SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ ॥२७॥ ॥२८॥ ॥२९॥ कैतवापह्नुतिः जिनवचनोपवनान्त-विकसितसुरभितसुचरितपुष्पाणि । नेमिगुरोर्वचनमिषाद् वर्षन्ति श्रोतृकर्णेषु उत्प्रेक्षा सद्गुणसमुद्रमथनं कृत्वाऽऽप्य कृपामृतं प्रपीय च तत् । नेमिरभूद् भूमितले शङ्केऽभिनवः सुधांशुरसौ उत्प्रेक्षा - २ श्रीनेमेरकलङ्क प्रकाशधर्मत्वमनुपमं वीक्ष्य । तदवाप्तुमिव तपस्यति शशाङ्क आकाशमण्डपेऽद्यापि रूपकातिशयोक्तिः यत्स्पर्शन-दर्शनतः स्मरणादपि पापकर्दमः शुष्येत् । शुद्धयेच्चित्तं च नृणां, तज्जङ्गमतीर्थमभिवन्दे सापह्नवातिशयोक्तिः गुरुदेव ! तावकीने पीनेऽदीने ह्यगाधहद्देशे । प्रतिष्ठितं गाम्भीर्य, मूढास्तु तदर्णवेऽनुमिन्वन्ति भेदकातिशयोक्तिः लोकोत्तरः प्रतापो-ऽनुपमेया ब्रह्मचर्यनिष्ठा च । भवभीरुताऽप्यनन्या, सर्वमसामान्यमस्य गुरोः सम्बन्धातिशयोक्तिः यद्ब्रह्मचर्यदीप्त्या विश्वं देदीप्यते ज्वलज्ज्योतिः । तं प्रणिपतामि नेमि मुनिमण्डलमौलिमुकुटसमम् असम्बन्धातिशयोक्तिः नेमिगुरो ! तव कीर्ति-दिशि दिशि पर्यटति तेन तद्गानम् । नैव करोमि, न वयं स्वैरत्वं यत् कदाचिदपि ॥३०॥ ॥३१॥ ॥३२॥ ॥३३॥ १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521008
Book TitleNandanvan Kalpataru 2002 00 SrNo 08
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2002
Total Pages128
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy