SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ समग्रो देशो निर्जनः समतलभूमिनिभोऽकारि। अनेकेषां जीवानां घातोऽपि अभवत् । भूरिद्रव्यस्य दुययोऽपि बभूव । समग्रविश्वेऽशान्तिः प्रसृता । 'किं भविष्यति' इति चिन्तया जनानां हृदयमपि कम्पितमभूत् । - एतेन ज्ञायते यन्न कदापि गुरुताग्रन्थिना व्याबाधितो जीवः स्वस्य लघुतां अपराधं च सोढुं समर्थोऽस्ति । यो जीवः सर्वदा तस्य प्रशंसां बहुमानं च कुर्यात्, स एव तस्मै रोचते, नाऽन्यः । किन्तु जीवस्यैतादृशस्य विकासोऽशक्यः । एषा ग्रन्थिः पतनस्य कारणमस्ति । शिखरात् पतितस्य जीवस्य यादृशी दुर्दशा भवति ततोऽप्यधिका दयनीया स्थितिः जीवस्याऽस्य भवति । यदाऽऽत्मनो मिथ्याभिमानस्य भ्रमणोच्छिद्येत तदा एष जीवोऽवश्यमेव लघुताग्रन्थि प्राप्नोति । अतो न कदाऽपि अतीवाऽभिमानः करणीयः । अथ विहारयात्रायामवतरणं कृत्वा यावद्भूमौ प्राप्तौ सत्यां उपरिस्थिताः जनाः महन्तो दृश्यन्ते। तदा चेतसि लघुतोत्पद्यते यदहो! 'एतादृशः पर्वतीयमार्गः कथमारूह्यते मयि तु नास्ति शक्तिरेव' इति । एषैव ‘लघुताग्रन्थिरिति' उपलक्ष्यते । __ हीनता-ईर्ष्या-असूया-आत्मविश्वासाभाव-द्वेष-शङ्का-क्षुद्रतादिदुर्गुणानां निधिरस्ति एषा ग्रन्थिः । एतद्ग्रन्थिना पीडितः सर्वदाऽऽत्मानं दुर्बलं-शक्तिहीनमेव मन्यते । एष जीवःसदा निषेधात्मकेनैव व्यवहारेण प्रवर्तते वदति च । चित्ते न कदाऽपि स्वशक्तेः प्रकटीकरणार्थमुत्साहो जागति तस्य । सदा वराको ग्लानः तपस्वी चेव वर्तते । ___ एषा ग्रन्थिः आद्यं जीवस्यात्मविश्वासमेव हन्ति, एषैव अस्याः ग्रन्थेः विशिष्टताऽस्ति । ततः आत्मश्रद्धाविहीनो जनः कदाऽपि किमपि कर्तुं न शक्नुयात् । कदाचित् कथयेत् कोऽपि जनः 'एतत् कुरु' इति, तदा "कथं भूयते, अहं तु लघुजनः, एतादृशं कार्यं कर्तुं मे न शक्तिरेव, कार्यं भवेत् तर्हि सुन्दरं भवेत् न वा "इत्यादयो विकल्पाः तस्य चित्ते उत्पद्यन्ते । एवं निषेधात्मकं वर्तनं करोति स जीवः । तत एव यस्य स्वस्योपर्येव न स्यात् श्रद्धा तर्हि कथं स्यात् श्रद्धाऽन्येषां जीवानामुपरि। शंकादृष्ट्यैव स जीवः किमपि कार्य, कस्याऽपि वर्तनं कथनं च पश्येत् । अत एव वेदान्तवादिनः बुवते- 'यस्य स्वस्योपरि नास्ति श्रद्धा स नास्तिको जीवः' इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy