________________
स्त्री अप्यवश्यमेव दडण्नीया । किन्तु एकमपि पापं न कृतं स्यात् ' इति ।
स एव प्रथमं प्रस्तरप्रहारं करोतु येन स्वकीये जीवने यावदीदृशमन्तिमं वाक्यं ईसुख्रिस्त उवाच तावत्तत्कालमेवैकैकं कृत्वा सर्वेषां हस्तेभ्यः प्रस्तरादयः पतिताः शनैः शनैश्च सर्वेऽपि जनास्ततो निर्गताः । द्वावेव तत्र स्थितौ, एक सुख्रिस्तोऽन्या च सा स्त्री । ईसुख्रिस्तस्य तादृशं व्यवहारं दृष्ट्वा निजापराधार्थं पश्चात्तापं कुर्वती सा स्त्री सुख्रिस्तस्य द्वावपि पादौ नेत्राम्बुभि: प्रक्षालितवती । स्वकीये च जीवने सदाचाररूपो नवीनः प्रकाशोऽपि तया प्राप्तः ।
“क्षमा निमलं प्रेम चैवाऽऽन्तरं द्वारमुद्घाटयितुमल" मिति निश्चप्रचम् ।
अत्राऽस्य प्रसङ्गस्योक्तौ उद्देशस्त्वेतावानेव यद् अनेकवर्षशतैर्नवीनाया एव दृष्ट्या उल्बणं गृहीत्वा प्रसङ्ग एष इतिहासपृष्ठे प्रकाशते, तथाऽप्यद्यतनीयः समाजोऽनया दृष्ट्या सर्वथा रहित एव परिज्ञायते ।
वर्तमानः समाजो नाम केवलं तादृशानां मनुष्याणां समूहो यत्र नास्ति धैर्यस्य विवेकस्य ज्ञानस्य वा प्रवेशावकाशः । वस्तुतस्तु शोभना व्यवस्थैव समाजः येन चोत्तमराष्ट्रस्य निर्माणं भवति । उत्तमजनसमूहात् समाजो निर्माणमाप्नोति, उत्तमसमाजेभ्यश्चोत्तमराष्ट्रम् । या काऽप्यव्यवस्थितिर्दृश्यते राष्ट्रे तत्र कारणभूताऽस्ति यस्य कस्यचित् समाजस्याऽव्यवस्थितिः, समाजस्य चाऽव्यवस्थित्या हेतुरपि यस्य कस्यचिज्जनस्याऽव्यवस्थितिरेव । अतः समाजस्य निर्माणेन तु तादृशैरेव जनैर्भवितव्यं येषु धैर्यं विवेको ज्ञानं वा वर्तेत । तथैव च स समाज: प्रतिष्ठितो गण्येत । तस्यैव च समाजस्य शब्दानां सत्पुरुषा मूल्यं कुर्वन्ति । यतस्ते शब्दाः परिस्थितीनां तत्परिणामानां विचारपूर्वकं परेषां च हिताहितं संलक्ष्यैव च प्रवर्तन्ते । न भवति तत्र द्वेषदंशोऽसदाक्रोशो जाड्यमन्यस्य कस्याऽप्यवमाननमवहेलनमपभ्राजनं वा नाम कदाचिदपि ।
उपर्युक्तप्रसङ्गवर्णितः समाजो न वर्तमानसमाजाद् भिन्नः, किन्तु तत्राऽस्ति शिरच्छत्रं यच्च सर्वेऽन्वसरन् । प्रवर्तमानः समाजस्तु शिरच्छत्रविहीनोऽस्ति । यदि नाम 'अस्ति' इति कोऽपि वदेत् तर्हि तदपि धैर्यादिगुणशून्यमेव स्यात् इति सम्भाव्यते । तद्विना च नैतादृशी दु:स्थिति:
समाजस्य शक्या ।
Jain Education International
४८
For Private & Personal Use Only
www.jainelibrary.org