________________
तत्र कोऽपि ग्राहकः भवितुमर्हति, तं विना ग्रहणं कः कुर्यात् । यः ग्राहकः सैवात्मा।
अन्यच्च - देहादीनां भोक्तृत्वेनाऽपि आत्मनः सिद्धिर्भवति । यद् यद् भोग्यमोदनादि वस्तु विद्यते तस्य भोक्ता पुरुषादिर्भवत्येव एवं देहाद्यपि भोग्यमस्ति अतस्तद्भोक्तृत्वेन आत्मनः सिद्धिर्जायते।
तथा च - जगति ये केचन संघातरूपा: पदार्थाः गेहादयो विद्यन्ते तस्य देवदत्तादिः स्वामिरूपेण भवत्येव । तथैव देहादिरपि संघातरूप एव अतस्तस्यापि कोऽपि स्वामी तु अवश्यमेव भवितुमर्हति, यः स्वामी सैवात्मा । आत्मानं विना देहादेः स्वामी भोक्ता च नान्यः कोऽपि संभवति अतः आत्मैव स्वामितया सिद्ध्यति । ___ अपि च - यस्य विषये संशयो जायते स कुत्रापि विद्यमानः भवत्येव । अविद्यमानवस्तुनः कुत्रापि संशयो न भवत्येव । अस्माकं मनसि 'जीवोऽस्ति न वा' इति संशयो भवति, तेनापि आत्माऽस्ति इति सिद्ध्यति ।
'नासतो विद्यते भावो, नाभावो विद्यते सतः' इति वचनमेतदर्थसंसूचकम् । जगति ये केचन पदार्था विद्यन्ते तद्वाचकाः शब्दाः भवन्त्येव तथा ये शब्दाः विद्यन्ते तेषां पदार्था अपि भवन्त्येव । निषेधरूपेणात्मनः सिद्धिः।
यस्य कस्यापि वस्तुनः केनाऽपि यदि निषेधः क्रियते, तर्हि तस्य वस्तुनः विद्यमानताऽवश्यं भवत्येव । यथा कोऽपि कथयति - अघटः, तदा तत्प्रतिपक्षी घटः कुत्रापि विद्यते एव । यदि केनापि जीवनिषेधः क्रियते तेनापि जीवस्य सत्ता निश्चीयते ।
देवदत्तो नास्तीति कथने देवत्तस्यात्र सत्ता न विद्यते किन्तु अन्यत्र कुत्रापि तस्य सत्ता विद्यते एवेति प्रतीयते। एवंप्रकारेण आत्मनः सिद्धौ सत्यां पुण्यपापकर्मपरलोकादीनामपि सिद्धिर्भवति ।
यदि परलोकोऽस्ति, तदा तस्य प्राप्तिः स्वकृतशुभाशुभकर्मयोगेनैव भवति । शुभकर्मणा सद्गतिः, अशुभकर्मणा च दुर्गतिः जीवानां भवति । तर्हि पूर्वकृतप्रबलपुण्योदयेन प्राप्ते नरजन्मनि सर्वैरपि स्वात्मकल्याणेप्सुभिनरैः दानादिधर्मेषु निर्मलभावतो यतितव्यमेव । तेनैव तेषामिहजन्मनि सुखशान्तिसौभाग्यानि परलोके सद्गतिः परम्परया च मोक्षप्राप्तिः नितान्तं भविष्यन्ति । आत्मसिद्धेश्यमेव हि लाभः । इति शम् ।।
-०
४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org