SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ एरण्डफलबीजादे-बन्धच्छेदाद्यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेक्ष्यते ।। यथाधस्तिर्यगूर्वं च लेष्टुवाय्वग्निवीचयः । स्वभावतः प्रवर्त्तन्ते तथोर्ध्वगतिरात्मनः ।। मृल्लेपसङ्गनिर्मोक्षा-द्यथा द्रष्टाऽप्स्वलाबुनः । कर्मसङ्गविनिर्मोक्षा-त्तथा सिद्धगतिः स्मृता ।। यथाऽलाबु लघु अस्ति, स सदा जलस्योपरि तरति । किन्तु यदा तस्योपरि मृत्तिकालेपः क्रियते तदा कियद् गुरु तदा भवति । एवं क्रमशः अष्टशः लेपे कुर्वति सति तदलाबु गुरूभूय अधोगत्वा जले निमज्जति । अथ क्रमशोऽष्टशो लेपो यः कृतः स लेपो यदा दूरीक्रियते तदा जलस्योपरि आगत्य तरति तदलाबु । एवं दुर्गुणैः तथाऽष्टभिः कर्मावरणैः बद्धः आत्मा यदा निरावृतो, मुक्तश्च भवेत्तदा आत्मा सहजतया शीघ्रमेवोर्ध्वं गच्छति । वयं तां दिशं प्रति प्रयतेमहीति शम् । गता वेदविद्या गतं धर्मशास्त्रं गतं रे ! गतं रे ! गतं रे ! गतं रे ! । इदानीन्तनानां जनानां प्रवृत्तिः सुबन्ते तिङन्ते कदाचित् कृदन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy