SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आस्गादः मुक्तचिन्तनम् -मुनिधर्मकीर्तिविजयः (१) ग्रन्थि : विहृतवन्तः आस्म 'बेंग्लोरनगरं' प्रति पूज्यपादगुरुवर्यैः सह वयं सर्वेऽपि । सूरत- नगर्याः निर्गत्य विहरन्तः वयं नासिकनगरं आजग्मिम । तस्यां विहारयात्रायां सह्याद्रिपर्वतस्याऽतिरम्याः गिरिश्रेणयो दृष्टाः । तत्र प्रकृतेः सहजं सौन्दर्यं तथा विधातुः अगम्या- अकथनीया-अवर्णनीया च लीलाऽपि अदर्शि अस्माभिः । __ आसीत् सा समस्ताऽपि विहारयात्रा पर्वतीयमार्गेण वेष्टिता । ततः प्रतिदिनं कदाचिदारोहणं कुत्रचिदवतरणं चाऽन्वभवत् । एवं प्रतिदिनमागच्छदारोहणमवतरणं च निरीक्ष्य तस्मिन्नेव काले मनुष्यजीवनेऽपि वर्तमानमारोहणमवतरणं च दृष्टिपथे आगतम् । निरन्तरं ताभ्यां नरः पीडामनुभवति । तेन च न खलु कदाऽपि जीवः सुखस्याऽमृतस्य पानं कर्तुं समर्थो भवति । अभिलक्ष्यतेऽधुना तदारोहणमवतरणं च गुरुताग्रन्थिः लघुताग्रन्थिश्चेत्यभिधानेन चिन्तनकारैः । विहारयात्रायामारोहणं कृत्वोपर्युपरि गच्छति सति क्रियतेऽधोदृष्टिः यदा तदा भूमिस्थिताः अधःस्थिता: वा जनाः तुच्छाः वराकाः तृणप्रायाश्च ज्ञायन्ते स्म ते । तदा चेतसि ‘महानहं, श्रेष्ठोऽहमेतेभ्यो जीवेभ्यः' इत्युपपद्यतेऽहङ्कारः । एषैव 'गुरुताग्रन्थिः' इत्यभिधीयते । _अस्ति जननी घृणा-अहङ्कार-स्वदोषाभिमान-क्षुद्रता-निष्ठुरता-उद्धता-तुच्छताअसत्यभाषणादिदुर्गुणानामेषा ग्रन्थिः । यत्र खलु अस्ति गुरुताग्रन्थिः तत्र केनाऽपि प्रकारेणोपरि वर्णिताः दुर्गुणा: वर्तेरन्नेव। एतद्ग्रन्थिना बाधितस्य जीवस्याऽऽन्तचित्ते 'मादृशो नाऽन्योऽस्मिन् जगति कोऽपि, अहमेव श्रेष्ठः, मया यक्रियते तत् सत्यमेव भवति, न भवेन्मे कदाऽपि स्खलना, नास्ति मे केषामपि आवश्यकता' इति मिथ्याभिमानो रमते । एतादृशो जीवस्य प्रतिपदं वार्तालापे व्यवहारे चैष मिथ्याभिमानः उच्छलति । स अन्यैः सह सदोद्धतापूर्वकं चैव व्यवहरति । अस्ति सुदुर्लभं सरलतायाः कोमलतायाश्च तु दर्शनमपि । सदा तस्य भ्रूकुटिः तीक्ष्णैव भवति । ५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy