SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ स्वभाग्यवशान्मृतो रुग्णो वेति जना मन्यन्ते स्म । एवमेव जनेभ्यो लब्धेन धनेन स निजजीवनं यापयामास। इतस्तस्य विप्रस्यैकः पुत्र आसीत् । स तु बाल्यादेव तथाविधप्रज्ञाविकलः, पशुवन बहुभोजी, किंकर्तव्यविमूढश्चाऽऽसीत् । अतो न किञ्चिदप्यधीतवान् नाऽपि काञ्चित् कलां शिशिक्षे। अथ तस्मिन् द्वादशवर्षे जाते गौरीशङ्करोऽयं कदाचिद् हृदयाघातादमृत । किन्तु मृतेऽपि तस्मिन् व्याधिग्रस्ता जना औषधानि ग्रहीतुं तद्गृहे आगच्छन्ति स्म । अयं तु न किमप्यौषधं वेत्ति स्म । अतस्तेनैतदर्थं निजमाता पृष्टा । साऽपि सर्वाः स्थालीविलोक्यैकस्यां हरीतकीचूर्णं ददर्श कथितवती च पुत्रं - 'वत्स ! तव पिता प्राय इदमेव चूर्णं सर्वेभ्योऽर्पयामास । अतस्त्वमपि सर्वेभ्य एतदेव दद्याः।' इति । सोऽपि मातृवचननिष्ठतया यो यो रुग्णो रोगनिवारणार्थं तत्समीपमागच्छत् तस्मै हरीतकीचूर्णमेव दत्ते स्म । तस्य च भाग्यवशात् सर्वेषामपि प्रस्तुतरोगोपशमनमजायत । अतो हृष्टा जनास्तस्मै विपुलं धनमयच्छन् । एवं च कतिपयदिनैरेव स धनिको जातः । अथैकदा ग्रामाध्यक्षस्य वडवा केनचिच्चौरेणऽपहृता । अत्र तत्र सर्वत्र मृगिता अपि नैव प्राप्ता । तदा केनिचज्जनेन ग्रामाध्यक्षायाऽस्य वैद्यपुत्रस्य साहाय्यमादातुं सूचितम् । अतस्तेन ग्रामाध्यक्षेण निजपुत्रस्तद्गृहे प्रेषितः । सोऽपि ग्रामणीपुत्रः वैद्यगृहं गत्वा तं बालं पप्रच्छ - 'भोः ! क्व मेऽश्वा लप्स्यते?' इति । सोऽपि तस्मै हरीतकीचूर्णं दत्त्वा उवाच - ‘भोः ! भक्षयेदं चूर्णम् । तत्प्रभावेन निजाश्वां लप्स्यसे।' सोऽपि गृहं गत्वा तच्चूर्णं भक्षयामास । तेन तस्य तीव्र विरेचनं लग्नम् । अतः स झटिति शौचार्थं ग्रामाद् बहिर्धावितः । यावत् स सरसोऽन्तिकं प्राप्तस्तावत् केनचिद् वृक्षेण बद्धा निजवडवा तेन विलोकिता। अतो हृष्टः स शौचादिकं समाप्य तां गृहमानीतवान् । ततः स तस्मै विप्रतनयाय बहु धनं दत्त्वा सर्वत्र ग्रामे घोषयामास यद् - 'अहो ! विप्रपुत्रोऽयं महाज्ञानी वैद्योत्तमश्च । सर्वैरपि बहुमान्योऽयम् ' इति । ततः परं सर्वत्र तस्य यशःप्रसरः प्रससार । इत आनन्दपुरे राज्ञ आनन्दवर्धनस्य बढ्यो राज्य आसन् । तासु एका केनचित् कारणजातेन तस्मै न रोचते स्म । अतः स तया सह न भाषते स्म, तस्याः प्रासादे न गच्छति स्म, न च तां ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy