________________
तेन क्षमा प्रार्थनीया ?
सोक्रेटिस:
स न विचारपूर्वकं तथा करोति !
एपोलोडोरसः नैवम्, आशयस्तु तत्र तस्य विद्यत एव ।
सोक्रेटिस:
एपोलोडोरसः
सोक्रेटिस:
-
Jain Education International
-
-
-
श्रुणु मेऽभिप्रायम् । अहं न दण्डयामि अतो न क्षमामप्यपेक्षे । इदं तु निश्चयेन ज्ञेयं यद् नैव कोऽपि जानन्नपि अनिष्टमाचरति । अनिष्टं तु केवलं रक्तबीजम् । यन्न स जानाति तदर्थं तु न स दण्डनीयः।
पश्चात् मार्गमध्ये एव स्थित्वा एपोलोडोरसस्य शिरसि हस्तं प्रसार्य सोक्रेटिस उक्तवान्शिक्षा तु कर्तव्यैव । किन्तु सा एकैव - 'ज्ञानदानरूपा' इति ।
सत्यम् ! किन्तु न विचारपूर्वकम् । केवलमविमृश्यैव तस्य तत्र प्रवर्तनम् । यदि स जानीयात् यत् – अन्यस्याऽनिष्टेन न स स्वयं सुखी भवितुमर्हति तर्हि न स तथाऽऽचरेत् । किञ्च, अज्ञानस्य च का शिक्षा ?
नगरं कथं रक्षणीयम् ? मातृद्रोहिणः पितृद्रोहिणो नगरद्रोहिण इत्यादयोऽनेकेऽत्र निवसन्ति !
-
शैशवेऽभ्यस्तविद्यानां, यौवने विषयैषिणाम् ।
वार्धक्ये मुनिवृत्तीनां योगेनाऽन्ते तनुत्यजाम् ॥ ( कालिदासः)
शैशवे भ्रष्टविद्यानां, यौवने विषभक्षिणाम् ।
वार्धक्ये श्वानवृत्तीनां, रोगेणाऽन्ते तनुत्यजाम् ॥ ( प्रतिकाव्यम्)
५२
For Private & Personal Use Only
www.jainelibrary.org