________________
आख्यादः
हृदयप्रदीपः
- मुनिकल्याणकीर्तिविजयः
श्लोको वरं परमतत्त्वपथप्रकाशी, न ग्रन्थकोटिपठनं जनरञ्जनाय । सञ्जीवनीति वरमौषधमेकमेव, व्यर्थ श्रमप्रजननो न तु मूलभारः ॥ (हृदयप्रदीपषट्त्रिंशिका - ३२)
ऐदंयुगीनो ह्यस्माकं समाजोऽर्थप्रधानः । यतः कुतोऽपि येन केनाऽपि प्रकारेण धनं कथं लभ्यत - इत्येतदेव चिन्तयन्ति जनाः । प्रायः तान्येव कार्याणि कुर्वन्ति ते यैरार्थिको लाभो भवेत् । तथाऽध्ययनादिकमपि तदेव कुर्वते यद् धनार्जने एव उपयोगि भवेत् । यद्यप्येतस्याः परिस्थितेरुत्तरदायित्वमस्माकमर्थप्रधानायाः समाजव्यवस्थाया एवाऽस्ति । यतो यत्र पश्यामस्तत्र धनस्यैव निर्बाधं साम्राज्यं विलसद् दृश्यते । अतः कारणादेवाऽस्माकं समाजे एतादृशोऽध्ययनस्य भूयान् महिमाऽस्ति ।
1
प्राचीने काले हि जनेभ्योऽर्थार्जनोपयोगिशास्त्रैः सह दार्शनिकाध्यात्मिकशास्त्राण्यपि बहु रोचते स्म, यतस्तेषां लक्ष्यं केवलं जीवननिर्वाहो नाऽऽसीत्, अपि तु चित्तशुद्धिः, उन्नतो जीवनव्यवहारः, गुणवृद्धिरित्यादिकमप्यासीत् ।
अद्यत्वे तु जनानां व्यावहारिक-सामाजिक- भौतिकशास्त्राणामध्ययनमेव प्रमाणं यस्य फलस्वरूपेण ते आर्थिक-सामाजिक-व्यावहारिकेषु क्षेत्रेषु महतीं पदवीं प्राप्नुयुः । अस्य लक्ष्यस्य सम्प्राप्त्यर्थं ते सर्वानपि नैतिक-धार्मिकसिद्धान्तान् मूल्यांश्च भस्मसात् कुर्वन्ति, यथाकथमपि च तत् प्राप्नुवन्ति । तेषां चित्तं भौतिकवस्तुषु तथा रतं भवति यथा तेऽन्यत् किमपि विचारयितुं सर्वथाऽक्षमा भवन्ति । तथाऽपि कदाचित् निजमहत्त्वादिवृद्ध्यर्थं तेऽन्यत्र शास्त्रेषु दृष्टिपातं कुर्वन्त्यपि, यदि कश्चित् समयोऽवशिष्यते । अतः चित्तशुद्धयादिकृते तु शास्त्रपठनस्य वार्ता दूरापास्तैव ।
I
ये केचिदपि शास्त्राणि पठन्त्यात्महिताय तदनुसारं च जीवनपथं यापियतुं यतन्ते, त एव सर्वं सामाजिकं व्यवहारं कुर्वन्तोऽपि इहाऽधिकृताः । शास्त्रकारमहर्षिस्तानेवमुपदिशति यन्निरर्थकं सर्वमपि परित्यज्य परमतत्त्वप्रापणे पथप्रदर्शकः श्लोक एकः पठितव्यो येन तदर्थचिन्तनादि
Jain Education International
५९
For Private & Personal Use Only
www.jainelibrary.org