________________
*
मनो निबोध।
-अभिराजराजेन्द्रमिश्रः
॥१॥
॥२॥
यनिर्मितं गगनचुम्बि महार्घहर्म्य पुञ्जीकृतञ्च सुखसिन्धुविहारतन्त्रम् । सङ्कल्पितं यदपि कर्तुमथो भविष्ये सर्वं जगत्यवशिनष्टि, मनो निबोध रामाऽभिरामतनुयष्टिरनिन्द्यरूपा पुत्रोऽपि चन्द्रवदनो विनताश्च भृत्याः । तुल्योदराश्च विपदोघसहायवन्तः सर्वं जगत्यवशिनष्टि, मनो निबोध न्यकृत्य शम्भुचरितश्रवणं मृडानीपादाब्जसेवनमथाऽपि मुकुन्दभक्तिम् । यत्साधितस्सपदि जागतिकप्रपञ्चः सर्वं जगत्यवशिनष्टि, मनो निबोध प्रक्षालितं तनुमलं खलु कूपनीरै -- र्गाङ्गैर्जलैर्विशदितो न परं चिदात्मा । तीर्थानि हन्त न च दृग्विषयीकृतानि सर्वं जगत्यवशिनष्टि, मनो निबोध संसेविताः खलधियोऽतनुलाभसिद्ध्यै यद् वञ्चिताः सहृदयाश्च परार्थबुद्धया । आत्मा कलङ्कित इहैव पशुप्रवृत्त्या सर्वं जगत्यवशिनष्टि, मनो निबोध
||३||
॥४॥
॥५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org