________________
॥३४॥
||३५||
॥३६॥
॥३७॥
अक्रमातिशयोक्तिः वर्धन्त एव सार्धं सुकृतानि यशांसि नेमिसूरिणाम् । विफलीकृतकुकृतानि झङ्कृतजनचेतनानि तथा
चपलातिशयोक्तिः विपदां हरणं प्रहरण-मपि दोषाणां स्वपुण्यशोषाणाम् । नेमिगुरूणां शरणं स्वीकर्ता तत्क्षणं विगतपापः
___ अत्यन्तातिशयोक्तिः प्रथमं गच्छति कीर्ति-स्ततः प्रतापस्ततः स्वयं सूरिः । क्षेत्रे विहारविषये, क्रमः समस्तीह सूरीणाम्
तुल्ययोगिता वचनानि नेमिमुखतः पापध्वान्तान्यथो जनस्वान्तात् । निर्गच्छन्ति हि महता-मनुभावो वर्णनातीतः
तुल्ययोगिता - २ श्रीनेमिसूरियशसो दृष्ट्वोज्ज्वलिमानमद्य मे हृदये। कर्पूरफेनपूरा-ऽकूपारजलादि भाति धूसरितम्
तुल्ययोगिता - ३ रागी वा द्वेषी वा, स्यात् कोऽपि तथापि सोऽस्य नोऽस्वीयः । वन्दक-निन्दकयोरपि, समः स मम गुरुवरो नेमिः
तुल्ययोगिता - ४ कश्मीरजं मलयजं कस्तूरीत्यादि सकलमपि सुखदम् । श्रीनेमिसूरिराजा-मनुपमगुणकदम्बके चापि
दीपकम् शारदचन्द्रज्योत्स्ना प्रसरत्यम्बरतलेऽर्पयति शैत्यम् । श्रीनेमिसूरिराजां क्षितिमण्डलमण्डपे तथा स्फातिः
॥३८॥
॥३९॥
॥४०॥
॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org