________________
__ "अस्ति समाजो मातापितृस्थानीयः, सामान्याश्च जनास्तु तस्य सन्ततयः।" एतादृशो बोधो न यावज्जागृयात् तावन्न पारस्परिको व्यवहार उदार: समन्वयात्मको वा भवेत् । तथा च न तावत् सुराष्ट्रस्य निर्माणमपि शक्यम्।
वर्तमानसमाजस्य करुणता त्वेषा यत्तत्र परस्परं पादाकर्षणमेव सततं प्रवर्तते । न कोऽप्यन्यस्य कस्यचिदपि उत्कर्ष सोढुं शक्नोति । एतादृशी वृत्तिर्यदा समाजस्य प्रतिष्ठितपदेषु स्थितेषु स्वांश्चाऽग्रगण्यत्वेन ख्यापयत्सु जनेषु दृश्यते तदा मनोऽधिकं दुःखितं भवति । त एव च जना आन्दोलनमपि प्रवर्तयन्ति यद - "समाजात् दूषणानि दूरीकर्तव्यान्येव, तदर्थं चाऽपराधिजना दण्डनीया एव । एवं कृते सत्येव समाजो दूषणमुक्तो भविष्यति" इति । न किन्त्वेवमुच्चारयन्तस्ते जनाश्चिन्तयन्ति यत् ते स्वयमेव दूषणरूपा भूषणरूपा वा समाजे । न केवलं स्थानप्राप्त्या काऽपि योग्यता नाम प्राप्यते येन 'सर्वेऽधिकारा मदायत्ताः' इतिकृत्वा यद्वा तद्वा वक्तुं यथा तथा वा च कर्तुं सोऽधिकारी भवेत् । एतादृशस्य जनस्य स्थितिस्तु स्वयं काचगृहे स्थित्वाऽन्यं प्रस्तरेण प्रहर्तुं उद्युक्तस्य जनस्य इव दयनीयाऽस्ति । यो नाम जनो न क्षमः स्वस्याऽपराधं स्वीकर्तुं स न कदाचिदपि अन्यानपराधिनः कथयितुं तदर्थं च दण्डयितुमधिकारी भवति । नाऽत्र कोऽपि विरोधो दूषणपरिहारकार्ये, किन्तु, तदर्थं तु यत् क्रियते यथा च क्रियते यश्च तत्र मार्गोऽङ्गीक्रियते, तत्र न किमपि गाम्भीर्य, धैर्य, विवेको वा दृश्यते, तत्राऽस्ति विरोधः । प्रश्नस्त्वेक एव भवत्यत्र यद्-अस्माभिराचरितया पद्धत्या समाजात् दोषा हीना जाता उत वृद्धि गताः ?
न कश्चिदपि जनः सर्वथा दोषहीनो दोषमुक्तो वा भवति । दैवमेव तत्र बलीयो वर्तते । दैवस्योत्थानं पतनं च जनानां मनस उत्थाने पतने च कारणत्वेनाऽनुभूयते । तदेव च प्रवर्तकं प्रायः मनुष्याणां कार्यकलापे। भवतु नाम जनः कस्यामपि स्थितौ कस्मिन्नपि पदे च प्रतिष्ठतः किन्तु कर्म दैवं वैव बलवत्तमं प्रतीयते तत्र । प्रारब्धमनुसृत्य जनो यदि कुत्राऽपि प्रर्वतते तर्हि तत्र ‘स निर्दोषः' इति वक्तुं नाऽत्र कोऽप्याशयः किन्तु ताली तु द्वाभ्यामेव हस्ताभ्यां वादयितुं शक्या इति तु स्वीकर्तव्यमेवाऽस्माभिः । तथा च यः कश्चिदपि जनोऽपराधी एव' इत्यभिप्रायादूज़ तस्य कर्मपारवश्यमपि चिन्तनीयमेव । तत्पाश्चादेव च कोऽपि निर्णयः कर्तव्यः ।
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org