________________
आत्मपदार्थसिद्धिः
- ले. पूज्यपादाचार्यश्रीविजयदेवसूरीश्वराणां शिष्यः
विजयहेमचन्द्रसूरिः दृश्यते सम्प्रति जगति यद् आस्तिकरूपेण स्वं मन्यमानोऽपि जनः नास्तिकवदेव व्यवहरति । तत्कारणन्तु एतदेव यद् तस्य मनसि आत्मरूपतत्त्वस्य निश्चितरूपेण प्रतीतिः नैवास्ति ।
यद्यात्मनः सिद्धिः सन्दिग्धा तर्हि तदाधारेण वतर्मानाः पुण्यपापपरलोकपुनर्भवादयोऽपि असन्त एव भवन्ति ।
अत आत्मसिद्धिः प्रारम्भे एव कर्तुं योग्या ।
अनेकशास्त्रेषु अस्योपरि भिन्नभिन्नरूपेण बढ्यः चर्चा-विचारणाः कृताः विलोक्यन्ते । प्रभुमहावीरपरमात्मनः प्रथमगणधरश्रीमदिन्द्रभूतेरपि एष एव सन्देहः मनसि आसीत् । प्रभुवीरेण तन्मनःस्थितं सन्देहं कथयित्वा प्रत्यक्षादिप्रमाणद्वारा स सन्देहः दूरीकृतः ।
कतिपयजना एवं कथयन्ति यत् आत्मा नैव प्रत्यक्षः स तु अनुमानादिप्रमाणद्वारैव साधयितुं शक्यः ।
भगवता कथितम् - आत्मा प्रत्यक्षगोचरः । कथम् ? जगति एवमवलोक्यते यत् यस्य गुणाः प्रत्यक्षाः भवन्ति स गुण्यपि प्रत्यक्ष इति मन्यते । 'जीवोऽस्ति न वा' एतादृशसंशयरूपविज्ञान एव जीवोऽस्ति । स तु सर्वस्यैव प्रत्यक्षरूपो विद्यत एव । यः विज्ञानरूपो भवति स स्वसंवेदनप्रत्यक्षतः स्वसंविदितो भवत्येव । अन्यथा विज्ञानस्य ज्ञानरूपत्वं नैव घटते । अतः संशयरूपविज्ञानं यदि प्रत्यक्षमस्ति तहि जीवोऽपि प्रत्यक्षोऽस्त्येव। ___ अपि च विनात्मानं यस्य कस्यापि जनस्य मनसि एवं भवति यत् - मयेदं कृतम्, इदमहं करोमि, इदमहं करिष्यामि, इति त्रैकालिकविषयः प्रत्ययो भवति, स कथं घटिष्यति । अत्र प्रत्यये यत् अहंविषयकं ज्ञानं भवति तदेवात्मनः प्रत्यक्षसिद्धौ प्रमाणम् ।
एतज्ज्ञानं नैवानुमानम् यतस्तद् लिङ्गजन्यं न, नापि च आगमरूप प्रमाणजन्यं यतः आगमानभिज्ञानां जनानामपि एतादृशः अहंविषयकः अन्तर्मुखबोधो भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org