________________
कस्याऽपि जनस्य स्थानं मानं वा संलक्ष्य तदनुरूपो व्यवहारस्तस्य सकाशादपेक्ष्यते । अवश्यमेव च तेन स्वस्थानमानादिकं प्रति जागरुकतया व्यवहर्तव्यम् - इत्यपेक्षायां नाऽस्ति काचिदनौचिती किन्तु यश्चाऽत्राऽऽग्रहः सेव्यतेऽस्माभिः तदनुचितम् । कोऽपि जनः प्रथमं तु 'मनुष्यः' एव । पश्चात् स स्थानेन मानेन पदेन वा विशिष्टो भवति । यत्र च मनुष्यत्वं तत्र स्खलनमपि शक्यमेव । एतत्तु सर्व एव स्वीकुर्वन्ति । यथा च स्खलनं शक्यं तथा परिवर्तनमपि तत्र सम्भवत्येव । प्रश्नस्तु केवलमस्माकं प्रतिभावस्याऽस्ति।
भगवता महावीरेण तु दृढप्रहारिसदृशानां नृशंसजनानां, रौहिणेयसमानां तस्कराणां, तिर्यग्जातावुत्पन्नानां च चण्डकौशिकतुल्यसर्पाणामपि हृदयस्य परिवर्तनं कृतं स्वकरुणया । गौतमबुद्धेनाऽपि अङ्गुलिमालाद्यनेकापराधिजनानां स्वनिर्मलवाग्भिः प्रतिबोधः कृत आसीत् । अस्माकं व्यवहारस्तु तैः सार्धं प्रवर्तते ये जना एकदा आशास्पदा उपयोगिनः सज्जनाश्च आसन् किन्तु अद्य त एव स्वकर्मवशात् स्खलनवशाद्वा विपरीतमाचरितवन्तः सन्ति । किं नाम परिवर्तनं न तेषां शक्यम् ? किं सर्वथा ते हेयाः तुच्छा अवमाननीया एव सञ्जाताः ? न ह्येवमस्ति, तत्र शक्यमेव परिवर्तनं तेषां, यतस्तेषामपि हृदयमस्त्येव । तदर्थं तु अस्माभिः स्वकीयोऽभिप्रायः परिवर्तनीयो दृष्टिरपि च परिवर्तनीया।
कस्याऽपि जनस्य लघ्व्या वा महत्या वा क्षते: - या च नाऽस्माभिदृष्टा, केवलं कर्णोपकर्णेन श्रुता एव - तस्या यथामति विस्तरणं, समाचारपत्रेण सामयिकेन वा प्रसारणं, तद्द्वारा च तस्य समाजे राज्ये वा हीनताख्यापनम् - इति तु नाऽस्माकं कृते शोभास्पदम् । किमतेद्स्माक - माभिजात्यम् ? किमेषैवाऽस्माकं कुलीनता? एतादृशीं पध्धतिमाचरन्तो जना अपि समाजस्य दूषणान्येव।
प्रत्येकमपराधानां शिक्षाऽप्यस्ति शिक्षार्थं च नियता पध्धतिरप्यस्त्येव । प्रथमं त्वपराधस्य शुद्धिरनिवार्या । कस्याऽपि कथनमात्रेणैव न किमपि सत्यं भवति । बहुशो दृष्टमपि न तथारूपं भवति तर्हि कथनस्य तु का वार्ता ? द्वेषात् आवेशात् परोत्कर्षस्याऽसहिष्णुतायाश्च कथिताया वार्तायाः सत्यमिति कृत्वा स्वीकारोऽन्याय्य एव । न्यायकर्तरि जने तु विशाला व्यापका विवेकपूता च दृष्टिः सम्यग्ज्ञानं चाऽऽवश्यके स्तः । यदि नाम 'एषाऽस्य क्षतिः' इति सिद्धयेत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org