________________
एतादृशो जीवः स्वकल्पितं स्वदृष्टौ च यदागतं तदेव कारयति अन्यैः । यदा कदाचित् खलु ये केऽपि नाम तत्कल्पितात् विरुद्धं कुर्युः तर्हि तेषामवमाननमवहेलनं च यथा करोति तथा समाजे लोके मित्रवर्गे च निन्दापात्रंते भवेयुः । यतः तच्चित्ते 'मया यत्क्रियते तत् सत्यमेव भवति' इति वर्ततेऽभिनिवेशः ।
अन्यच्चैतत्तु अस्मामिः सवैरप्यनुभूयामहे एव यत् कदाचित् कोऽपि जीव: पूर्वभवस्य पुण्यबलेन सत्ताधीशो धनपति: ज्ञानी च भवेत् तदा सहसैव तस्य वर्तनं परावर्तते । यो ह्यो मित्रं प्रियजनश्चाऽऽसीत्, स अद्य स्मृतिपथात् दूरं भवति, यथा न कदाऽपि सः दृष्टः तथा व्यवहारं करोति, सर्वमप्येतत् गुरुताग्रन्थेः फलमस्ति ।
अथ यथा सुरापानस्योन्मादो भवति तथैव एतया ग्रन्थिना पीडितस्य जीवस्याऽपि सत्तायाः धनस्य ज्ञानस्य चोन्मादः भवति । तेन उन्मत्तो जीवो न लज्जामनुभवेत् कस्याऽपि कार्यस्य करणे । कदाचित् केनाऽपि तस्य मिथ्याभिमानस्य स्खलना क्रियते तर्हि तस्य हत्या कारयेत् तदा न खेदोऽप्यनुभवति चित्ते । यथा 'अमेरिकादेशस्याऽधिपतिः ज्योर्जबुशः' ।
'ओसामा बिनलादेनेन' कियत्कालं पूर्वं 'अमेरिकादेश' स्थस्य विश्वप्रसिद्धविश्ववाणिज्यकेन्द्र(वर्ल्ड ट्रेड सेन्टर)स्योपरि 'विमानयान' द्वारेण आक्रमणं कारितम् । तदातङ्केन बहुभूमिकमपि भवनं सर्वतो ध्वस्तम्। नैके जनाः मृताः।
एतद्घटनया अमेरिकाप्रमुख : ज्योर्जबुशः क्रुद्धोऽभूत् । स्वाभिमानः खण्डितोऽभूत् तस्य । तन्मानसे विश्वस्योपरि अमेरिकायाः एव प्रभुत्वमस्तु, सर्वेऽपि देशाः अमेरिकायाः आज्ञायां वर्तन्तां तथा धनदृष्ट्या, वैज्ञानिकदृष्ट्या, अद्यतनशस्त्रोत्पत्तिदृष्ट्या मेरिकादेशः एव श्रेष्ठ: भूयात्, इति मिथ्याभिमानः आसीत् ।
अतो यदा 'लादेने'न सहसैवाऽऽक्रमणं कृत्वा विश्ववाणिज्यकेन्द्रं क्षणमात्रेणैव नष्टं तदा जनाः परस्परं संवदन्ते स्म यद् एष देशो महान्, सुरिक्षतदेशः आसीत्, भूमौ गगने चा सूक्ष्माऽपि या क्रिया भवेत् तज्ज्ञातुं समर्थानि साधनानि यत्र उपलब्धानि आसन्, तथाऽपि तत्र कथं एवंभूतम् ।
एवं देशस्य महत्ता खण्डिता, सर्वत्र च स्वदेशस्य लघुता जाता । अतः सोऽतिक्रुद्धो बभूव । तत: एव तेन ‘तालिबान' देशस्योपरि सर्वतः आक्रमणं कृतम्, सः समस्तदेशो नष्टप्रायः कृतः,
Jain Education International
५४
For Private & Personal Use Only
www.jainelibrary.org