________________
I
कृत्वा तद्भावनया मनो भावयित्वा निजचैतन्यं च प्रकाशियत्वा परमतत्त्वप्राप्त्यै यत्नः क्रियेत प्रभूतानां ग्रन्थानां पठनं हि कदाचिद् व्यर्थमपि भवेत् यतस्तत्र जनमनोरञ्जनं कदाग्रहपुष्टि - रहङ्कारवृद्धिरित्यादयो दोषा अपि सम्भवेयुः ।
यद्यपि पठनमेतदतीवाऽऽवश्यकमुपयोगि च यदि तत् स्वान्यचित्तप्रकाशनाय स्वान्तः सुखाय दोषहानये च सहायकं भवेत् । तथा विविधशास्त्राणि पठतैव च परमतत्त्वप्राप्तिपथदर्शकः श्लोको वाक्यं वाऽपि प्राप्येत । यतो वयं न जानीमो यत् कुतोऽस्माकं स प्राप्येत ।
इदमेव प्रतिवस्तूपमया भावयति, यथा - इह जगति विविधरोगाणामुपचारकरणे समर्थानि बहूनि औषधानि विद्यन्ते किन्तु सञ्जीवनी नामौषधी त्वेकैव सर्वेषां रोगाणामुपचाराय समर्था । यदि सा लभ्येत तदाऽन्येषामौषधानां समुदायो वृथापरिश्रमजनक एव । यत एकयैवाऽनया सर्वेषामप्यौषधानां कार्यं क्रियते ।
किन्तु तस्याः प्राप्त्यर्थं भूरिपरिश्रमः कर्तव्यः । प्रथमं तु का सञ्जीवनी ? कानि तल्लक्षणानि ? इत्यादि सर्वं तत्सम्बिन्ध परिज्ञानमावश्यकम् । ततः सा कुत्र स्थानेऽरण्यादिके प्ररोहति कुतो वा प्राप्यते इत्यादि ज्ञातव्यम् । ततश्च तत्स्थानं प्राप्य तत्रस्थानि सहस्रशो मूलानि चित्वा परीक्ष्य च तेषु कतमत् सञ्जीवनीमूलमिति संशोधनीयम् । यदि कथमपि भाग्यवशात् सा प्राप्ता तदा सिद्धं न: समीहितम् !
एवं मुक्तिपथप्रकाशकश्लोकप्राप्तिरपि सञ्जीवनीप्राप्तितुल्यैव । तत्प्राप्त्यै हि प्रथमं मुमुक्षाऽऽवश्यकी । तदनन्तरं केषु केषु शास्त्रेषु मुक्तिप्राप्त्युपायाः सन्दर्शिता इति गवेषणीयम् । ततो निरर्थकं सर्वमपि प्रयत्नपूर्वं परिहृत्य विशेषतया तत्तच्छास्त्राणि परिशीलनीयानि । यद्यपि परोपकारप्रवणैः शास्त्रकारभगवद्भिर्बहूनि तादृशानि शास्त्राणि विरचितानि यानि पठतामन्तःकरणानि चेतियतुं सुसमर्थानि तथाऽपि "यस्य चित्तं यत्र स्थिरीभवेत् तस्मै तदेव हि रोचते” इति न्यायेन विविधग्रन्थानां परिशीलनेन कदाचित् तादृशः श्लोको लभ्येताऽपि येन चित्तं चेतितं भवति । तदनन्तरं हि नाऽऽवश्यकमन्यान्यशास्त्रपठनम् । केवलं श्लोकसन्दर्शितोपायानुसारं जीवनयात्रां निर्वोढुं प्रमादरहिततया प्रयत्नः कर्तव्यः । स एवाऽस्माकं परमतत्त्वप्रापको भविष्यतीति ।
Jain Education International
101
६०
For Private & Personal Use Only
www.jainelibrary.org