________________
त्यम् - मुनिकल्याणकीर्तिविजयः कथा।
अस्मिन् जगति ईदृशा अपि जनाः सन्ति ये तथाविधविधिविडम्बनावशात् सर्वथा मूढतान्विता महामूर्खतया निर्भागधेयपङ्क्तिप्रथमनामधेयतया च लोके प्रसिद्धाः सन्तोऽपि कदाचित् तस्या एव वक्रायाः विधेः कृपाकटाक्षैर्विद्धाः सन्तो समृद्धिशालिनो यशःपुञ्जभाजनं सर्वजनपूजास्पदं च भवन्ति ।
इहाऽपि तादृशस्यैवैकस्य विप्रतनयस्य कथा प्रस्तुताऽस्ति । तथा हि - __ अस्तीह विशाले भरतखण्डे पृथ्वीवध्वा नूपुरोपमं जनानां हृदयानन्दकरमानन्दपुरं नाम नगरम् । स्वयमेवाऽनुशासनपालकत्वाज्जनानामत्र नाऽऽसीदावश्यकता नृपस्य, तथाऽपि अराजकतां केवलं निवारयितुमेव राजाऽऽनन्दवर्धनस्तत्र शास्ति स्म । अथ तस्मान्नगरादनतिदूर एव दक्षिणस्यां दिशि एक: कर्पूरपुरं नाम ग्रामः समस्ति स्म। अत्रत्या अपि जनाः सरलस्वभावा भावनाशीलहृदया दयावन्तश्चाऽऽसन् । ग्रामे तत्रैव ब्राह्मणानां वसतौ विप्र एकोऽवसत् । गौरीशङ्कर इति तन्नाम । आबाल्याद् दारिद्योपहतत्वात् सोऽधिकं पठितुं न शेके। अतो भिक्षावृत्त्यैवाऽऽजीविकां निरवहत् । किन्तु तन्मनसि सततमेषाऽऽजीविकाऽयोग्या - इति चिन्ता प्रचलति स्म । एतावता कुत्रचित् कञ्चिदारोग्यशास्त्रं पठता तेन विविधरोगाणामुपचारकारकाणि हिङ्गलाष्टक-त्रिफलारास्नादियोगनिर्मितानि कानिचिदौषधानि ज्ञातानि । अतस्तेन चिन्तितं यद् - यदि अहमेतानि विविधयोगनिर्मितान्यौषधानि प्रगुणीकृत्य रोगिभ्यो दद्यां तर्हि तत्प्रतिदानरूपेण लब्धेन धनेन मम वृत्तिनिर्विघ्नतया प्रचलेत् । तथा भिक्षोपजीवित्वमपि त्यक्तुं शक्येत ।
ततः स यथाशीघ्रमेतान् योगान् विनिर्माय विविधानौषधान् प्रगुणीकृतवान्, विविधासु स्थालीषु च तच्चूर्णानि स्थापयामास । ततश्च ये ये व्याधिग्रस्तास्तत्समीपं चिकित्सार्थमागच्छन्ति स्म तेभ्यः स तत्तद्रोगार्थमुपयुक्तमौषधमेव केवलं ग्रन्थानुसारेण ददाति स्म । न तु तद्देहं पर्येक्षत नाऽपि पथ्यादिकं वाऽकारयत् । एवं घुणाक्षरन्यायेन दत्ते औषधे यो निरामयो भवति स्म स तस्मै विप्राय धनधान्यादिकमार्पयत् । यस्य च व्याधिर्न शाम्यति स्म यो वा म्रियते स्म स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org