SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अन्यच्च आत्मनः अविद्यमानतायाम् 'अहम्' एतादृशं ज्ञानं कथं भवेत् । ज्ञानं कदापि निर्विषयं तु न भवत्येव । यदि अहंप्रत्ययविषयभूतात्मनः स्वीकारो न क्रियते तदा तज्ज्ञानं निविषयमेव भविष्यति । तत्तु न समीचीनम् । अतः 'अहम्' इत्याकारकं यज्ज्ञानं सर्वेषां भवत्येव तस्मात् तद्विषयतया आत्मनः स्वीकारोऽपि अवश्यमेव कर्तुं योग्यः । अपि च एतादृशः प्रत्ययः शरीरविषयकः नैव स्वीकर्तुं योग्यः यतः मृतावस्थायां तादृशप्रत्ययस्य अभावः सर्वेषां दृश्यत एव । आत्मनः प्रत्यक्षसिद्धौ अपरापि युक्तिरत्र निर्दिश्यते। यत्-आत्मनः स्मरणादिविज्ञानरूपगुणा प्रत्यक्षविषया भवन्ति, अतः आत्मा प्रत्यक्षोऽस्ति । गुणप्रत्यक्षत्वे गुणिनोऽपि प्रत्यक्षत्वं सर्वत्र निर्विवादं स्वीक्रियत एव । रूपादयो घटस्य गुणाः ते प्रत्यक्षज्ञानविषया भवन्तिः अत एव घटोऽपि प्रत्यक्ष इति व्यवहारो भवति । गुणगुणिनोरभिन्नत्वात् । गुणगुणिनोरभिन्नत्वं तु सर्वैरपि स्वीक्रियत एव। तदस्वीकारे तु पदे पदे अनेकविधा आपत्ति: आपद्येत। यतः प्रथमं तु घटादिपदार्थाः सर्वेषां प्रत्यक्षविषयाः सन्ति तत्रैव दोषः समापद्येत । कथम् ? चक्षुरिन्द्रियेण तु रूपमेव गृह्यते, न घटः, घटस्तु रूपाद् भिन्न एव । तदा 'घटो मया ज्ञातः' इति व्यवहारो न भविष्यत्येव। व्यवहारस्तु भवत्येव, तस्मात् गुणगुणिनोरभिन्नत्वमेव स्वीकार्यम् न तु भिन्नत्वम् । ततश्च स्मरणादिगुणाः प्रत्यक्षगोचराः भवन्ति ते च विषयं विना नैव कदापि स्थातुं शक्नुवन्ति, यश्च तेषां विषयः स एवात्मा अतः गुणप्रत्यक्षे गुणिनः आत्मनश्चापि प्रत्यक्षत्वं सिद्धं भवति । अपि च ज्ञानादिगुणानाममूर्तत्वात् देहस्य च मूर्तवात् ज्ञानादयो गुणाः देहस्य नैव संभवन्ति किन्तु अमूर्तस्यात्मनः एव सम्भवन्ति । अनुमानेनात्मसिद्धिः दण्डादिकरणानामधिष्ठाता कुभकार इव इन्द्रियरूप करणानामपि कोऽपि अधिष्ठाता भवितुमर्हति । यश्चाधिष्ठाता स एवात्मा । नान्यः कोऽपि । अपरञ्च - इन्द्रियद्वारा विषयाणां ग्रहणं भवति अतस्तयोर्मध्ये ग्रहणग्राह्यसम्बन्धोऽस्ति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy