SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रोत्कीर्णा वर्णमाला प्रविबुधवृषभैर्देवनद्यास्तटेषु हर्षोत्कर्षप्रकर्षात् तव परमगिरः पावनीः पुष्पवर्णाः । सोद्यानवद्या श्रवणपथमथाऽऽरोप्य हृत्पद्मसत्कं साऽद्याऽपि ध्यानमग्नैर्विशदजलकणेष्वीक्ष्यते तारकासु कम्बुर्जातोऽम्बुराशौ तरलतरजले तुङ्गतरङ्गे प्रादुर्भूता च लक्ष्मीः सुरगिरिमथने चञ्चलाऽतः स्वभावात् । नेमिं नीलाश्मरश्मिप्रवरतनुभृतं धैर्यतोऽब्धि जयन्तं सोदर्यौ संश्रितौ तौ, वरगुणशरणं धीमतां श्रेयसे स्तात् चित्तं मत्तेभमोहः परिमथति विभो ! त्वय्यपि भक्तिसक्त माच्छिन्ते मारचौरो हृदयसदनतो धैर्यरत्नं प्रभो ! मे । क्रोधो रुद्धावबोधो ज्वलयति सततं हृद्वनं भक्ति सिक्त मित्थं हे नाथ ! ज्ञात्वा कुरु मयि करुणां रक्ष रक्षेश ! नेमे ! (वसन्ततिलकावृत्तम्) पञ्चेषुदर्पदलने प्रथितैकवीर्य ! शैवेय ! वेद ! भवतान्मयि सुप्रसन्नः । कामेषुणा मम मनो नहि नाथ ! विद्धं वर्मायते यदि विभोर्वरदः प्रसादः उज्जीवितोऽस्मि भवता भुवनैकमेघ ! धर्म्यं धनुर्विकिरता हृदयान्तरिक्षे । नेमे ! मनोजविकृतेः शमनाय काम्य ! हृत्तोषपोष ! वचनाम्बुविनष्टशोष ! Jain Education International For Private & Personal Use Only ૫] ગો કો કો ॥१५॥ www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy