________________
कथा.
न्याय:
ईरानदेशः । 'तेहमुरस्प' नाम राजा ।
सर्वासां प्रजानां न्यायनीतिपूर्वकं राज्यपालनं चकार सः ।
एकदा एकमपराधिनं गृहीत्वा राजभटाः सभामध्ये आनयन् । राजा न्यायपालनार्थं विविधयुक्त्या प्रश्नान् अपृच्छत् ।
तस्य केषांचित् प्रश्नानां प्रत्युत्तरं श्रुत्वा निर्णीतवान् यद्, एष एवाऽपराधीति । ततस्तं राजमार्गं नीत्वा चत्वरे एव शतानि दण्डानि मारयन्तु' इति आज्ञापितवान् राजा ।
एवं श्रुत्वैव अपराधी क्रुद्धोऽभूत् । तं राजानं दुष्टा गालि: अददत् । सहसैव तत्र स्थिताः सर्वेऽपि प्रजाजनाः आसनादुत्तिष्ठा: रोषाकुलाश्च जाताः ।
'अधुनैव तं दुष्टं मृत्युदण्डो भवेत्' इति श्रोतुमेव उत्कण्ठिताः ते सर्वेऽपि जनाः राजानं प्रति कुर्वन्तः उत्थिताः ।
तदैव राजा आह - अपराधिनं बन्धनात् मुक्तिं ददतु ।
Jain Education International
एतच्छ्रुत्वा अहो ! एतत् किं ? इति वचनं निःसृतं जनमुखेभ्यः ।
एतादृशं कुतूलहमिश्रं लोकमानसात् विपरीतं च वर्तनं दृष्ट्वा जनानां चित्ते आश्चर्यं जातं इति ज्ञातं तेन राज्ञा । तत: तेन प्रोक्तं - एतद्रूपेण मेऽवमाननं कृत्वा तेन मदीयः क्रोधो द्विगुणोऽकारि । ततो यदि चेदहं इतोऽपि अधिकं अनुशासनं कुर्यां तर्हि "मया ममाऽपमानस्य प्रतीकारः कृतो भविष्यति, तच्च न न्याय्यम्” इति मन्ये ।
क्रोधं कारयन्तं प्रति क्रोधस्याऽकरणे एव मनुष्यत्वमौदार्यं चाऽस्ति ।
-मुनिधर्मकीर्तिविजयः
101
८७
For Private & Personal Use Only
www.jainelibrary.org