________________
आस्याः चिन्तनधारा
JoyM
ircumstiane
कि
किमुचितम् ? शिक्षापद्धतिरुत शिक्षणपद्धतिः ?
- - मुनिरत्नकीर्तिविजयः ।। अस्ति ईसुख्रिस्तस्य जीवनस्याऽयं प्रसङ्गः।
एकदा कस्या अपि स्त्रियोऽनाचारोऽन्येन केनाऽपि जनेन ज्ञातः । तेन चिन्तितं यद् - 'अस्य परिहारोऽवश्यमेव कर्तव्यः । तदर्थं त्वेषा स्त्री दण्डनीया प्रहर्तव्या च।'
'वातो वार्ता नयति' इति न्यायेन क्षणेनैव सर्वत्रैषाऽनाचारवार्ता प्रसृता । इत्यतः आमन्त्रितानामनामन्त्रितानामपि जनानां तत्र महान् सम्मर्दः सञ्जातः । केचित् किञ्चिद् ज्ञात्वा तत्राऽऽगताः, केचिदनभिज्ञा एव जनसमूहदर्शनमात्रेण तत्रोपस्थिता अभूवन्, केचिच्चाऽन्यान् पृष्ट्वा अल्पमधिकं वा श्रुत्वा तत्र स्थिता अभवन् । सर्वेषां जनानां मुखे एक एव शब्द उच्चैः श्रूयते स्म 'प्रहरन्तु ! प्रहरन्तु ! एषा पापा दुराचारिणी च, अतो मा मुञ्चन्तु'। ___ यावत् स जनसम्मर्दस्तां प्रहर्तुमुधुक्तो भवेत् तावत्तत्र ईसुख्रिस्त आगतः । 'किमर्थमेतावानाक्रोशः सर्वेषां मुखेषु दृश्यते? कस्य वा कृते एवं 'प्रहरन्तु प्रहरन्तु' इति उच्चार्यते ?' - इति तेन पृष्टम्।
श्रुत्वा तस्य वचः समूहाज्जन एक उक्तवान् – 'एषा स्त्री दुराचारिणी अस्ति, पापा चाऽस्ति । अतो वयं तां प्रहर्तुमुधुक्ताः सञ्जाताः स्मः । समाजात् पापः परिहर्तव्य एव नियतम् ।'
ईसुख्रिस्तस्तस्य तादृश आक्रोशोऽपि स्वस्थचित्तेन श्रुतवान् । यदा च स तूष्णीकतामभजत् तदा ईसुख्रिस्त उक्तवान् - 'सत्यं वदति भवान् । यः कश्चिदपि यदि पापाचरणं कुर्यात् तर्हि सोऽवश्यमेव दण्डनीयः । शत्रु-रोगादिवत् पापमप्युदीयमानमेव शमयितुं योग्यम् । येन समाजो हानं न प्राप्नुयात्'।
एतादृशानि स्वमनोभावानुरूपाणि तस्य वचनानि एककर्णीभूय श्रुतवतां जनानामाक्रोशो द्विगुणितः सञ्जातः । यत एकस्य सत्पुरुषस्य समर्थनं तैः प्राप्तं तेषां प्रवृत्त्यर्थम् ।
तावच्च क्षणं विरम्य सर्वत्रैकां परीक्षकदृष्टिं प्रसार्य ईसुख्रिस्तः पुनरुवाच - 'इतिन्यायादेषा
Jain Education International
४७ For Private & Personal Use Only
www.jainelibrary.org