स्यादिति मन्यन्ते । श्रेष्ठी अपि नित्यं तमारूह्य जिनालयं गच्छति । तस्यैवमेव नित्यक्रमः सञ्जातो यद् अश्वमारूह्य गृहान्निर्गत्य नद्याः तीरे तस्य जलपानं कारणं ततो जिनमन्दिरे गमनं ततश्च पुना गृहागमनमिति । एवं श्रेष्ठी नाऽन्यत्र कुत्राऽपि तं नयति, अतः
Page #107
--------------------------------------------------------------------------
________________
सोऽपि नद्याः जिनचैत्यस्य श्रेष्ठगृहस्य चैव मार्गमभिजानाति नाऽन्यम् ।
I
अश्वोऽपि श्रेष्ठन गृहे शोभनरीत्या परिपाल्यते । तेन च सोऽधिकं पुष्टो दीप्तश्चाऽभवत् । यथा यथा च सोऽश्वः पुष्टो बलिष्ठश्च भवति तथा तथा राज्ञो राज्यस्य च प्रभावोऽपि वर्धते । एवं च तस्य यशस्तद्रराज्ये च सुखसमृद्धयोऽपि सततं प्रावर्धन्त ।
जितशत्रोः शत्रुनृपतयोऽपि तदभिज्ञाय चिन्तिता जाता यद् - " कथमस्य राज्यं प्रतिदिनं धनधान्यसुखयशःप्रभावादिनाऽभिवर्धतेऽस्माकं च राज्यानि तत्तस्वरूपेण हानमाप्नुवन्ति ? नागरा अप्यस्माकं राज्यभूमिं त्यक्त्वा तस्य राज्यं श्रयन्ते । पण्डितजना अपि नाऽत्र स्थातुमुत्सहन्ते । धार्मिकवृत्तयो जना अप्येवं वदन्ति यद् वयं तत्राऽऽध्यात्मिक शान्तिं प्राप्नुमः तत्रत्यं वातावरणमपि सौख्यप्रदमस्ति' इति । व्यापारिणोऽपि तत्राऽधिकं धनलाभं दर्शयन्ति । एवमेव तु सुज्ञानां जनानामभाव एव भविष्यति । किमस्य रहस्यम् ? - इति । "
अथ शत्रुनृपतीनां सभा सम्मीलितैकत्र । सर्वेऽप्येतद्रहस्योद्घाटनार्थं स्वस्वकल्पनाश्वान् धावयन्ति किन्तु न कथमप्यन्तं प्राप्नुवन्ति । तावदेको विद्वान् प्रधानो राजन्यमुद्दिश्यैवमुक्तवान् - 'जितशत्रोः राज्ये विद्यते एव यत्किञ्चिदपि वस्तु यच्च मङ्गलस्वरूपं स्यात् । तस्यैव चेतादृशः प्रभावोऽस्ति यदर्थं च वयं सर्वेऽपि चिन्तिताः स्मः । तच्च शोधनीयमेवाऽस्माभिः । चारपुरुषाश्च तत्र प्रेषितव्याः, ये तत् तत्सदृशं च यत्किमपि तत्र विद्येत तन्मार्गयेयुः । पश्चादेव कमप्युपायं चिन्तयिष्यामः' इति ।
भूपतिभिराज्ञप्ताः स्पशाश्च प्रविविशुर्जितशत्रोर्नगरे । एकश्चतुर: स्पशो धर्मशालामुवास । तत्र चाऽऽगच्छद्भिर्विविधवर्गीयैर्जनैः सह तेन मित्रता स्थापिता । स्वयं च रत्नमणिमौक्तिकादीनां विक्रेताऽस्ति इत्येवंरूपो विश्वासोऽपि तेन जनमानसे निर्मितः । सन्ति च बहुमूल्यानि प्रभावाढ्यानि च रत्नादीनि मम सविधे - इत्यप्युद्घोषितं तेन । स्वल्पमूल्येनैव च स रत्नादीन्यपि विक्रीणाति । एवं च कृत्वा विविधजनेभ्यः सकाशात् विविधवृत्तान्तानापि जानाति । प्रतिदिनं तस्य मित्रसमूहो वृद्धिं प्राप्नोति । एकदा च तत्समूहे राज्ञोऽश्वपरीक्षकोऽपि समागतवान् । चारपुरुषाय च तस्य मैत्री अरोचत। शनैःशनैश्च प्रवृद्धा मैत्री । प्रतिदिनं तौ प्रभूतसमयं सार्द्धमेव तिष्ठतः । एकदा स चारपुरुषस्तस्मै द्वे रत्नेऽर्पयित्वा - 'य: कश्चिदपि एतयोः रत्नयोः स्वामी भवति तस्य कीर्तिः
९४
Page #108
--------------------------------------------------------------------------
________________
सदा निष्कलङ्कैव तिष्ठति इत्युक्तवान् । तच्छ्रुत्वा च सोऽश्वपरीक्षकः प्रासीदत् । तं चाऽवदत् - मित्रम् ! त्वया मह्यं प्रभावाढ्ये रत्ने दत्ते । अहमपि तुभ्यं तादृशमेव किञ्चित् कल्याणप्रदमुपदीकरिष्यामि । अश्वानां परीक्षकोऽस्म्यहम् । यद्येतादृशः कोऽपि प्राणी मां दृष्टिगोचरो भविष्यति तर्हि तमहं तुभ्यं दास्यामि । तया च तव जीवनमपि धन्यं भविष्यति' इति ।
अनेन वार्तालापेन तेन स्पशेन ज्ञातं यदेष जन उपयोगी अस्ति । अस्य सकाशादेव किमपि रहस्यपर्यन्तं ज्ञातुं शक्यम् । पश्चाच्च युक्तिपूर्वकं तेन ज्ञातमपि यद् - 'जितशत्रोः सविधे प्रभावशाली अश्वोऽस्ति । स एव चाऽस्य राज्ञो राज्यस्य च सुखसमृद्ध्यादीनां मूलमस्ति ।' एनां वार्तां ज्ञात्वा चारपुरुषोऽवक् यद् - नैतत् प्रतिपत्तुं शक्यं तथापि तव वचनेषु विश्वस्तोऽहं मन्ये । किन्तु कुत्राऽस्ति सोऽश्व इत्यपि ज्ञापयतु । अहं च तस्य दिदृक्षुरस्मि' इति ।
निहतः सोऽश्वो राज्ञा । अस्मिन्नेव नगरे स सुरक्षितोऽस्ति किन्तु तत्स्थानं नाऽहं जानामी'त्युक्तवान् स परीक्षकः ।
ज्ञात्वैतावन्तं वृतान्तं स्वदेशे प्राहिणोत् स चारपुरुषः । पुनश्च ततः सन्देश आगतो यद् - ‘कथमपि सोऽश्वः संशोध्यः, पश्चाच्च चातुर्येण सोऽस्माकं राज्ये आनेतव्यः । सर्वमेतत्कार्यजातं तदश्वपरीक्षक साहाय्येनैव भविष्यति, अतः कौशलेन सर्वमेतत्कर्तव्यम्' इति ।
इदानीं स चारपुरुषो नित्यं तेनाऽश्वपरीक्षकेण सह नगरस्य भिन्नभिन्नस्थलं पर्यटति । स एवं कल्पते यद्-एवमेव कस्मंश्चिद्दिने तस्याऽश्वस्य दर्शनं भविष्यति ।
एवं च नित्यं पर्यटनं कृते सति तादृशोऽवसरोऽप्युपस्थितोऽभूत् ।
एकदा जिनदासः श्रेष्ठी तमश्वं नीत्वा जिनालयं गच्छति स्म । तदा तेनैव मार्गेण गच्छतौ तावुभावपि तमपश्यताम् । अश्वपरीक्षकश्च तमुपालक्षयत् । सहसा च तं चारपुरुषं प्रत्यवदत् - 'पश्य पश्य ! मित्रं राज्यस्याऽभ्युदयकारकः स एवाऽयमश्वो गच्छति ।'
शोभनं ! शोभनमेतत् जातम् । अद्य मे दिक्षा पूर्णा सञ्जाता । तदर्थं धन्यवादस्तुभ्यमिति स चारपुरुषोऽवदत् । तदनु च वारं वारं स चारस्तेन मार्गेण गच्छति । एवं च तेन जिनदास श्रेष्ठिनो गृहमपि लक्षितम् ।
एकदा स जिनदासगृहेऽतिथिर्भूत्वा स्थितवान् । रात्रावपि स तत्रैवाऽस्थात् । अमावस्यासदृशी
९५
Page #109
--------------------------------------------------------------------------
________________
घोरान्धकारव्याप्ता सा रात्रिरासीत् । सर्वत्र नीरवत्वमेव व्याप्तमासीत् । सर्वेऽपि नगरजनाः सुप्ता आसन् । न कस्याऽपि पादसञ्चारोऽपि श्रूयते स्म । एतादृशे समये स चारपुरुषः स्वशय्याया उत्थाय गृहस्य पश्चाद्भागे गतवान् । यत्र चाऽश्वो बद्धस्तत्र गत्वा तं च ततो व्यमुचत् । पश्चात् शब्दो यथा न स्यात्तथा तमारूह्य निर्गतवान् । स्वराज्यं प्रति झटिति जिगमिषुः स वेगेन तमश्वं धावितवान् । अश्वोऽपि वेगेन चलति स्म । गाढान्धकारत्वेन न स चारपुरुषो मार्ग लक्षयति स्म। किन्तु अश्वस्तु नियतस्वपरिचितमार्गेण गच्छति स्म । एवं च स नद्यास्तीरे आगत्य तत्र जलमपात् । पश्चाच्च प्रत्यागतवान् स जिनमन्दिरे, तत्र च त्रिः प्रदक्षिणीकृत्य जिनदासस्य गृहमागतवान् । चारपुरुषस्येच्छानुरूपं गमनं न कथमपि करोति सः । तस्याऽऽज्ञां न सोऽनुसरति । पुनः पुनश्च नित्याभ्यासवशात् स तेनैव मार्गेण गमनागमनं करोति । स्पशः खिन्नोऽभवत् किन्तु अश्वस्तु अश्रान्त इव वारं वारं गमनागमनं करोति । एवमेव रात्रिर्व्यतीता।
अतः स्पशोऽपि भीतः सञ्जातः । अश्वं च तत्रैव तथैव च मुक्त्वा नष्टः सः । अश्वोऽपि श्रेष्ठिगृहस्य पश्चाद्भागे स्वस्थानमागत्योदस्थात् ।
प्रातःकाले च श्रेष्ठिना ज्ञात एष उदन्तः । कतिपयजना अपि श्रेष्ठिनेऽश्वस्य रात्रिपरिभ्रमणस्य वृत्तान्तमकथयन् । 'तदुपरि कश्चिदारूढोऽप्याऽऽसीत्' इत्यप्युक्तवन्तस्ते।
द्रुतमेव श्रेष्ठिना घटनैषा राज्ञे निवेदिता । राजा प्रधान सेनापतिश्च सर्वेऽपि सावधाना अभवन् । अधिकारित्वेन नियुक्तमश्वपरीक्षकमपि राजाऽऽहूतवान् । राज्ञा पृष्टः स भीत इवोक्तवान् यद् - 'कश्चिज्जनोऽश्ववैषियिकी पृच्छां कुर्वन्नासीत्' ।
प्रधानेनाऽविलम्बेन गुप्तचरास्तज्जनशुद्ध्ययर्थं नियुक्ताः । स्वल्पेनैव च कालेन स परदेशीयः चारपुरुषो गृहीतस्तैः । अश्वपरीक्षकोऽपि तमुपलक्षितवान् ।
राजा किञ्चिद् विहस्योवाच - 'भोः अश्वपरीक्षक ! अश्वस्य परीक्षायां त्वं निपुणोऽसि तदर्थं त्वभिनन्दनसाहस्री; किन्तु मनुष्यस्य परीक्षणे तु त्वं सर्वथा निष्फलोऽसि । एनं चारपुरुषमपि त्वं नोपालक्षयत् । अनेन च त्वं प्रतारितः । इतः परं न कदापि अनवधानेन स्थातव्यम् ।' एवमुपालभ्य राजा तमश्वपरीक्षकं मुक्तवान् । तं चारपुरुषमपि क्षमां दत्वा विसृष्टवान् ।
Page #110
--------------------------------------------------------------------------
________________
विहङ्गावलोकनम्
प्रश्नः
Swamy Brahmanand,
प्रश्न:
Swamy Brahmanand, Matthi Kappa, Po-Kalmane,
Sagar-Tk.Karnataka. मान्यसंपादकमहाभाग ! अनन्या प्रेमाशिषस्ते । नन्दनवनकल्पतरोः षष्ठ्यां शाखायां ६२ तमे पृष्टे मांसाहारत्यागप्रबोधके लेखे अन्ते एवमुच्यते, 'व्याघ्राणां प्रजातिर्नष्टा भवेदिति तु नेच्छास्पदम् । यतस्तन्नाशेन जीववैविध्यं (Bio-diversity)प्रस्खलिता भवति । व्याघ्रममारयित्वा वयं न तमुपकुर्मः किं तु स्वयमेव उपकृता भवामः' इति । अत्र विषये किंचिन्मे मन्तव्यं निवेदयितुकामोऽस्मि । व्याघ्राणाममारयित्वा अभयारण्येषु, मृगालयेषु च अवरुद्धानामेषां क्रूरप्राणिनां कृते सुपुष्कल-- मांसाहारसंपादनाय सहस्रशो मूकप्राणिनां बर्बरनिर्दयहत्या अवश्यं क्रियते। जीववैविध्य(Biodiversity)व्यसनिभिः एषा दुष्टमृगाणां व्याघ्रवृकादीनां सन्ततिं वर्धयितुकामैः सहस्रशो एवं मूकप्राणिनां बर्बरनिर्दया हत्या कथं वा समर्थ्यते ? अप्येतन्महावीरस्वामिसम्मतम् ? सुतरां नेति मे मतिः । यतो हि लेखको अन्ते सिद्धान्तयति "सृष्टेः सन्तुलनं चिरस्थायि कर्तुं महावीरस्वामिनां सिद्धान्ता एव जगतोऽत्यन्तमुपयोगिनो भविष्यन्ती"ति ।
महावीरस्वामी तावत् व्याघ्राणां क्रूरस्वभावमेव उन्मूल्य परिवर्तयित्वा तान् साधु संपादियतुमीहते, न तु तेषां मृगालयेषु अमयारण्येषु वा अवरुघ्य स्वातन्त्र्यहरणमीहते, नतरां तेषामाहारसपादनाय सहस्रशो मूकप्राणिनामजाविसारङ्गादीनां प्राणहरणमनुमोदते। ___मान्यसंपादक ! आगामिन्यां नन्दनवनकल्पतरोरावृत्तौ एतद्विषये संवदतु इति सविनयं प्रार्थयते प्रेम्णा ब्रह्मानन्दो यतिः।
उत्तरः ___ इदमत्रवधेयम् : लेखकस्य सम्पादकानामपि चात्र विषये व्याघ्राणां रक्षणं - हत्यास्थगनमेव अभिप्रेतं, न तु अभयारण्य-संग्रहालयादिषु तद्बन्धनं तदर्थं च क्रियमाणनिर्दोषासंख्यजीवहननसमर्थनं मनसाऽप्यभिप्रेतम् ।
जैनसिद्धान्तो न केवलं वधनिषेधमभिप्रैति उपदिशति वा, किन्तु बन्धननिषेधोऽपि तस्याऽभिप्रेतः । न कमपि जीवं बध्नीयात् हन्याद्वेति जैनोपदेशरहस्यम् । यथा मम वध-बन्धने अप्रिये, तथैव सर्वेषामपि सत्त्वानां ते अप्रिये एव । यच्च ममाऽप्रियं, तन्मा करोमि कस्याप्युपरि - इति च जैनी सदृष्टिरिति ।।
-०
-0
Page #111
--------------------------------------------------------------------------
________________
म-नम
प्रस्तुतिः - शी.
स्वामी (सेवकं प्रति)- त्वं पुनर्जन्म मन्यसे किम् ? 1/ सेवकः
ओम्, अवश्यं मन्ये। स्वामी - तदा तु मिलितः संवादः । सेवकः - कथम् ?। स्वामी
ह्यः त्वं यस्य त्वत्पितामहस्य अन्तिमसंस्कारविधौ गतवान् आसीः स एव त्वत्पितामहोऽद्य कियढेलापूर्वमेव त्वां द्रष्टुं आगतवान् आसीत्, अतो मया त्वं पृष्ट एवम् ।
शास्त्रीयसङ्गीतसन्ध्यायां पत्न्या हठेन पतिरपि गतवान् । तत्र कतिचिद् घट्यः सुतरां व्यतीताः। अत्रान्तरे सहसा पत्न्या निजहस्तेन पतिः प्रताडित उक्तश्च ‘पश्य, पश्य, कीदृग् विचित्रं दृश्यम् ! अरे, स जनो गायकवर्यस्य सन्मुखमुपविश्यैव निद्राति ननु ! कीदृग् निन्द्यमिदम् ?' ।
क्षुब्धेन पत्या प्रत्युक्तम् - 'आह् ! एतादृश्याः तुच्छवार्तायाः कृते त्वया मम निद्राभङ्गः कृतः?'।
Page #112
--------------------------------------------------------------------------
________________
'नेपोलियन'स्य शब्दकोशे 'अशक्य शब्द एव नासीत्।।
गुरो ! तदा तेन सुचारु निरीक्षणं कृत्वैव शब्दकोशः कथं न क्रीतः?
दक
__ 'तत्र गत्वा पुरुषाणां पङ्क्तेः प्रान्ते एव स्थानीयं' इत्युक्तमासीन्मया, तथापि त्वं तत्र कथं न स्थितः रे!?
प्रभो ! तत्स्थाने तु प्रथमत एव कोऽपि स्थितवानस्ति खलु !
ओह्, भवान् मम जामाता | भवितुमिच्छति तहि ?।
न, न, अहं तु केवलं भवतः पुत्रीं परिणेतुमेव इच्छामि । किन्तु एवं कुर्वता मया भवतो जामातृत्वं कया रीत्या परिहार्यं तत् न ज्ञायते तात!
Page #113
--------------------------------------------------------------------------
________________
तं ज्ञापयतु यद् अधुनाऽहमपि |तं द्रष्टुं नैव पारयामि !।
एक आतुरो बहिरायातोऽस्ति । स कथयति, अहं अदृश्योऽस्मि, न मां द्रष्टुं कोऽपि शक्तः!।
DIR
B.
मनावद्यः
__ भारतवर्षस्य राष्ट्रपितुः श्रीगान्धिमहोदयस्योपरि प्रेषिते पत्रे लिखितम् - ___ बापु, अस्मच्छरीराणां भारस्य प्रभावेण बहवः | सूक्ष्मजन्तवोऽस्मच्चरणतले आगत्य म्रियमाणा दृश्यन्ते । अस्या हिंसाया निवारणं कथमिव कर्तव्यम् ? मार्गदर्शनं क्रियतां भवता।
तत्रोपविष्टेन वल्लभभाईपटेलेन गदितम् -- __बापु, तस्मै महोदयाय लिखतु यद् अतः परं भवता स्वपादौ शिरस उपरि विनिवेश्य एव विचरणीयम् ।
१००
Page #114
--------------------------------------------------------------------------
________________
,000
यथावदवधार्यतां, इयं रक्ता गुलिका भवतः कण्ठशुद्धयथर्मस्ति । पीता उदरार्थ, श्वेता हृदयार्थम् । ज्ञातं किम् ?।
ओम्, मया तु यथावद् ज्ञातम् । किन्तु वैद्यवर ! इमाभिर्गुलिकाभिः ‘कया कुत्र गन्तव्यम्' इति ज्ञातमस्ति नास्ति वा ? ।
वद, क एतादृशो जीवः, यः सिंहवत् प्रविशति बर्करवच्च बहिनिर्गच्छति ? । |
मम पिता बत!।
NOK
पितः ! ह्यो मया पञ्च मक्षिका गृहीताः परीक्षिताश्च । तत्र त्रयो नराः द्वे च महिले आसन् । ‘एवं जातिभेदनिर्णये क आधारः खलु? ।'
सरलं खल्वेतत् । तिम्रो मक्षिकाः काष्ठसिंहासनोपरि (On the chair) आसीना आसन् द्वे च दर्पणस्योपरि !।
१०१
Page #115
--------------------------------------------------------------------------
________________
-
द्वौ जनौ विवदेते स्म। एकः कथयति - सिंही अण्डानि मुञ्चति, कालेन तेभ्यः सिंहशिशवः प्रादुर्भवन्ति । अन्यो वदति - नैवम् । सिंही साक्षादेव शिशून् प्रसूते।। विवादो बाढं वृद्धः । तन्निराकरणं कर्तुमपारयन्तौ तौ अन्ते तृतीयजनसमीपं गतवन्तौ । तदने स्वविवादं विनिवेद्य निर्णयार्थं स पृष्टस्ताभ्याम् । तेनोच्चैर्विहस्य निगदितं - अरे रे ! युवां भद्रप्रकृती स्त इति मन्ये । युवां किमियदपि न जानीथः यत् सिंहो वनस्य राजा, सिंही च साम्राज्ञी । सा तु स्वैरमेव वर्तते सर्वेषु प्रयोजनेषु । यदि तस्या मनः स्यात् तदा साऽण्डान्यपि मुञ्चेत्, कदाचिच्च सा स्वचित्तानुरोधेन शिशूनपि साक्षात् प्रसुवीत ! ज्ञातम्? गच्छत, किमत्र विवादेन ? ।
- मुनिरत्नकीर्तिविजयः ।
लुण्टाकः - यद्यदस्ति तत्तद् ददातु, अन्यथा ..... ! पथिकः - अन्यथा? अन्यथा किं करिष्यसि ? लुण्टाकः - एवं प्रश्नयित्वा मा मां भापयतु । एष
मे प्रथम एव प्रयासः ।
१०२
Page #116
--------------------------------------------------------------------------
________________
पिता (स्वपुत्रान् प्रति)- अहमिच्छामि यद् मम
पुत्राः तत्सर्वं प्राप्नुवन्तु
यन्न मया कदाऽपि प्राप्तम् । १ 'पुत्राः (सानन्दम्) - यथा ....? पिता
- परीक्षायां श्रेष्ठः परिणामः । म
- अस्मिन् विस्तारे - > किं कोऽपि महान् ? 7 पुरुषः जातः?
CAS
> सर्वे बालका < Z,एव जायन्ते ।
re
4093
कविः - इतः पूर्वं भवता एव मम केशकर्तनं कृतं खलु ? नापितः - न। अहं त्वत्र वर्षद्वयपूर्वमेवाऽऽगतोऽस्मि ।
(OHIT
१०३
Page #117
--------------------------------------------------------------------------
________________
भवता सकुटुम्बमधुनातनमेव विदेशप्रवासः कृतः । किं तत्र दारिनं दृष्टम् ?
अरे! न केवलं दृष्टं किन्त्वनुभूतमपि। अत एव त्वरया प्रत्यागता वयम् ।
___- मुनिधर्मकीर्तिविजयः
प्रातःकालादारभ्य रात्रिपर्यन्तमपि सर्वे श्रोतारो युष्माकं संभाषणं दत्तचित्तेन श्रुण्वन्ति, किन्तु पञ्चक्षणमपि मम भाषणं न भवान् श्रुणोति?
SAR
कर्णसहस्रेषु मदीयं भाषणं विभज्यते, 4 अतः तेषां श्रवणशक्तिः नाऽतीव परिश्राम्यति । किन्तु तव भाषणं तु | एकेनैव मया श्रूयते।
१०४
Page #118
--------------------------------------------------------------------------
________________
4
झटिति पञ्चमश्रेण्याः अधः आगच्छन्तं नयनं निरीक्ष्यविजयः - नयन ! कथमेतावत्या त्वरया धावति ? नयनः - मदीया घटिका अधोऽपतत्, ततः तस्याः अधःपतनस्य पूर्वमेव तां
गृह्णामि। B विजयः - तवाऽधोगमनपूर्वं तु सा नष्टा भवेत् ! नयनः - अशक्यम् ! अशक्यम् ! यतो मदीया घटिका सदा दशपलं ।
मन्दगत्या चलति । (राज्ञा सानन्दं कवये दत्तैका दुर्बला वडवा
द्वितीयदिने सा मृता) राजा - कविवर ! मम वडवा कीदृशी?
कविः - किं भवद्भिः अर्पिता वडवा न्यूना भवेत् ? - । राजा - तस्याः गतिः कीदृशी? । कविः - प्रभो ! किं कथयामि, भवतां वडवैकस्यामेव निशि एतज्जगत् विमुच्याऽन्यत्र जगति गतवती ।
-सन्तोषः आनन्दः शास्त्री, सूरत । । एको दार्शनिको बृहती सभा सम्बोधयति स्म । सभायाः समापनकाले तेनोद्घोषितं यद् “यदि नाम कोऽपि प्रश्नयितुं समुत्सुकस्तर्हि स्वप्रश्न पत्रोपरि लिखित्वाऽत्र प्रेषयतु।"
एवमुद्घोषिते सति बहुभिर्जनैः प्रश्नाः प्रेषिताः प्रत्युत्तराश्च सम्प्राप्ताः । अत्र च क्रमे पत्रमेकं तस्य हस्तगतमभूत् । तेन च तत्पठितम् । तत्र लिखितमस्ति स्म - 'गर्दभः' इति।
एवं पठित्वा क्षणं स स्तब्धोऽभवत् । किन्तु झटित्येव स उवाच - "अत्रैकं पत्रं प्राप्तमस्ति मया यस्मिन् केनचित् महाशयेन स्वनामोल्लेखः कृतोऽस्ति किन्तु प्रश्नलेखनं तु विस्मृतम् ।"
१०५
Page #119
--------------------------------------------------------------------------
________________
श्यामः - कथय मे यद् विवाहकाले वरः किमर्थमश्वमेवाऽऽरूह्याऽऽगच्छति
न गर्दभे? नरेशः - द्वौ गर्दभौ दृष्ट्वा कन्या मा बिभेतु - इति कृत्वा ।
किमन्तरं यथार्थे
अस्यां सभायामहं प्रवचनं करोमीति तु यथार्थं सत्यं च, किन्तु यद् भवानत्रोपस्थाय शृणोति, स भ्रमः ।
SIZभ्रमे च?
-
योगासनशिक्षकः - इदानीं तु योगासनाभ्यासेन भवत्याः पत्युः सुरापानव्यसने
किञ्चिदपि परिवर्तनं स्यादेवेति मन्ये ।
स्त्री
-
बाढं परिवर्तनं जातम् । अधुना तु शीर्षासनस्थ एव स सुरां पातुं शक्नोति।
१०६
Page #120
--------------------------------------------------------------------------
________________
:
उपहारगृहस्वामी - गूर्जरराज्ये तु सुरापानं निषिद्धमस्ति । अतो न वयं तुभ्यं सुरां
दातुं शक्नुमः । तदर्थं च क्षन्तव्या वयम् । ग्राहकः - किन्तु, अत्र कपाटे तु सुरा विद्यते एव? । उपहारगृहस्वामी - एषा तु तेषां कृते एव, ये सर्पवृश्चिकादिभिर्दष्टाः स्युः।। ग्राहकः - एवं तर्हि सर्पा वृश्चिकाश्च कुत्र वर्तन्ते, तत्कथयतु ।।
AURC
5
-महेश्वरः द्विवेदी एकदा एकः मूषकः सिंहस्य विवाहप्रसङ्गे सोत्साहः नृत्यति स्म । तदा एक: सिंहः तम् अपृच्छत् - कथं सिंहस्य विवाहे त्वं नृत्यसि ? सः अवदत् - यस्य विवाहः अस्ति सः मम अनुजः अस्ति । सिंह उक्तवान् - एतद् अशक्यम्, सः सिंहः, त्वं तु मूषकः, भ्राता कथं भवितुमर्हसि? मूषकः उक्तवान् – अहमपि मम विवाहसमये तु सिंह एव आसम् ।
२
Res
१०७
Page #121
--------------------------------------------------------------------------
________________
More
संवेगमंजरीकलयं
E
विभागः
-- मुनिकल्याणकीर्तिविजयः मोहमूढस्स जीवस्स रागपरवसत्तणं, तप्पडियाररूवस्स य पसत्थरागस्स सयलसोक्खकारणत्तणं गाहाजुयलेण निरूवेइ सत्थयारमहरिसी -
राईइ अंधयारे विदूर-देसट्ठियस्स लीलाए। जह रागवसेण फुडं पिअस्स निव्वन्नसे रूवं
॥२०॥ तह जइ कया वि कहमवि कहिं पि ईसिं पि परमपुरिसाणं।
मुहकमलं पिच्छसि लहसि नूण ता सयल-सुक्खाई ॥२१॥ अन्वयः (रे मूढ !) जह रागवसेण (तं) राईइ अंधयारे विदूरदेसट्ठियस्स (वि) पिअस्स रूवं फुडं (तहा) लीलाए निव्वन्नसे, तह जइ कया वि कहमवि कहिं पि परमपुरिसाणं मुहकमलं ईसिं पि पिच्छसि ता नूण सयलसुक्खाई लहसि। भावार्थः रे मूढ ! तं रागरज्जूहिं तहा निबद्धो सि जहा तओ न कहमवि छुट्टेउं पारेसि । तह वि तुज्झ एयं बंधणं चेव अईव पियं । अस्स नियंसणं पि एत्थ अत्थि । जहा - तं राईइ वेलाए तारिसे वि गाढे अंधयारे कहिं पि दूरदेसंमि ठियस्स निययपिययणस्स रूवं सरूवं च फुडं चेव लीलाए निव्वत्रस्से, जहा "एसा सा चेव, जओ एरिसी आगिई एरिसी य तणुलया तीसे चेव हवेज्ज ।" तओ एवं तीए रूवदंसणेण अईव हिट्ठो तं चित्तंमि सुहं पि पावेसि। किं तु किं तए कइया वि सयलासुहदुहविणासकराणं सयलसमीहिय-सिद्धिकारयाणं परमपुरिसाणं जिणेसराणं मुहकमलं दिटुं ? जइ न दिलु ता नूणं तुमाओ वि अहन्नो अण्णो न को वि अत्थि एत्थ जयंमि । जओ जइ तं कया वि कहमवि कहिं पि ईसि पि तेसिं जिणरायाणं परमेसराणं वयणारविंदं अणिच्छाए वि पेच्छिस्ससे ता नूणं सयलाई वि सुक्खाइं तुज्झ चरणपडियाइं चेव । तहा जयस्स सयला वि लच्छी तुज्झ गिहे आवेउं ऊसुया चेव ।
१०८
Page #122
--------------------------------------------------------------------------
________________
जीवस्स रागो चेव पिओ त्ति सनिदरिसणं दरिसेई - आमूलाओ सोअग्गिणा वि दड्डस्स तुज्झरे जीव ! उम्मीलंति सया रागपल्लवा नवनवा चेव
॥२२॥ अन्वयः रे जीव ! आमूलाओ सोअग्गिणा दड्डस्स वि तुज्झ सया नवनवा रागपल्लवा उम्मीलंति चेव। भावार्थः रे मुरुक्ख ! तं जाणेसि चेव जहा - कयाइ वि वणे दवग्गी लग्गइ तया बहुणो रुक्खा मूलसहियं पि पज्जलेंति । जइ वि विज्झायंमि दवग्गिमि केसिंचि रुक्खाणं थाणुणो तत्थ चेव ठिया दीसेंति । किन्तु तेहितो थाणूहिंतो न कयाइ वि पल्लवा पप्फुडेंति त्ति ।
परं तं तु तेहितो वि अहिगो। जओ एत्थ लोगंमि तुज्झ जाणंतस्स चेव तारिसा अणेगे पसंगा हवंति जे दळूण सोऊण य तुज्झ हिययंमि सोयग्गी पज्जलेइ, तेण य अग्गिणा सव्वे वि अहिलासा विट्ठा विव तुज्झ सयलं पि जयं असारं अणिच्चं च पडिहाई । तं च सव्वं सव्वहा चइउं इच्छंतो पिव तं वट्टेसि ।
किं तु एअस्स सोअग्गिणो मज्झे निब्भरं दड्माणस्स वि तुज्झ जइ कहमवि अणुकूललवं पि किंचि घडेज्ज ता न जाणे कुओ तुज्झ चित्ते नवनवा रागपल्लवा उम्मीलेंति !! तं नूणं एवं महंतं अच्छरियं ।
पावप्पियस्स जीवस्स निल्लज्जत्तणं पयासेइ - हद्धी ! कहं न लज्जसि पावं अयरामरुव्व जं कुणसि?। पिच्छंतो जललवलोल-मेवमेअं जयं सयलं
॥२३॥ अन्वयः (रे जीव ! ) (तं) एअं सयलं (पि) जयं एवं जललवलोलं पिच्छंतो (वि) अयरामरु व्व जं पावं कुणसि (ता) कहं न लज्जसि? हद्धि (तुह)। भावार्थः रे निल्लज्ज ! एत्थ सयलंमि वि जए पवट्टमाणं असमंजसं सव्वत्थ य उप्पत्तिविणासतंडवं दह्ण णेगवारं – 'सव्वं पि एयं कुसग्गजलबिंदुव्व गयकण्ण व्व सारयब्भ व्व चंचलं खणिगं अणिच्चं चेव ' त्ति तं सयं चेव मन्नसे चिंतेसि य। एवं ठिए वि जं निस्संकत्तणेण अप्पाणं अयरामरं पिव मन्नंतो तं अकज्जाइं आयरेसि दुट्ठाचरणाई करेसि पावट्ठाणाइं च
१०९
Page #123
--------------------------------------------------------------------------
________________
सेवसि - ता तुज्झ लज्जा न अणुहविज्जइ ? हा ! धिरत्थु तुमं । मच्चुणो दारुणत्तं जीवस्स य अविवेगित्तणं गाहाजुयेण पयासेइ - पिच्छंतस्स वि तुह दारुणो इमो मच्चुकेसरि-किसोरो । ही ! हरइ वल्हे सरणविरहिए बालहरिण व्व दट्ठूण विहीरंतं विसंठुलं जगमिणं जमभडेहिं । किं नच्चतो चिट्ठसि रे पाव ! विवेगपरिहीणो ?
॥२५॥
अन्वयः
रे पाव ! तुह पिच्छंतस्स वि ही इमो दारुणो मच्चुकेसरिकिसोरो सरणविरहिए बालहरिण व्व वल्लहे हीरइ (ता) विसंठुलं इणं जगं जमभडेहिं हीरंतं दट्ठूण वि विवेगपरिहीणो नच्चतो किं चिट्ठसि ? |
भावार्थ: रे पाव ! महामोहपीडिअस्स तुज्झ एत्थ संसारे बहुणो सयणा मित्ता य अईववल्लहा संति जेहिं विणा तं खणमवि ठाउं असमत्थो, जेसिं च वयणाइं पडिकूलाई वि अणुकूलाई मन्नंतो तं तक्कहियं सव्वमवि मन्नेसि आयरेसि य । तहा तेसिं कज्जे निययं सव्वस्सं पि अप्पेउं सा वि पण हवेज्ज । किन्तु तारिसा वि वल्लहा जणा तुह पिच्छंतस्स चेव जया दारुणे भीसणे य मच्चुमहामच्छमुहंमि पडिऊण कत्थइ विलीणा हवंति तया तेसिं को विसरणं न हवइ जाव तं पितेसिं सरणं काउं असमत्थो चेव ।
जहा - वणमज्झे वसंतस्स हरिणस्स डिंभरूवाइं बालहरिणाइं अईव वल्लहाई । किं तु जया hi बुभुक्खापीडिएण सीहकिसोरेण ताइं दट्ठाई तया सो तस्स हरिणस्स पिच्छंतस्स चेव हढेण ताई मारिऊण खाएइ तहवि सो हरिणो ताइं रक्खेडं न किंचि वि काउं समत्थो हवेज्ज । एवं तं पित्त उवणयो ।
अह एवं पि सयलं जयं आउक्खए मच्चुमित्तेहिं विव जमभडेहिं हढेण हीरिज्जमाणं तं निययचक्खूहिं चेव पेच्छसि - तहा तारिसाई दट्ठूण अईव दुही निव्विण्णमाणसो य हवेसि, तह वि रे मूढ ! अविवेगपडलेहिं तुज्झनयणाई तहा पिहियाई संति जहा तं निययं हिययं सव्वहा अचेतयंतो पावपंके चेव नच्चंतो सूअरो व्व चिट्ठसि त्ति न याणिमो कया तुज्झ विवेगस्स उदओ हवेज्ज ?
101
॥ २४॥
११०
Page #124
--------------------------------------------------------------------------
________________
पत्रम
ॐ ह्रीँ णमो परमगुरुनेमिसूरीणं ॥
सिरिआणंद !
धम्मलाहेण संभावेमि तुमं ।
अणंतुवगारीणं परमेसराणं निच्चकरुणोल्लहिययाणं गुरुभयवंताणं च किवापसाएण पसाइआ अम्हे सव्वे वि पसन्नचित्ता निरामया य वट्टेमो । तं पि कुसलदेहो वट्टेज्ज ।
पुव्वंमि पत्ते दव्व - भावपूयाए अनंतरं जंकरणिज्जं जाणाविस्सं ति पडिजाणियं आसी मए। किंतु चाउम्मासवासे विविहाज्झयणवावडस्स तयणंतरं च बेंगलूरनयरं पइ विहारजत्ताए वट्टमाणस्स मह तल्लिहिउं अवगासो चेव न लद्धो । एत्थंतरे कोल्हापुरनयरे सावगाणं अव सिणेहपुण्णग्गहवसेण अहिया थिरया हुया । अओ एवं अवसरं लद्धुं लेहणं आरद्धं चेव ।
- मुनिकल्याणकीर्तिविजय:
अह एत्थ लोअंमि जणा देवपूयाणंतरं * अग्गिकारियं पकुव्वंति । एयाए अग्गिकारिया संपया पाविज्जइत्ति तेसिं मयं । तेसिं सत्थेसु वि एवं समाइट्ठ, जहा
या विउलं रज्जं अग्गिकज्जेण संपया ।
तवो पावविखोट्टं नाणं झाणं च मुत्तिदं ॥
(सिवधम्मुत्तरसुत्ते)
एत्थ एवमाइक्खियं जहा देवयाए दव्वपूयं कुणंतस्स रज्जं लहिज्जइ, अग्गिकज्जं कुणंतो संपयं पावेइ, तवं कुणमाणो पावाई विसोहेइ, नाणं झाणं च आराहंतो कमेण मुत्तिं पावेइति ।
किंतु एयं रज्जं एसा य संपया पावं पि जणयंति अओ तेसिं उवादाणं सव्वहा विसुद्धं अहं च न हवेइ । तहा अग्गिकारियाए अग्गिकायजीवाणं वहो वि हवई त्ति अण्णं पि पावं तत्थ ।
अओ लोगुत्तरसत्थेसु भावेण अग्गिकज्जं समाइटुं जं न जीववहकारणं नावि य पावजणयं अवि य चित्तविसोहिकारणं पाव- कम्मखयकरं कमेण मुक्खसुहदायगं च ।
-
णणु अग्गिकारियं कुणंताणं तिण्णि वत्थूणि आवस्सगाणि, तं जहा इंधणाई, घयतिल्लाइसिणेहस्स आहुई, अग्गी य । ता भावग्गिकारियाए काई ताई ? ति ।
१११
-
Page #125
--------------------------------------------------------------------------
________________
एत्थ कहेंति महरिसिणो जहा - भावग्गिकारियाए अट्ठविहं कम्मं चेव इंधणाई, तहा जीवस्स उत्तिमा पसत्था य भावणा चेव सिणेहाहुई, तहा धम्मज्झाणं चेव अग्गि । तओ य नाणावरणिज्जाइयं अट्ठविहं कम्म इंधणत्तणेण गहिऊण तत्थ य पसत्थसुहभावणासरूवं आहुई पक्खिविऊण तओ य धम्मज्झाणसरूवं उवलक्खणेण य सुक्कज्झाणसरूवं अग्गि पज्जालिऊण धम्मत्थिणा णिच्चं पि अग्गिकारिया कायव्वा ।
एयाए अग्गिकारियाए अम्ह चित्तं विसुद्ध हवेइ, कम्माण य खओ हवेइ, तओ उ मोक्खसुहाइं साहीणाई चेव।
नणु जे जीवा संपयं चेव अहिलसंति तेहिं तु दव्वग्गिकारिया कायव्वा चेव त्ति कोइ संकेइ । एत्थ एवं समाहाणं, जहा-किसिकम्मं कुणंतस्स खेत्तियस्स किसिकम्मावसाणे विविहधण्णलाहेण सद्धि विउलस्य पलालस्स वि लाहो हविज्जइ । पलालत्थं हि तेण न को वि परिस्समो कायव्वो। एवं एसा वि मुक्खसाहगा भावग्गिकिरिया जहा जहा सम्मं आराहिज्जइ तहा तहा मुक्खसाहणसमकालं (जाव मुक्खो न हवइ ताव ) आणुसंगियफलरूपेण इड्डिलद्धि-समिद्धिसरूवं विउलं संपयं पि पसाहेइ चेव । तेसिं कज्जे न कोइ भिण्णो पयत्तो कायव्वो।
जं पि सावगाणं दव्वपूयावसरे धूव-दीवाइयं अग्गिकज्जं समाइटुं तं पि मुक्खाहिलासेण चेव कीरमाणत्तणेण न पावजणगं त्ति विसेसो । अओ तत्थ निसेहो न जुग्गो ।
एवं च भावग्गिकारिया चेव वरयरा न उण दव्वग्गिकारिया त्ति भावग्गिकारियाए चेव पयत्तो कायव्वो त्ति महापुरिसाणमुवएसो।
अह पत्तेयं सावगेण साहुणा य पइदिणं गुरुभगवंताण वंदणं कायव्वं तयणंतरं च तेहिंतो पच्चक्खाणं गहेयव्वं । ता तेसिं किं सरूवं ति अण्णंमि पत्ते जहासिग्धं जाणाविस्सं ति सं।
अग्निकारिकाम्
Page #126
--------------------------------------------------------------------------
________________
हत्थयलरोमाई
- मुनिकल्याणकीर्तिविजयः अह एगया अत्थाणकज्जे सम्मत्ते अकब्बरो वीरबलो य विविहे विणोए काउं लग्गा । ताव अकब्बरेण किंचि चिंतिऊण वीरबलो पुट्ठो - "वीरबल ! बहुणो कालाओ हं चिंतेमि जं मज्झ हत्थयले रोमाइं किंति न विज्जंति ?"
वीरबलेण तक्खणं चेव कहियं - "पहू ! एत्थ किं वत्तव्वं ? जं मारिसाण जणाणं विउलं दाणं देंतस्स तुम्ह हत्थयलाओ रोमाइं विणट्ठाई।"
"ता तुज्झ हत्थयले किमटुं रोमाइं न विज्जंति?" "पहू ! तुम्ह हत्थाओ वारं वारं दाणं गिण्हंतस्स मह वि हत्थयलत्तो रोमाणि विणट्ठाई।"
"नणु सच्चं तुज्झ कहणं पडिभासइ । परंतु एएसिं सभाजणाणं हत्थयलेसु केण अटेण रोमाणि न संति ? " ___ "सामिसाल ! दाणं देंतं तुमं तहा गिण्हतं मं च दट्ठण हत्थयलाई घरिसंताणं एयाण वि हत्थयलेहितो रोमाइं पणट्ठाई !!"
वाच्यतां समयोऽतीतः, स्पष्टमग्रे भविष्यति । इति पाठयतां ग्रन्थे, काठिन्यं कुत्र वर्तते ? ॥ (नीलकण्ठदीक्षितः)
Page #127
--------------------------------------------------------------------------
________________
Page #128
--------------------------------------------------------------------------
________________ जयतु सकलकल्या .....2 भुवने भवतु सकलकल्याणं मा हिंसन्तु जना अन्योन्यं, मा कुर्वन्तु प्रहाणं... हिंसातो दूयेत स्वान्तं यस्यासौ किल हिन्दूः हिंस्यमानमभिरक्षति नितरां हिन्दू: करुणासिन्धुः दुष्टेष्वप्यनुकम्पाकरणं हिन्दुत्वस्य प्रमाणम् कर्मपिशाचानां म्लेच्छानां कामं हिंसा धर्मः सारासारविवेकवतां ननु, आर्याणां सोऽधर्मः निजधर्मं हित्वा परधर्मे रमणं न भवेत् त्राणम् हिंसा पापं हिंसा तापो, हिंसा दुर्गतिदात्री अहिंसैव परमोऽस्ति सुधर्मः, विश्वविश्वजनधात्री हिंसां त्यक्त्वा श्रित्वाऽहिंसां, विन्दत निजकल्याणम् / भारतवर्षे जन्म न सुलभं मानुषमिति ऋषिवाणी प्राप्य जन्म केचित्तत्रापि न विजहति हिंसकतां ही ! रोद्धं पारयतीह न कोऽपि नु तेषां कुगतिप्रयाणम् प्रसरतु सामरस्यमिह राष्ट्र, वैमनस्यमपसरतु करुणाकान्तं शान्तिनिशान्तं स्वान्तं लोको धरतु क्षेमं वितरतु नाथ ! जनानां मधुरं भवदभिधानम् -शी.